चतुर्थः पाद: - सूत्र ४

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


अविभागेन दृष्टत्वात् ॥४॥

अविभागेत द्दष्टत्वात् ॥
परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते य: स किं परस्मादात्मन: पृथगेव भवत्युताविभागनैवावातिष्ठात इति वीक्षायां स तत्र पर्येतीत्यधिकरणाधिकर्तव्यांनर्देशाज्ज्योतिरुपसंपद्येति च कर्तृकर्मनिर्देशाद्भेदेनैवावस्थानमिति यस्य मतिस्तं व्युत्वादयतविबक्त एव परेणात्मना मुक्तोऽवतिष्ठते ।
कुतो द्दष्टत्वात्‌ ।
तथा हि तत्त्वमसि अहं ब्रम्हास्मि यत्र नान्यत्पश्यति न तु तदद्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पस्येदित्यवमादीनि वाक्यान्यविभागनैव परमात्मानं दर्शयन्ति ।
यथादर्शनमेव च फलं युक्तं तत्क्रतुन्ययात् ।
यथोदकं शुद्धे शुद्धमासिक्तं ताद्दगेव भवति ।
एवं मुनेर्विजानत आत्मा भवति  गौतम ।
इति चैवमादीनि मुक्तस्वरूपनिरुषणपराणि वाक्यान्यविभागमेव दर्शयन्ति ।
नदीसमुद्रादिनिदर्शनानि च ।
भेदनिर्देशस्त्वभेदेऽप्युपचर्यते ।
स भगव: कस्मिन्प्रतिष्ठित इति स्वे महिम्नीति आत्मरतिरात्मक्रीड इति चैवमादिदर्शनात् ॥४॥

N/A

References : N/A
Last Updated : December 22, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP