संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्|
चत्वारिंशोऽध्यायः

मार्कण्डेयपुराणम् - चत्वारिंशोऽध्यायः

मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.


दत्तात्रेय उवाच

उपसर्गाः प्रवर्तन्ते दृष्टे ह्यात्मनि योगिनः ।
ये तांस्ते संप्रवक्ष्यामि समासेन निबोध मे ॥१॥

काम्याः क्रियास्तथा कामान् मानुषानभिवाञ्छति ।
स्त्रियो दानफलं विद्यां मायां कुप्यं धनं दिवम् ॥२॥

देवत्वममरेशत्वं रसायनचयाः क्रियाः ।
मरुत्प्रपतनं यज्ञं जलग्न्यावेशनन्तथा ॥३॥

श्राद्धानां सर्वदानानां फलानि नियमांस्तथा ।
तथोपवासात् पूर्ताच्च देवताभ्यर्च्चनादपि ॥४॥

तेभ्यस्तेभ्यश्च कर्मभ्य उपसृष्टोऽभिवाञ्छति ।
चित्तमित्थं वर्तमानं यत्नाद्योगी निवर्तयेत् ॥५॥

ब्रह्मसङ्गिमनः कुर्वन्नुपसर्गात् प्रमुच्यते ।
उपसर्गैर्जितैरेभिरुपसर्गास्ततः पुनः ॥६॥

योगिनः संप्रवर्तन्ते सात्त्वराजसतामसाः ।
प्रातिभिः श्रावणो दैवो भ्रमावत्तौ तथापरौ ॥७॥

पञ्चैते योगिनां योगविघ्राय कटुकोदयाः ।
वेदार्थाः काव्यशास्त्रार्था विद्याशिल्पान्यशेषतः ॥८॥

प्रतिभान्ति यदस्येति प्रातिभः स तु योगिनः ।
शब्दार्थानाखिलान् वेत्ति शब्दं गृह्णाति चैव यत् ॥९॥

योजनानां सहस्रेभ्यः श्रावणः सोऽभिधीयते ।
ममन्ताद्वीक्षते चाष्टौ स यदा देवतोपमः ॥१०॥

उपसर्गन्तमप्याहुर्दैवमुन्मत्तवद् बुधाः ।
भ्राम्यते यन्निरालम्बं मनो दोषेण योगिनः ॥११॥

समस्ताचारविभ्रांशाद् भ्रमः स परिकीर्तितः ।
आवर्त इव तोयस्य ज्ञानावर्तो यदाकुलः ॥१२॥

नाशयेच्चित्तमावर्त उपसर्गः स उच्यते ।
एतैर्नाशितयोगास्तु सकला देवयोनयः ॥१३॥

उपसर्गैर्महाघोरैरावर्तन्ते पुनः पुनः ।
प्रावृत्य कम्बलं शुक्लं योगी तस्मान्मनोमयम् ॥१४॥

चिन्तयेत् परमं ब्रह्म कृत्वा तत्प्रवणं मनः ।
योगयुक्तः सदा योगी लघ्वाहारो जितेन्द्रियः ॥१५॥

सूक्ष्मास्तु धारणाः सप्त भूराद्या मूर्घ्नि धारयेत् ।
धरित्रीं धारयेद्योगी तत् सौक्ष्म्यं प्रतिपद्यते ॥१६॥

आत्मानं मन्यते चोर्वों तद्गन्धञ्च जहाति सः ।
यथैवाप्सु रसं सूक्ष्मं तद्वद्रूपञ्च तेजसि ॥१७॥

स्पर्शं वायो तथा तद्वद्विभ्रतस्तस्य धारणाम् ।
व्योम्रः सूक्ष्मां प्रवृत्तिञ्च शब्दं तद्वज्जहाति सः ॥१८॥

मनसा सर्वभूतानां मनस्याविशते यदा ।
मानसीं धारणां बिभ्रन्मनः सूक्ष्मञ्च जायते ॥१९॥

तद्वद् बुद्धिमशेषाणां सत्त्वानामेत्य योगवित् ।
परित्यजति सम्प्राप्य बुद्धिसौक्ष्म्यमनुत्तमम् ॥२०॥

परित्यजति सूक्ष्माणि सप्त त्वेतानि योगवित् ।
सम्यग्विज्ञाय योऽलर्क ! तस्यावृत्तिर्न विद्यते ॥२१॥

एतासां धारणानान्तु सप्तानां सौक्ष्म्यमात्मवान् ।
दृष्ट्वा दृष्ट्वा ततः सिद्धिं त्यक्त्वा त्यक्त्वा परां व्रजेत् ॥२२॥

यस्मिन् यस्मिंश्च कुरुते भूते रागं महीपते ।
तस्मिंस्तस्मिन् समासक्तिं संप्राप्य स विनश्यति ॥२३॥

तस्माद्विदित्वा सूक्ष्माणि संसक्तानि परस्परम् ।
परित्यजति यो देही स परं प्राप्नुयात् पदम् ॥२४॥

एतान्येव तु सन्धाय सप्त सूक्ष्माणि पार्थिव ! ।
भूतादीनां विरागोऽत्र सद्भावज्ञस्य मुक्तये ॥२५॥

गन्धादिषु समासक्तिं सम्प्राप्य स विनश्यति ।
पुनरावर्तते भूप ! स ब्रह्मापरमानुषम् ॥२६॥

सप्तैता धारणा योगी समतीत्य यदिच्छति ।
तस्मिंस्तस्मिंल्लयं सूक्ष्मे भूते याति नरेश्वर ! ॥२७॥

देवानामसुराणां वा गन्धर्वोरगरक्षसाम् ।
देहेषु लयमायाति सङ्गं नाप्रोति च क्वचित् ॥२८॥

अणिमा लघिमा चैव महिमा प्राप्तिरेव च ।
प्राकाम्यं च तथेशित्वं वशित्वञ्च तथापरम् ॥२९॥

यत्रकामावसायित्वं गुणानेतांस्तथैश्वरान् ।
प्राप्नोत्यष्टौ नरव्याघ्र ! परं निर्वाणसूचकान् ॥३०॥

सूक्ष्मात् सूक्ष्मतमोऽणीयान् शीघ्रत्वं लघिमा गुणः ।
महिमाशेषपूज्यत्वात् प्राप्तिर्नाप्राप्यमस्य यत् ॥३१॥

प्राकाम्यमस्य व्यापित्वादीशित्वञ्चेश्वरो यतः ।
वखित्वाद्वशिमा नाम योगिनः सप्तमो गुणः ॥३२॥

यत्रेच्छास्थानमप्युक्तं यत्रकामावसायिता ।
ऐश्वर्यकारणैरेभिर्योगिनः प्रोक्तमष्टधा ॥३३॥

मुक्तिसंसूचकं भूप ! परं निर्वाणमात्मनः ।
ततो न जायते नैव वर्धते न विनश्यति ॥३४॥

नापि क्षयमवाप्रोति परिणामं न गच्छति ।
छेदं क्लेदं तथा दाहं शोषं भूरादितो न च ॥३५॥

भूतवर्गादवाप्नोति शब्दाद्यैः ह्रियते न च ।
न चास्य सन्ति शब्दाद्यास्तद्भोक्ता तैर्न युज्यते ॥३६॥

यथाहि कनकं खण्डमपद्रव्यवदग्निना ।
दग्धदोषं द्वितीयेन खण्डेनैक्यं व्रजेन्नृप ॥३७॥

न विशेषमवाप्रोति तद्वद्योगाग्निना यतिः ।
निर्दग्धदोषस्तेनैक्यं प्रयाति ब्रह्मणा सह ॥३८॥

यथाग्निरग्नौ संक्षिप्तः समानत्वमनुव्रजेत् ।
तदाख्यस्तन्मयो भूतो न गृह्येत विशेषतः ॥३९॥

परेण ब्रह्मणा तद्वत् प्राप्यैक्यं दग्धकिल्विषः ।
योगी याति पृथग्भावं न कदाचिन्महीपते ! ॥४०॥

यथा जलं जलेनैक्यं निक्षिप्तमुपगच्छति ।
तथात्मा साम्यमभ्येति योगिनः परमात्मनि ॥४१॥

इति श्रीमार्कण्डेयपुराणे योगसिद्धिर्नाम चत्वारिंशोऽध्यायः

N/A

References : N/A
Last Updated : March 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP