संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्|
अध्यायः ६३

वराहपुराणम् - अध्यायः ६३

'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे.


अगस्त्य उवाच ।
अथापरं महाराज पुत्रप्राप्तिव्रतं शुभम् ।
कथयामि समासेन तन्मे निगदतः श्रृणु ॥१॥

मासे भाद्रपदे या तु कृष्णपक्षे नरेश्वर ।
अष्टम्यामुपवासेन पुत्रप्राप्तिव्रतं हि तत् ॥२॥

षष्ठ्यां चैव तु संकल्प्य सप्तम्यामर्चयेद् हरिम् ।
देवक्युत्सङ्गगं देवं मातृभिः परिवेष्टितम् ॥३॥

प्रभाते विमलेऽष्टम्यामर्चयेत् प्रयतो हरिम् ।
प्राग्विधानेन गोविन्दमर्चयित्वा विधानतः ॥४॥

ततो यवैः कृष्णतिलैः सघृतैर्होमयेद् दधि ।
ब्राह्मणान् भोजयेद् भक्त्या यथाशक्त्या सदक्षिणान् ॥५॥

ततः स्वयं तु भुञ्जीत प्रथमं बिल्वमुत्तमम् ।
पश्चाद् यथेष्टं भुञ्जीत स्नेहैः सर्वरसैर्युतम् ॥६॥

प्रतिमासमनेनैव विधिनोपोष्य मानवः ।
कृष्णाष्टमीमपुत्रोऽपि लभेत् पुत्रं न संशयः ॥७॥

श्रूयते च पुरा राजा शूरसेनः प्रतापवान् ।
स ह्यपुत्रस्तपस्तेपे हिमवत्पर्वतोत्तमे ॥८॥

तस्यैवं कुर्वतो देवो व्रतमेतज्जगाद ह ।
सोऽप्येतत् कृतवान् राजा पुत्रं चैवोपलब्धवान् ॥९॥

वसुदेवं महाभागमनेकक्रतुयाजिनम् ।
तं लब्ध्वा सोऽपि राजर्षिः परं निर्वाणमापत्वान् ॥१०॥

एवं कृष्णाष्टमी राजन् मया ते परिकीर्तिता ।
संवत्सरान्ते दातव्यं कृष्णयुग्मं द्विजातये ॥११॥

एतत् पुत्रव्रतं नाम मया ते परिकीर्तितम् ।
एतत् कृत्वा नरः पापैः सर्वैरेव प्रमुच्यते ॥१२॥

॥ इति श्रीवराहपुराणे भगवच्छास्त्रे त्रिषष्टितमोऽध्यायः ॥६३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP