संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|दुर्गा सप्तशती| चण्डीकवचम् दुर्गा सप्तशती सप्तशतीविधिः अथासनविधिः कुमारीपूजा बलिदानम् चण्डीकवचम् अर्गलास्तोत्रम् अथ कीलकम् अथैकादशन्यासाः मूलषडंगन्यासः सप्तशतीस्तोत्रमाला चंडीपंचाक्षरमंत्र सप्तशतीप्रथमचरितम् मध्यमचरितस्य उत्तमचरितस्य वैदिक देवीसूक्तम् तांत्रिकं देवीसूक्तम् प्राधानिकरहस्यम् वैकृतिकं रहस्यम् मूर्तिरहस्यम् उत्तरविधिः सहस्रचंडीप्रयोगः पल्लवयोजनाविधिः महालक्ष्म्या आर्तिक्यम् कुञ्जिकास्तोत्रम् देवीक्षमापनस्तोत्रम् दुर्गापदुद्धारस्तोत्रम् दुर्गा सप्तशती - चण्डीकवचम् दुर्गा सप्तशतीचा पाठ केल्याने जीवनातील सर्व पापे नष्ट होऊन मुक्ति मिळते. Tags : durga saptashatipothiदुर्गा सप्तशतीपोथी चण्डीकवचम् Translation - भाषांतर ॥ अथ चण्डीकवचम् ॥ श्री गणेशाय नमः ॥ श्रीसरस्वत्यै नमः ॥ श्रीगुरुभ्यो० श्रीकुलदेवतायै० ॥ अविघ्नमस्तु ॥ ॐ नारायणाय नमः ॥ ॐ नराय नरोत्तमाय नमः ॥ ॐ सरस्वतीदेव्यै नमः ॥ ॐ वेदव्यासाय नमः ॥ अस्य श्रीचण्डीकवचस्य ब्रह्मा ऋषिः, अनुष्टुप् छंदः, चामुण्डा देवता, अंगन्यासोक्तमातरो बीजम् , दिग्बंधदेवतास्तत्त्वम् , श्रीजगदंबाप्रीत्यर्थे सप्तशतीपाठांगजपे विनियोगः ॥ ॐ नमश्चण्डिकायै ॥ ॐ मार्कण्डेय उवाच ॥ ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् ॥ यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह ॥१॥ ब्रह्मोवाच ॥ अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् ॥ देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने ॥२॥ प्रथमं शैलपुत्रीति द्वितीयं ब्रह्मचारिणी ॥ तृतीयं चन्द्रघण्टॆति कूष्माण्डेति चतुर्थकम् ॥३॥ पंचमं स्कन्दमातेति षष्ठं कात्यायनीति च ॥ सप्तमं कालरात्रिश्च महागौरीति चाष्टमम् ॥४॥ नवमं सिद्धिदात्री च नव दुर्गाः प्रकीर्तिताः ॥ उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ॥५॥ अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे ॥ विषमे दुर्गमे चैव भयार्ताः शरणं गताः ॥६॥ न तेषां जायते किंचिदशुभं रणसंकटे ॥ नापदं तस्य पश्यामि शोकदुःखभयं नहि ॥७॥ यैस्तु भक्त्या स्मृता नूनं तेषां सिद्धिः प्रजायते ॥ प्रेतसंस्था तु चामुण्डा वाराही महिषासना ॥८॥ ऐन्द्री गजसमारुढा वैष्णवी गरुडासना ॥ माहेश्वरी वृषारुढा कौमारी शिखिवाहना ॥९॥ ब्राह्मी हंससमारुढा सर्वाभरणभूषिता ॥ नानाभरणशोभाढ्या नानारत्नोपशोभिताः ॥१०॥ दृश्यन्ते रथमारुढा देव्यः क्रोधसमाकुलाः ॥ शंखं चक्रं गदां शक्तिं हलं च मुसलायुधम् ॥११॥ खेटकं तोमरं चैव परशुं पाशमेव च ॥ कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् ॥१२॥ दैत्यानां देहनाशाय भक्तानामभयाय च ॥ धारयन्त्यायुधानीत्थं देवानां च हिताय वै ॥१३॥ महाबले महोत्साहे महाभयविनाशिनी ॥ त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि ॥!४॥ प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता ॥ दक्षिणेऽवतु वाराही नैऋत्यां खङ्गधारिणी ॥१५॥ प्रतीच्यां वारुणी रक्षेद्वायव्यां मृगवाहिनी ॥ उदीच्यां रक्ष कौबेरि ईशान्यां शूलधारिणी ॥१६॥ ऊर्ध्व ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा ॥ एवं दश दिशो रक्षेच्चामुण्डा शववाहना ॥१७॥ जया मे अग्रतः स्थातु विजया स्थातु पृष्ठतः ॥ अजिता वामपार्श्वे तु दक्षिणे चापराजिता ॥१८॥ शिखां मे द्योतिनी रक्षेदुमा मूर्ध्नि व्यवस्थिता ॥ मालाधरी ललाटे च भ्रुवौ रक्षेद्यशस्विनी ॥१९॥ त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके ॥ शंखिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी ॥२०॥ कपोलौ कालिका रक्षेत् कर्णमूले तु शांकरी ॥ नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका ॥२१॥ अधरे चामृतकला जिह्वायां च सरस्वती ॥ दन्तान् रक्षतु कौमारी कण्ठमध्ये तु चण्डिका ॥२२॥ घण्टिकां चित्रघण्टा च महामाया च तालुके ॥ कामाक्षी चिबुकं रक्षेद्वाचं मे सर्वमंगला ॥२३॥ ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी ॥ नीलग्रीवा बहिः कण्ठे नलिकां नलकूबरी ॥२४॥ खङ्गधारिण्युभौ स्कंधौ बाहू मे वज्रधारिणी ॥ हस्तयोर्दण्डिनी रक्षेदम्बिका चांगुलीस्तथा ॥२५॥ नखाञ्छूलेश्वरी रक्षेत् कुक्षौ रक्षेन्नलेश्वरी ॥ स्तनौ रक्षेन्महालक्ष्मीर्मनः शोकविनाशिनी ॥२६॥ हदयं ललिता देवी उदरं शूलधारिणी ॥ नाभौ च कामिनी रक्षेद्गुह्यं गुह्येश्वरी तथा ॥२७॥ कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी ॥ भूतनाथा च मेढ्रं मे ऊरु महिषवाहिनी ॥२८॥ जंघे महाबला प्रोक्ता सर्वकामप्रदायिनी ॥ गुल्फयोर्नारसिंही च पादौ चामिततेजसी ॥२९॥ पादांगुलीः श्रीर्भे रक्षेत् पादाधस्तलवासिनी ॥ नखान्दंष्ट्राः कराली च केशांश्चैवोर्ध्वकेशिनी ॥३०॥ रोमकूपेषु कौबेरी त्वचं वागीश्वरी तथा ॥ रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती ॥३१॥ अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी ॥ पद्मावती पद्मकोशे कफे चूडामणिस्तथा ॥३२॥ ज्वालामुखी नखज्वाला अभेद्या सर्वसंधिषु ॥ शुक्रं ब्रह्माणी मे रक्षेच्छायां छत्रेश्वरी तथा ॥३३॥ अहङ्कारं मनो बुद्धिं रक्ष मे धर्मचारिणि ॥ प्राणापानौ तथा व्यानं समानोदानमेव च ॥३४॥ यशः कीर्ति च लक्ष्मीं च सदा रक्षतु वैष्णवी ॥ गोत्रमिन्द्राणी मे रक्षेत्पशून्मे रक्ष चण्डिके ॥३५॥ पुत्रान्रक्षेन्महालक्ष्मीर्भार्या रक्षतु भैरवी ॥ मार्ग क्षेमकरी रक्षेद्विजया सर्वतः स्थिता ॥३६॥ रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन तु ॥ तत्सर्व रक्ष मे देवि जयन्ती पापनाशिनी ॥३७॥ पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः ॥ कवचेनावृतो नित्यं यत्र यत्राधिगच्छति ॥३८॥ तत्र तत्रार्थलाभश्च विजयः सार्वकामिकः ॥ यं यं कामयते कामं तं तं प्राप्नोति निश्चितम् ॥३९॥ परमैश्चर्यमतुलं प्राप्स्यते भूतले पुमान् ॥ निर्भयो जायते मर्त्यः संग्रामेष्वपराजितः ॥४०॥ त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृत्तः पुमान् ॥ इदं तु देव्याः कवचं देवानामपि दुर्लभम् ॥४१॥ यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः ॥ दैवी कला भवेत्तस्य त्रैलोक्येऽप्यपराजितः ॥४२॥ जीवेद्वर्षशतं साग्रमपमृत्युविवर्जितः ॥ नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः ॥४३॥ स्थावरं जंगमं वापि कृत्रिमं चापि यद्विषम् ॥ आभिचाराणि सर्वाणि मंत्रयंत्राणि भूतले ॥४४॥ भूचराः खेचराश्चैव जलजाश्चोपदेशिकाः ॥ सहजाः कुलजा मालाः शाकिनी डाकिनी तथा ॥४५॥ अन्तरिक्षचरा घोरा डाकिन्यश्च महाबलाः ॥ ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः ॥४६॥ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः ॥ नश्यन्ति दर्शनात्तस्य कवचे हदि संस्थिते ॥४७॥ मानोन्नतिर्भवेद्राज्ञस्तेजोवृद्धिकरं परम् ॥ यशसा वर्धते सोऽपि कीर्तिमण्डितभूतले ॥४८॥ जपेत्सप्तशर्ती चण्डीं कृत्वा तु कवचं पुरा ॥ यावद्भूमंडलं धत्ते सशैलवनकाननम् ॥४९॥ तावत्तिष्ठति मेदिन्यां सन्ततिः पुत्रपौत्रिकी ॥ देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् ॥५०॥ प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः ॥ वाराहपुराणे हरिहरब्रह्मविरचितं देव्याः कवचम् ॥१॥ ॥ N/A References : N/A Last Updated : June 17, 2009 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP