संस्कृत सूची|संस्कृत साहित्य|पुराण|दुर्गा सप्तशती| सप्तशतीविधिः दुर्गा सप्तशती सप्तशतीविधिः अथासनविधिः कुमारीपूजा बलिदानम् चण्डीकवचम् अर्गलास्तोत्रम् अथ कीलकम् अथैकादशन्यासाः मूलषडंगन्यासः सप्तशतीस्तोत्रमाला चंडीपंचाक्षरमंत्र सप्तशतीप्रथमचरितम् मध्यमचरितस्य उत्तमचरितस्य वैदिक देवीसूक्तम् तांत्रिकं देवीसूक्तम् प्राधानिकरहस्यम् वैकृतिकं रहस्यम् मूर्तिरहस्यम् उत्तरविधिः सहस्रचंडीप्रयोगः पल्लवयोजनाविधिः महालक्ष्म्या आर्तिक्यम् कुञ्जिकास्तोत्रम् देवीक्षमापनस्तोत्रम् दुर्गापदुद्धारस्तोत्रम् दुर्गा सप्तशती - सप्तशतीविधिः दुर्गा सप्तशतीचा पाठ केल्याने जीवनातील पापे नष्ट होऊन मुक्ति मिळते. Tags : durga saptashatipothiदुर्गा सप्तशतीपोथी सप्तशतीविधिः Translation - भाषांतर श्रीगणेशाय नमः ॥ गजवदनं शिखिवाहां श्रीदुर्गा सद्गुरुं च निजपितरौ ॥ नत्वा सप्तशतीयां कुर्वेऽनुष्ठानपद्धतिं सुलभाम् ॥१॥ सामंतवाटिकापुरवासिश्रीकृष्णशर्मणा क्रियते ॥ पद्धतिरियं यथामति विचार्य दुर्गामहोदधिग्रंथम् ॥२॥ श्रीदुर्गाप्रीत्यर्थे परोपकृतये च पद्धतिं कुर्वे ॥ अस्यामधिकं न्यूनं संतः संशोधयंतु वै दयया ॥३॥ ॥ ॥अथ सप्तशतीविधिः ॥ ॥ अथ साधकः कृतमंगलस्नानतिलकनित्यविधिः प्राङ्कुख आदावाचामेत् ॥ यथा - ॐ ऐं आत्मतत्त्वं शोधयामि नमः स्वाहा ॥ ॐ ह्लीं विद्यातत्त्वं शोधयामि नमः स्वाहा ॥ ॐ क्लीं शिवतत्त्वं शोधयामि नमः स्वाहा ॥ ॐ ऐंह्लींक्लीं सर्वतत्त्वं शोधयामि नमः स्वाहा ॥ ततः पवित्रपाणिः प्राणायामं कुर्यात् । यथा मूलमंत्रेणेड्या ( वामनासया ) वायुमापूर्य कुंभके चतुर्वारं मूलं पठित्वा द्विवारं मूलमुच्चरन् पिंगलया ( दक्षनासया ) रेचयेत् इति ॥ ततः श्रीगणेशगुर्वादीन्नत्वा सुमुखश्चेत्यादिदेशकालसंकीर्तनांते नित्यपाठसंकल्पो यथा - अस्माकं सर्वेषां सकुटुंबानां क्षेमस्थैर्यायुरारोग्यैश्वर्याभिवृद्धयर्थे समस्तमंगलावात्य र्थ अमुकगोत्रोत्पन्नस्यामुकशर्मणः ( नाम्नः ) मम श्रीजगदंबाप्रसादेन सर्वापन्निवृत्तिसर्वाभीष्टफलावाप्तिधर्मार्थकाममोक्षचतुर्विधपुरुषार्थसिद्धिद्वारा श्रीमहाकालीमहालक्ष्मीमहासरस्वतीदेवताप्रीत्यर्थे कवचार्गलाकीलकपठनैकादशन्यासपूर्वकं नवार्णमंत्राष्टोत्तरशतपरात्रिसूक्तपठनपूर्वकं देवीसूक्तपठननवार्णमंत्राष्टोत्तरशतजपरहस्यत्रयपठनांतं श्रीचंडीसप्तशत्याः पाठं करिष्ये ॥ ( विशेषकामनायां तत्तदूहः कार्यः ॥ सपल्लवादिशतचंडीचिकीर्षायां देशकालसंकीर्तनांते अमुकगोत्रोत्पन्नस्य मुकनाम्नो ममामुकव्याधिनाशपूर्वकं क्षिप्रारोग्यावाप्तिद्वारा श्रीमहाकाली० ३ दुर्गाप्रीत्यर्थे इत्यादि० अथवा अपमृत्युपरिहारपूर्वकमायुरभिवृद्धिद्वारा० अथवा अमुकशत्रुपराभवपूर्वकं अमुकवशीकरणसिद्धिद्वारा० अथवा ग्रहपीडानिवारणपिशाचोपद्रवादिसर्वानिष्टनिवारणपूर्वकं क्षेमायुः सकलैश्वर्यसिद्धिद्वारा श्रीजगदंबामहाकालीमहालक्ष्मीमहासरस्वतीस्वरुपिणीत्रिगुणात्मिकामुककुलदेवताप्रीत्यथे कवचा० चंडीसप्तशत्याः प्रतिमंत्रांते शरणागतेत्यादिमंत्रपल्लवितायाः पाठरीत्या शतपाठात्मकशतचंड्याख्यं अथवा प्रतिमंत्रं सर्वमंगलेत्यादिमंत्रसंपुटिताया अथवा प्रतिमंत्रादौ सर्वस्वरुप इत्यादिमंत्रयोजितायाः पाठरीत्या शतचंड्याख्यं नवचंडीचिकीर्षायां दशपाठात्मकनवचंड्याख्यं तथा हवनतर्पणमार्जनप्रतिनिधीभूतपाठद्वयसहितं एवं द्वादशपाठात्मकमित्यूहे विशेषः कार्यः ) कर्म करिष्ये ॥ इति प्रथमसंकल्पः ॥ ततो नित्यसंकल्पस्तु पूर्वसंकल्पितकामनासिद्धये पूर्वसंकल्पितशतचंडीसंख्यापरिपूर्तये नवचंड्यां नवचंडीसंख्यापरिपूर्तये पूर्वसंकल्पितरीत्या पाठाख्यं कर्म करिष्ये ॥ तदंगत्वेनादौ संक्षेपत आसनविधिभूशुद्ध्यादिकर्म दीपस्थापनपूजनं श्रीसप्तशतीपूजनं ( रहस्योक्तयंत्रस्थप्रधानदेवतापूजनं तंत्रोक्तनवार्णयंत्रस्थप्रधानदेवतापूजनं वा पायसेन इक्षुखंडकूष्मांडाद्यन्यतमफलेन वा पूजांगबलिदानं च ) सकलशापप्रतिवंधनिवृत्तये तंत्रोक्तशापोद्धारमंत्रस्य सप्तवारजपं इष्टफलसिद्धिप्रतिबंधनिवृत्तये तंत्रोक्तोत्कीलनमंत्रस्य पाठादौ पाठांते च एकविंशत्येकविंशतिसंख्याजपं च करिष्ये ॥ आदौ निर्विघ्नतासिद्धर्थ महागणपतिस्मरणं सद्गुरुपादुकास्मरणं च करिष्ये ॥ गणानांत्वाशौनको गृत्समदो गणपतिर्जगती निर्विघ्नतासिद्धयर्थे महागणपतिस्मरणे विनियोगः ॥ ॐ गणानात्वागणपतिंहवामहेकविंकवीनामुपमश्रवस्तमम् ॥ ज्येष्ठराजंब्रह्मणांब्रह्मणस्पतआनः शृण्वन्नूतिभिः सीदसादनम् ॥ सिद्धिबुद्धिशक्तीसहितश्रीमहागणपतये नमो नमः निर्विघ्नं कुरु इति ॥ ततः ॐ नमो गुरुभ्यो गुरुपादुकाभ्यो नमः परेभ्यः परपादुकाभ्यः ॥ आचार्यसिद्धेश्वरपादुकाभ्यो नमोऽस्तु लक्ष्मीपतिपादुकाभ्यः ॥ श्रीगुरुपरमगुरुपरमेष्ठीगुरुसद्गुरुपादुकाभ्यो नमो नमः ॥ इति श्रीमहागणपति सद्गुरुत्रयं च प्रणमेत् ॥ N/A References : N/A Last Updated : June 17, 2009 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP