चतुर्थः पाद: - सूत्र ६

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


चितितन्मात्रेण तदात्मकत्वादित्यौडुलोमि: ॥६॥

चितितन्मात्रेण तदात्मकत्वादित्यौडुलोमि: ॥
यद्यप्यपहतपाप्मत्वादयो भेदेनैव धर्मा निर्दिस्यन्ते तथापि शब्दविकल्पजा एवैते ।
पाप्मादिनिवृत्तिमात्रं हि तत्र गम्यते ।
चैतन्यमेव त्वस्यात्मन: स्वरूपमिति तन्मावेण स्वरूपेणाभिनिष्पतिर्युक्ता ।
तथा च श्रुति: एवं वा अरे‍ऽयमात्माऽनन्तरोऽबाहय: कृत्स्न: प्रज्ञानघन एवेत्येवंजातीयकाऽनुगृहीता भविष्यति ।
सत्यकामत्वादयस्तु यद्यपि वस्तुस्वरूपेणैव धर्मा उच्यन्ते सत्या: कामा अस्येति ।
तथाऽप्युपाधिसंबन्धाधीनत्वात्तेषां न चैतन्यवत्स्वरूपत्वसंभव: ।
अनेकाकारत्वप्रतिषेधात् ।
प्रतिषिद्धं हि ब्रम्हाणोऽनेकाकारत्वं न स्थानतोऽपि परस्योभयलिङ्गमित्यत्र ।
अत एव चजक्षणादिसंकीर्तनमपि दु;खाभावमात्राभिप्रायं स्तुत्यर्थमात्मरतिरित्यादिवत् ।
न हि मुख्यान्येव रतिक्रीडांइथुनान्यात्मनिमित्तानि शक्यन्ते वर्णयितुं द्वितीयविषयत्वात्तेषाम् ।
तस्मान्निरस्ताशेषप्रपञ्चेन प्रसन्नेनाव्यपदेश्येन बोधात्मनाऽभिनिष्पद्यत इत्यौडुलोमिराचार्यो मन्यते ॥६॥

N/A

References : N/A
Last Updated : December 22, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP