संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्|
अध्यायः ८१

वराहपुराणम् - अध्यायः ८१

'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे.


रुद्र उवाच ।
अतः परं पर्वतेषु देवानामवकाशा वर्ण्यन्ते । तत्र योऽसौ शान्ताख्यः पर्वतस्तस्योपरि महेन्द्रस्य क्रीडास्थानम् ।
तत्र देवराजस्य पारिजातकवृक्षवनम् ।
तस्य पूर्वपार्श्वे कुञ्जरो नाम गिरिः ।
तस्योपरि दानवानामष्टौ पुराणि च ।
तथा वज्रके पर्वतवरे राक्षसानामनेकानि पुराणि ।
ते च नाम्ना नीलकाः कामरूपिणः ।
महानीलेऽपि शैलेन्द्रपुराणि ।
पञ्चदशसहस्त्राणि किन्नराणां ख्यातानि ।
तत्र देवदत्तचन्द्रादयो राजानः ।
पञ्चदशकिन्नराणां गर्विताः ।
तानि सौवर्णानि बिलप्रवेशनानि च पुराणि ।
चन्द्रोदये च पर्वतवरे नागानामधिवासः । ते च बिलप्रवेशाः बिलेषु वैनतेयविषयावर्त्तिनो व्यवस्थितानुरागे च दानवेन्द्रा व्यवस्थिताः ।
वेणुमत्यपि विद्याधरपुरत्रयं ।
त्रिंशद्योजनशतविस्तीर्णमेकैकं तावदायतम् ।
उलूकरोमशमहावेत्रादयश्च राजानो विद्याधराणाम् ।
एकैके च शैलराजनि स्वयमेव गरुडो व्यवस्थितः ।
कुञ्जरे तु पर्वतवरे नित्यं पशुपतिः स्थितः ।
वृषभाङ्को महादेवः शंकरो योगिनां वरः अनेकगणभूतकोटिसहस्त्रवारो भगवान् अनादिपुरुषो व्यवस्थितः ।
वसुधारे च पुष्पवतां वसूनां च समावासः ।
वसुधाररत्नधारयोर्मूर्ध्नि अष्टौ सप्त च संख्यया । पुराणि वसुसप्तर्षीणां चेति । एकश्रृङ्गे च पर्वतोत्तमे प्रजापतेः स्थानं चतुर्वक्त्रस्य ब्रह्मणः। गजपर्वते च महाभूतपरिवृता स्वयमेव भगवती तिष्ठति ।
वसुधारे च पर्वतवरे मुनिसिद्धविद्याधराणामायतनम् ।
चतुराशीत्यपरपुर्यो महाप्राकारतोरणाः ।
तत्र चानेकपर्वता नाम गन्धर्वा युद्धशालिनो वसन्ति ।
तेषां चाधिपतिर्देवो राजराजैकपिङ्गलः ।
सुरराक्षसाः पञ्चकूटेदानवाः शतश्रृङ्गेयक्षाणां पुरशतम् ।
ताम्राभे तक्षकस्यपुरशतम् । विशखपर्वते गुहस्यायतनम् ।श्वेतोदये गिरिवरे महागन्धर्वभवनम् ।
हरिकूटे हरिर्देवः । कुमुदे किन्नरावासः । अञ्जने महोरगाः ।
सहस्त्रशिखरे च दैत्यानामुग्रकर्मिणामावासः ।
पुराणां सहस्त्रमेकं हेममालिनाम् मुकुटे पन्नप्रपक्षे पर्वतवरे चत्वार्यायतनानि तु। एवं मेरुपर्वतेषु देवानामधिवासः ।
मर्यादापर्वते देवकूटे पुरविन्यासः कीर्त्यते ।
तस्योपरि योजनशतं गरुडस्य जातं क्षेत्रम् ।
तस्यैव पार्श्वतस्त्रिंशद्योजनविस्तीर्णाश्चत्वारिंशदायताः सप्तगन्धर्वनगराः ।
आग्नेयाश्च नाम्ना गन्धर्वातिबलिनः ।
तत्र चान्यत् त्रिंशद्योजनमण्डलं पुरम् सैंहिकेयानाम् ।
तत्र च देवर्षिचरितानि देवकूटे दृश्यन्ते ।
पुरं च कालकेयानां तत्रैव । तथा चान्तरतटेऽन्येसुनान्नाम तस्यैव दक्षिणे त्रिंशद्योजनविस्तृतं द्विषष्टियोजनायामं पुरम् कामरूपिणां दृप्तानां मध्यमे च तस्य हेमकूटे महादेवस्य न्यग्रोधः ।
अथातः कैलासवर्णको भवति।
कैलासस्य तटे योजनशतमायामवस्तृतम् भुवनमालाभिव्याप्तम् । तस्याश्च मध्ये सभा ।
तत्र च तत्पुष्करं नाम विमानं तिष्ठति ।
धनदस्य च तद्विमानमधिवासश्च । तत्र पद्ममहापद्ममकरकच्छपकुमुदशङ्खनीलनन्दमहानिधयः प्रतिवसन्ति । तत्र चन्द्रादीनां लोकपालानामावासः ।
तत्र च मन्दाकिनी नाम नदी ।
तथा कनकमन्दा मन्दा चेति नामभिः सरितः ।
तत्रान्या अपि नद्यः सन्ति । पूर्वपार्श्वे च शतयोजनमायामास्त्रिंशद्योजनविस्तृता दशगन्धर्वपुर्यः तासु च सकुबाहुहरिकेशचित्रसेनादयो राजानः । तस्यैव च पश्चिमकूटे अशीतियोजनायामं चत्वारिंशद्विस्तृतमेकैकं यक्षनगरम् ।
तेषु च महामालिसुनेत्र चक्रादयो नायकाः ।
तस्यैव दक्षिणे पार्श्वे कुञ्जदरीषु गुहासु समुद्राः समुद्रं यावत्किन्नराणां पुरशतम् ।
तेषु च द्रुमसुग्रीवादिभगदत्तप्रमुखं राजशतम् ।
तत्र च रुद्रस्योमया सार्द्धं विवाहस्संवृत्तः ।
तपश्च कृतवती गौरी । किरातरूपिणा च रुद्रेण स्थितम् । तत्रैव तत्र स्थितेन सोमेन शंकरेण जम्बूद्वीपावलोकनं कृतम् । तत्र चानेककिन्नरगन्धर्वोपगीतमुमावनं नामाप्सरोभिरनेकपुष्पलतावल्लीभिरुपेतम् ।
यत्र भगवता महेश्वरेणार्द्धनारीनरवपुः प्राप्तम् ।
तत्र च कार्तिकेयस्य शरद्वनम् ।
पुष्पचित्रक्रौञ्चयोर्मध्ये कार्तिकेयाभिषेकः कृतः तस्य च पूर्वतटे सिद्धमुनिगणावासः कलापग्रामो नाम ।
तथा च मार्कण्डेयवसिष्ठपराशरनलविश्वामित्रोद्दालकादीनां महर्षीणामनेकानि सहस्त्राण्याश्रमाणां हि भवति ।
तथा च पश्चिमस्याचलेन्द्रस्य निषधस्य भागं श्रृणुत ।
तस्य च मध्यमकूटे विष्ण्वायतनं महादेवस्य ।
तस्यैवोत्तरतटे त्रिंशद्योजनविस्तृतं महत्पुरं लम्बाख्यातं राक्षसानाम् ।
तस्यैव दक्षिणे पार्श्वे बिलप्रवेशनगरम् ।
प्रभेदकस्य पश्चिमेन देवदानवसिद्धादीनां पुराणि ।
तस्य गिरेर्मूर्ध्नि महती सोमशिला तिष्ठति ।
तस्यां च पर्वणि सोमः स्वयमेवावतरति ।
तस्यैवोत्तरपार्श्वे त्रिकूटं नाम ।
तत्र ब्रह्मा तिष्ठति क्वचित् । तथा च वह्न्यायतनम् । मूर्त्तिमान् वह्निरुपास्यते देवैः ।
उत्तरे च श्रृङ्गाख्ये पर्वतवरे देवतानामायतनानि ।
पूर्वे नारायणस्यायतनम् । मध्ये ब्रह्मणः ।
शंकरस्य पश्चिमे । तत्र च यक्षादीनां केचित् पुराणि तस्य चोत्तरतीरे जातुछे महापर्वते त्रिंशद्योजनमण्डलं नन्दजलं नाम सरस् तत्र नन्दो नाम नागराजा वसति शतशीर्षप्रचण्ड इति इत्येतेऽष्टौ देवपर्वता विज्ञेयाः । तेनानुक्रमेण हेमरजतरत्नवैदूर्यमानः शिलाहिङ्गुलादिवर्णाः । इयं च पृथ्वी लक्षकोटिशतानेकसंख्यातानां पूर्णा तेषु च सिद्धविद्याधराणां निलयाः ते च मेरोः पार्श्वतः केसरवलयालवालं सिद्धलोकेति कीर्त्त्यते ।
इयं पृथ्वी पद्माकारेण व्यवस्थिता ।
एष च सर्वपुराणेषु क्रमः सामान्यतः प्रतिपाद्यते ।
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे एकाशीतितमोऽध्यायः ॥८१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP