संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|दुर्गा सप्तशती| अथैकादशन्यासाः दुर्गा सप्तशती सप्तशतीविधिः अथासनविधिः कुमारीपूजा बलिदानम् चण्डीकवचम् अर्गलास्तोत्रम् अथ कीलकम् अथैकादशन्यासाः मूलषडंगन्यासः सप्तशतीस्तोत्रमाला चंडीपंचाक्षरमंत्र सप्तशतीप्रथमचरितम् मध्यमचरितस्य उत्तमचरितस्य वैदिक देवीसूक्तम् तांत्रिकं देवीसूक्तम् प्राधानिकरहस्यम् वैकृतिकं रहस्यम् मूर्तिरहस्यम् उत्तरविधिः सहस्रचंडीप्रयोगः पल्लवयोजनाविधिः महालक्ष्म्या आर्तिक्यम् कुञ्जिकास्तोत्रम् देवीक्षमापनस्तोत्रम् दुर्गापदुद्धारस्तोत्रम् दुर्गा सप्तशती - अथैकादशन्यासाः दुर्गा सप्तशतीचा पाठ केल्याने जीवनातील सर्व पापे नष्ट होऊन मुक्ति मिळते. Tags : durga saptashatipothiदुर्गा सप्तशतीपोथी अथैकादशन्यासाः Translation - भाषांतर ॥ अथैकादशन्यासाः ॥ तत्रादौ मातृकान्यासः ॥ सर्वत्रादौ प्रणवोच्चारः ॥ अंनमो ललाटे ॥ आंनमो मुखवृत्ते ॥ इंनमो दक्षिणनेत्रे ॥ ईनमो वामनेत्रे ॥ उंनमो दक्षिणकर्णे ॥ उंनमो वामकर्णे ॥ ऋंनमो दक्षिणनसि ॥ ऋंनमो वामनसि ॥ लृंनमो दक्षिणगंडे ॥ लृंनमो वामगंडे ॥ एंनम ऊर्ध्वोष्ठे ॥ ऐंनमोऽधरोष्ठे ॥ ओंनम ऊर्ध्वदंत पंक्तौ ॥ औंनमोऽधोदंतपंक्तौ ॥ अंनमः शिरसि ॥ अःनमो मुखे ॥ कंनमो दक्षबाहुमूले ॥ खंनमो दक्षकूर्परे ॥ गंनमो दक्षमणिबंधे ॥ घंनमो दक्षांगुलिमूले ॥ ङंनमो दक्षांगुल्यग्रे ॥ चंनमो वामबाहुमूले ॥ छंनमो वामकूर्परे ॥ जंनमो वाममणिबंधे ॥ झंनमो वामांगुलिमूले ॥ ञंनमो वामांगुल्यग्रे ॥ टंनमो दक्षपादमूले ॥ ठंनमो दक्षजानुनि ॥ डंनमो दक्षगुल्फे ॥ ढंनमो दक्षपादांगुलिमूले ॥ णंनमो दक्षपादांगुल्यग्रे ॥ तंनमो वामपादमूले ॥ थंनमो वामजानुनि ॥ दंनमो वामगुल्फे ॥ धंनमो वामपादांगुलिमूले ॥ नंनमो वामपादांगुल्यग्रे ॥ पंनमो दक्षपार्श्व ॥ फंनमो वामपार्श्वे ॥ बंनमः पृष्ठे ॥ भंनमो नाभौ ॥ मंनमो जठरे ॥ यंनमो हदि ॥ रंनमो दक्षांसे ॥ लंनमः ककुदि ॥ वंनमो वामांसे ॥ शंनमो हदादिदक्षहस्तांते ॥ षंनमो हदादिवामहस्तांते ॥ संनमो हदादिदक्षपादांते ॥ हंनमो हदादिवामपादांते ॥ ळंनमो जठरे ॥ क्षंनमो मुखे ॥ इति मातृकान्यासो देवसारुप्यप्रदः प्रथमः ॥१॥ ऐंह्लींक्लीनमः कनिष्ठयोः ॥ ऐंह्लींक्लींनमोऽनामिकयोः ॥ ऐंह्लींक्लींनमो मध्यमयोः ॥ ऐंह्लींक्लींनमस्तर्जन्योः ॥ ऐंह्लींक्लींनमोंऽगुष्ठयोः ॥ ऐंह्लींक्लींनमः करमध्ये ॥ ऐंह्लींक्लींनमः कूर्परयोः ॥ ऐंह्लींक्लींनमो हदयाय नमः ॥ ऐंह्लींक्लींनमः शिरसे स्वाहा ॥ ऐंह्लींक्लींनमः शिखायै वषट् ॥ ऐंह्लींक्लींनमः कवचाय हुं ॥ ऐंह्लींक्लींनमो नेत्रत्रयाय वौषट् ॥ ऐंह्लींक्लींनमोऽस्त्राय फट् ॥ इति सारस्वतो जाड्यविनाशको द्वितीयः ॥२॥ ह्लींब्राह्मी पूर्वस्यां मां पातु ॥ ह्लींमाहेश्वरी आग्नेय्यां मां पातु ॥ ह्लींकौमारी दक्षिणस्यां मां पातु ॥ ह्लींवैष्णवी नैऋत्यां मां पातु ॥ ह्लींवाराही पश्चिमायां मां पातु ॥ ह्लींइंद्राणी वायव्यां मां पातु ॥ ह्लींचामुंडा उत्तरस्यां मां पातु ॥ ह्लींकामेश्वरी पाताले मां पातु ॥ इति मातृगणन्यासस्त्रैलोक्यविजयप्रदस्तृतीयः ॥३॥ कमलांकुशमंडिता नंदजा पूर्वागं मे पातु ॥ खङ्गपात्रधरा रक्तदंतिका दक्षिणांगं मे पातु ॥ पुष्पपल्लवसंयुता शाकंभरी पश्चिमांगं मे पातु ॥ धनुर्बाणकरा दुर्गा वामांगं मे पातु ॥ शिरः पात्रकरा भीमा मस्तकाच्चरणावधि मां पातु ॥ चित्रकांतिभृद्भामरी पादादिमस्तकांतं मे पातु ॥ इति जरामृत्युहरो नंदजादिन्यासश्चतुर्थः ॥४॥ पादादिनाभिपर्यंत ब्रह्मा मां पातु ॥ नाभेर्विशुद्धिपर्यंतं जनार्दनो मां पातु ॥ विशुद्धेर्ब्रह्मरंध्रांतं रुद्रो मां पातु ॥ हंसो मे पदद्वयं पातु ॥ वैनतेयः करद्वयं मे पातु ॥ वृषभश्चक्षुषी मे पातु ॥ गजाननः सर्वागं मे पातु ॥ आनंदमयो हरिः परापरौ देहभागौ मे पातु ॥ इति सर्वकामप्रदो ब्रह्मादिन्यासः पञ्चमः ॥५॥ अष्टादशभुजा लक्ष्मीर्मध्यभागं मे पातु ॥ अष्टभुजा महासरस्वती ऊर्ध्वभागं मे पातु ॥ दशभुजा महाकाली अधोभागं मे पातु ॥ महिषारुढो यमः पदद्वयं मे पातु ॥ महेशश्चंडिकायुक्तः सर्वागं मे पातु ॥ इति महालक्ष्म्यादिन्यासः सद्गतिप्रदः षष्ठ ॥६॥ ऐंनमो ब्रह्मरंध्रे ॥ ह्लींनमो दक्षिणनेत्रे ॥ क्लींनमो वामनेत्रे ॥ चांनमो दक्षिणकर्णे ॥ मुंनमो वामकर्णे ॥ डानमो दक्षिणनासापुटे ॥ र्यैनमो वामनासापुटे ॥ विंनमो मुखे ॥ र्च्चेनमो गुह्ये ॥ इति यूलाक्षरन्यासो रोगक्षयकरः सप्तमः ॥७॥ र्च्चेनमो गुह्ये ॥ विंनमो मुखे ॥ र्यैनमो वामनासापुटे ॥ डांनमो दक्षिणनासापुटे ॥ मुंनमो वामकर्णे ॥ क्लींनमो वामनेत्रे ॥ ह्लींनमो दक्षनेत्रे ॥ ऐंनमो ब्रह्मरंध्रे ॥ इति विलोमाक्षरन्यासः सर्वदुः खनाशकोऽष्टमः ॥८॥ मूलमुच्चार्य ॥ मस्तकाच्चरणांतं चरणान्मस्तकांतमष्टवारं व्यापकं कुर्यात् ॥ स यथा - प्रथमं पुरतो मूलेन मस्तकाच्चरणावधि ॥१॥ ततश्चरणान्मस्तकावधि मूलोच्चारेण व्यापकम् ॥२॥ एवं दक्षिणतः पश्चाद्वामभागे चेति प्रतिदिग्भागेऽनुलोमविलोमतया द्विर्द्विरिति अष्टवारं व्यापकं भवति ॥ इति देवताप्राप्तिकरो मूलव्यापको नवमः ॥९॥ मूलमुच्चार्य हदयाय नमः ॥ एवं प्रत्यंगं सर्वत्र मूलमुच्चार्य षडंगेषु न्यसेत् ॥ इति मूलषडंगन्यासस्त्रैलोक्यवशकरो दशमः ॥१०॥ खङ्गिनी शूलिनी घोरा गदिनी चक्रिण तथा ॥ शंखिनी चापिनी बाणभुशुंडीपरिघायुधा ॥१॥ सौम्यासौम्यतराशेषसौम्येभ्यस्त्वतिसुंदरी । परापराणां परमा त्वमेव परमेश्वरी ॥२॥ यच्च किंचित्क्वचिद्वस्तु सदसद्वाखिलात्मिके ॥ तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयते मया ॥३॥ यया त्वया जगत्स्रष्टा जगत्पात्यत्ति यो जगत् ॥ सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः ॥४॥ विष्णुः शरीरग्रहणमहमीशान एव च ॥ करितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान्भवेत् ॥५॥ आद्यं वाग्बीजं कृष्णतरं ध्यात्वा सर्वागे विन्यसामि ॥ इति सर्वागे विन्यसेत् ॥ ॥ शूलेन पाहि नो देवि पाहि खङ्गेन चांबिके ॥ घंटास्वनेन नः पाहि चापज्यानिः- स्वनेन च ॥१॥ प्राच्यां रक्ष प्रतीच्यां च चंडिके रक्ष दक्षिणे ॥ भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि ॥२॥ सौम्यानि यानि रुपाणि त्रैलोक्ये विचरंति ते ॥ यानि चात्यंतघोराणि तै रक्षास्मांस्तथा भुवम् ॥३॥ खङ्गशूलगदादीनि यानि चास्त्राणि तेंऽबिके ॥ करपल्लवसंगीनि तैरस्मान्रक्ष सर्वतः ॥४॥ द्वितीयं मायाबीजं सूर्यसदृशं ध्यात्वा सर्वागे विन्यसेत् ॥ सर्वस्वरुपे सर्वेशे सर्वशक्तिसमन्विते ॥ भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ॥१॥ एतत्ते वदनं सौम्यं लोचनत्रयभूषितम् ॥ पातु नः सर्वभूतेभ्यः कात्यायनि नमोऽस्तु ते ॥२॥ ज्वालाकरालमत्युग्रमशेषासुरसूदनम् ॥ त्रिशूलं पातु नो भीतेर्भद्रकालि नमोऽस्तु ते ॥३॥ हिनस्ति दैत्य तेजांसि स्वनेनापूर्य या जगत् ॥ सा घंटा पातु नो देवि पापेभ्योऽनः सुतानिव ॥४॥ असुरासृग्वसापंकचर्चितस्ते करोज्ज्वलः ॥ शुभाय खङ्गो भवतु चंडिके त्वां नता वयम ॥५॥ तृतीयं कामबीजं स्फटिकाभं ध्यात्वा सर्वागे विन्यसामि ॥ इति सर्वागे विन्यसेत् ॥ इति सूक्तादिबीजत्रयन्यासः पञ्चमः सर्वानिष्टहरः सर्वाभीष्टदः सर्वरक्षाकर श्चैकादशः ॥११॥ N/A References : N/A Last Updated : June 17, 2009 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP