चतुर्थः पाद: - सूत्र १८

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्योक्ते: ॥१८॥

प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्योक्ते: ॥
अथ यदुक्तं आप्नोति स्वाराज्यमित्यादिप्रत्यक्षोपदेशान्निरवग्रहमैश्वर्यं विदुषां न्याय्यमिति तत्परिहर्तव्यम् ।
अत्रोच्यते ।
नायं दोष: ।
आधिकारिकमण्डलस्थोक्ते: ।
आधिकारिकोय: सवितृमण्डलादिषु विशेषायतनेश्ववस्थित: पर ईश्वरस्तदायत्तैवेयं स्वाराज्यप्राप्तिरुच्यते ।
यत्कारणमनन्तरं आप्नोतिमनसस्पतिमित्याह ।
यो हि सर्वमनसां पति: पूर्वसिद्ध ईश्वरस्तं प्राप्नोतीत्येतदुक्तं भवति ।
तदनुसारेणैव चानन्तरं वाक्पतिश्चक्षुष्पति: श्रोत्रपतिर्विज्ञानपतिश्च भवतीत्याह ।
एवमन्यत्रापि यथासंभवं नित्यसिद्धेस्वरयत्तमेवेतरेषामैश्वर्यं योजयितव्यम् ॥१८॥

N/A

References : N/A
Last Updated : December 22, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP