संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्|
अध्यायः ६७

वराहपुराणम् - अध्यायः ६७

'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे.


भद्राश्व उवाच ।
भगवन् सितकृष्णे द्वे भिन्ने जगति केशवान् ।
स्त्रियौ बभूवतुः के द्वे सितकृष्णा च का शुभा ॥१॥

कश्चासौ पुरुषो ब्रह्मन् य एकः सप्तधा भवेत् ।
कोऽसौ द्वादशधा विप्र द्विदेहः षट्शिराः शुभः ॥२॥

दम्पत्यं च द्विजश्रेष्ठ कृतसूर्योदयादनम् ।
कस्मादेतज्जगदिदं विततं द्विजसत्तम ॥३॥

अगस्त्य उवाच ।
सितकृष्णे स्त्रियौ ये ते ते भगिन्यौ प्रकीर्तिते ।
सत्यासत्ये द्विवर्णा च नारी रात्रिरुदाहृता ॥४॥

यः पुमान् सप्तधा जात एको भूत्वा नरेश्वर ।
स समुद्रस्तु विज्ञेयः सप्तधैको व्यवस्थितः ॥५॥

योऽसौ द्वादशधा राजन् द्विदेहः षट्शिराः प्रभुः ।
संवत्सरः स विज्ञेयः शरीरे द्वे गती स्मृते ।
ऋतवः षट् च वक्त्राणि एष संवत्सरः स्मृतः ॥६॥

दम्पत्यं तदहोरात्रं सूर्याचन्द्रमसौ ततः ।
ततो जगत् समुत्तस्थौ देवस्यास्य नृपोत्तम ॥७॥

स विष्णुः परमो देवो विज्ञेयो नृपसत्तम ।
न च वेदक्रियाहीनः पश्यते परमेश्वरम् ॥८॥

॥ इति वराहपुराणे भगवच्छास्त्रे सप्तषष्टितमोऽध्यायः ॥६७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP