चतुर्थः पाद: - सूत्र २

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


मुक्त: प्रतिज्ञानात् ॥२॥

क: पुनर्विशेष: पूर्वास्ववस्थास्विह च स्वरूपानपायसाभ्ये सतीत्यत आहे ॥
मुक्त: प्रतिज्ञानात् ॥
यो‍ऽत्राभिनिष्पद्यत इत्युक्त: स सर्वबन्धविनिर्मुक्त: शुद्धेनैवात्मनाऽवतिष्ठते ।
पूर्वत्रान्धो भवत्यपि रोदितीव विनाशमेवापीतो भवतिति च अवस्थात्रयकलुषितेनात्मनेत्ययं विशेष: ।
कथं पुनरवगम्यते मुक्तोऽयमिदानीं भवतीति प्रतिज्ञानादित्याह ।
तथा हि एतं त्वेव ते भूयोऽणुव्याख्यास्यामीत्यवस्थात्रयदोषविहनिमात्मानं व्याख्येयत्वेन प्रतिज्ञाय अशरीरं वाव सन्तं न प्रियाप्रिये  स्पृशत इति चोपन्यस्य स्वेन रूपेणाभिनिष्पद्यते स उत्तम: पुरुष इति चोपसंहरति ।
तथाऽऽख्यायिकोपक्रमेऽपि य आत्माऽपहतपाप्मेत्यादिमुक्तात्मविषयमेव प्रतिज्ञानम् ।
फलत्वसिद्धिरपि मोक्षस्य बन्धननिवृत्तिमात्रापेक्षा नापूर्वोपजननापेक्षा ।
यदप्यभिनिष्पद्यत इत्युत्पत्तिपर्यायत्वं तदपि पूर्वावस्थापेक्षं यथा रोगनिवृत्तावरोगोऽभिनिष्पद्यत इति तद्वत्
तस्माददोष: ॥२॥


Last Updated : December 22, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP