संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्|
अध्यायः १९

वराहपुराणम् - अध्यायः १९

'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे.


महातपा उवाच ।
विष्णोर्विभूतिमाहात्म्यं कथितं ते प्रसङ्गतः ।
तिथीनां श्रृणु माहात्म्यं कथ्यमानं मया नृप ॥१॥
इत्थंभूतो महानग्निर्ब्रह्मक्रोधोद्भवो महान् ।
उवाच देवं ब्रह्माणं तिथिर्मे दीयतां विभो ।
यस्यामहं समस्तस्य जगतः ख्यातिमाप्नुयाम् ॥२॥
ब्रह्मोवाच ।
देवानामथ यक्षाणां गन्धर्वाणां च सत्तम ।
आदौ प्रतिपदा येन त्वमुत्पन्नोऽसि पावक ॥३॥
त्वत्पदात् प्रतिपदं चान्या संभविष्यन्ति देवताः ।
अतस्ते प्रतिपन्नाम तिथिरेषा भविष्यति ॥४॥
तस्यां तिथौ हविष्येण प्राजापत्येन मूर्तिना ।
होष्यन्ति तेषां प्रीताः स्युः पितरः सर्वदेवताः ॥५॥
चतुर्विधानि भूतानि मनुष्याः पशवोऽसुराः ।
देवाः सर्वे सगन्धर्वाः प्रीताः स्युस्तर्पिते त्वयि ॥६॥
यश्चोपवासं कुर्वीत त्वद्भक्तः प्रतिपद्दिने ।
क्षीराशनो वा वर्त्तेत श्रृणु तस्य फलं महत् ॥७॥
चतुर्युगानि षट्त्रिंशत् स्वर्लोकेऽसौ महीयते ।
तेजस्वी रूपसंपन्नो द्रव्यवान् जायते नरः ॥८॥
इह जन्मन्यसौ राजा प्रेत्य स्वर्गे महीयते ।
तूष्णीं बभूव सोप्यग्निर्ब्रह्मदत्ताश्रयं ययौ ॥९॥
य इदं श्रृणुयान्नित्यं प्रातरुत्थाय मानवः ।
अग्नेर्जन्म स पापेभ्यो मुच्यते नात्र संशयः ॥१०॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे एकोनविंशोऽध्यायः ॥१९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP