चतुर्थः पाद: - सूत्र १६

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


स्वाप्ययसंपत्त्योरन्यतरापेक्षमाविष्कृतं हि ॥१६॥

कथं पुनर्मुक्तस्यानेकशरीरावेशादिलक्षणमैश्चर्यमभ्युपगम्यते यावता तत्केन कं विजानीयात् न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्विजानीयात् सलिल एको द्रष्टाऽद्वैतो भवतीति चैत्रंजातीयका श्रुतिर्विशेषविज्ञानं वारयतीत्यत उत्तरं पठति ॥
स्वाप्ययसंपत्त्योरन्यतरापेक्षमाविष्कृतं हि ॥
स्वप्यय: सुषुप्तं स्वमपीतो भवति तस्मादेनं स्वपितीत्याचक्षत इति श्रुते: ।
संपत्ति: कैवल्यं ब्रम्हौव सन्त्रम्हाप्येतीति श्रुते: ।
तयोरन्यतरामवस्थामपेक्ष्यैतद्विशेषसंज्ञाभाववचनं क्वचित्सुषुप्तावस्थामपेक्ष्योच्यते कृचित्कैवल्यावस्थाम् ।
कथमवगम्यते यतस्तत्रैव तदधिकारवशादाविष्कृतं एतेभ्यो भूतेभ्य: समुत्थाय तान्येवानु विनश्यति न प्रेत्य संज्ञाऽस्तीति यत्र स्वस्य सर्वमात्मैवाभूद्यत्र सुप्तो न कंचन कामं कामयते न कंचन स्वप्नं पश्यतीत्यादिश्रुतिभ्य: ।
सगुणविद्याविपाकस्थानं त्वेतत्स्वर्गादिवदवस्थान्तरं यत्रैतदैश्वर्यमुपवर्ण्यते तस्माददोष: ॥१६॥

N/A

References : N/A
Last Updated : December 22, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP