श्रीविष्णुपुराण - चतुर्थ अंश - अध्याय १३

भारतीय जीवन-धारा में पुराणों का महत्वपूर्ण स्थान है, पुराण भक्ति ग्रंथों के रूप में बहुत महत्वपूर्ण माने जाते हैं।

The Vishnu Purana is a religious Hindu text and one of eighteen Puranas.


श्रीपराशर उवाच

भजनभजमानदिव्यान्धकदेवावृधमहाभोज - वृष्णिसंज्ञास्सत्वतस्य पुत्रा बभूवुः ॥१॥

भजमानस्य निमिकृकणवृष्णयस्तथान्ये द्वैमात्राः शतजित्सहस्त्रजिदयुतजित्संज्ञास्त्रयः ॥२॥

देवावृधास्त्यापि बभ्रुः पुत्रोऽभवत् ॥३॥

तयोश्चायं श्‍लोको गीयते ॥४॥

यथैव श्रॄणुमो दुरात्सम्पश्यामस्तथान्तिकात् । बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधस्समः ॥५॥

पुरुषाः षट् च षष्टिश्च षट् सहस्त्राणि चाष्ट च । तेऽमृतत्वमनुप्राप्ता बभ्रोर्देवावृधादपि ॥६॥

महाभोजस्त्वतिधर्मात्मा तस्यान्वये भोजा मृत्तिकावरपुरनिवासिनो मार्त्तिकावरा बभुवुः ॥७॥

वृष्णेः सुमित्रो युधाजिच्च पुत्रावभूताम् ॥८॥

ततश्चानामित्रस्तथानमित्रान्निघ्नः ॥९॥

निघ्नस्य प्रसेनसत्राजितौ ॥१०॥

तस्य च सत्राजितो भगवानादित्यः सखाभवत ॥११॥

एकदा त्वम्भोनिधितीरसंश्रयः सूर्यं सत्राजित्तुस्तस्थौ ॥१२॥

ततस्त्वस्पष्टमूर्त्तिधरं चैनमालोक्य सत्राजित्सूयमाह ॥१३॥

यथैव व्योम्रि वह्निपिण्डोपमं त्वामहमपश्यं तथैवाद्याग्रतो गतमप्यत्र भगवता कित्र्चिन्न प्रसादीकृतं

विशेशमुपलक्षयामीत्येवमुक्ते भगवता सूर्येण निजकण्ठादुन्मुच्य स्यमन्तकं नाम महामणिवरमवतार्यैकान्ते न्यस्तम् ॥१४॥

ततस्तमाताम्रोज्ज्वलं ह्रस्ववपुर्षमीषदापिगंलनयनमादित्यमद्राक्षीत ॥१५॥

कृतप्रणिपातस्तवादिकं च सत्राजितमाह भगवानदित्यस्सहस्त्रदीधितिर्वरमस्मत्तोऽभिमतं वृणीष्वेति ॥१६॥

स च तदेव मणिरत्नमयाचत ॥१७॥

स चापि तस्मै तद्दत्वा दीधितिपतिर्वियति स्वधिष्ण्य मारुमोह ॥१८॥

सत्राजिदप्यमलमणिरत्नसनाथकण्ठतया सूर्य इव तेजोभिरशेषदिगन्तराण्युद्भासयन द्वारकां विवेश ॥१९॥

द्वारकावासी जनस्तु तमायान्तमवेक्ष्य भगवान्तमादिपुरुषं पुरुषोत्तममवनिभारतवतरणायांशेन मानुषरूपधारिणं प्राणिपत्याह ॥२०॥

भगवान् भवन्तं द्रष्टुं नुमनमयमादित्य आयातीत्युक्तो भगवानुवाच ॥२१॥

भगवान्नायमादित्यः सत्राजिदयमादित्यदत्तस्यमन्तकाख्यं महामणिरत्नं बिभ्रदत्रोपयाति ॥२२॥

तदेनं विश्रब्धाः पश्यतेत्युक्तास्ते तथैव ददृशुः ॥२३॥

स च तं स्यमन्तकमणिमात्मनिवेशने चक्रे ॥२४॥

प्रतिदिनं तन्माणिरत्नमष्टौ कनकभारन्स्त्रवति ॥२५॥

तत्प्रभावाच्च सकलस्यैव राष्ट्रस्योपसर्गानावृष्टिव्यालाग्निचोरदुर्भिक्षादिभयं न भवति ॥२६॥

अच्युतोऽपि तद्दीव्यं रत्नमुग्नसेनस्य भूपतेर्योग्यमेतदिति लिप्सां चक्रे ॥२७॥

गोत्रभेदभयाच्छक्तोऽपि न जहार ॥२८॥

सत्राजिदप्यच्युतो मामेतद्याचयिष्यतीत्यवगम्य रत्नलोभाद्‌भ्रात्रे प्रसेनाय तद्रस्त्रमदात ॥२९॥

तच्च शुचिना ध्रियमाणमशेषमेव सुवर्णस्त्रवादिकं गुणजातमुत्पादयति अन्यथा धारयन्तमेव

हन्तीत्यजानन्नसावपि प्रसेनस्तेन कण्ठसक्तेन स्यमन्तकेनाश्वमारुह्याटव्यां मृगयामगच्छत् ॥३०॥

तत्र च सिंहाद्वधमवाप ॥३१॥

साश्वं च तं निहत्य सिंहोऽप्यमलमणीरत्नमास्याग्रेनादाय गन्तुमभ्युद्यतः ऋक्षाधिपतिना जाम्बवता दृष्टो घातिताश्च ॥३२॥

जाम्बवानप्यमलमणिरत्नमादाय स्वबिले प्रविवेश ॥३३॥

सुकुमारसंज्ञाय बालकाय च क्रीडनकरोत् ॥३४॥

अनागच्छति तस्मिन्प्रसेन कृष्णो मणीरत्नमभिलषितवान्स च प्राप्तवान्नुनमेतदस्य

कर्मेत्यखिल एव यदुलोकः परस्परं कर्णाकर्ण्य कथयत ॥३५॥

विदितलोकापवादवृत्तान्तश्च भगवान् सर्वयदुसैनपरिवारपरिवृतः प्रसेनाश्वपदवीमनुसार ॥३६॥

ददर्श चाश्वसमवेतं प्रसेनं सिंहने विनिहतम् ॥३७॥

अखिलजनमध्ये सिंहपददर्शनकृतपरिशुद्धिः सिंहपदमनुससार ॥३८॥

ऋक्षपतिनिहतं च सिंहमप्यल्पे भूमिभागो दृष्टा ततश्च तद्रत्नगौरवादृक्षस्यापि पदान्यनुययौ ॥३९॥

गिरितटे च सकलमेव तद्यदुसैन्यमवस्थाप्य तत्पदानुसारी ऋक्षबिलं प्रविवेश ॥४०॥

अन्तः प्रविष्टश्च धात्र्याः सुकुमारकमुल्लालयन्त्या वाणीं शुश्राव ॥४१॥

सिंहः प्रसेनमवधीत्सिंहो जाम्बवता हतः । सुकुमारक मा रोदीस्तव ह्योष स्यमन्तकः ॥४२॥

इत्याकर्ण्योपलब्धस्यमन्तकोऽन्तः प्रविष्टः कुमारक्रीडनकीकृतं च धात्र्या हस्ते तेजोभिर्जाज्वल्यमानं स्यमन्तकं ददर्श ॥४३॥

तं च स्यमन्तकाभिलषितचक्षुषमपूर्वपुरुषमागतं समवेक्ष धात्री त्राहि त्राहिति व्याजहार ॥४४॥

तदार्र्त्तरवश्रवणानन्तरं चामर्षपूर्णहृदयः स जाम्बवानाजगाम ॥४५॥

तयोश्च परस्परमुद्धतामर्षयोर्युद्धमेकविंशतिदिनान्यभवत् ॥४६॥

ते च यदुसैनिकास्तत्र सप्ताष्टदिनानि तन्निष्क्रान्तिमुदीक्षमाणास्तस्थुः ॥४७॥

अनिष्क्रमणे च मधुरिपुरसाववश्यमत्र बिलेऽत्यन्तं नाशमवाप्तो भविष्यत्यन्यथा तस्य जीवतः

कथमेतावन्ति दिनानि शत्रुजये व्याक्षेपो भविष्यतीति कृताध्यवसाया द्वारकामागम्य हतः कृष्ण इति कथयामासुः ॥४८॥

तद्वान्धवाश्च तत्कालोचितमखिलमुत्तरक्रियाकलापं चक्रुः ॥४९॥

ततश्चास्य यूद्धमानस्यातिश्रद्धादत्तविशिष्टोपपात्रयुक्तान्नयोयादिना श्रीकृष्णस्य बलप्राणपृष्टिरभूत ॥५०॥

इतरस्यानुदिनमतिगुरुपुरुषभेद्यमानस्य अतिनिष्ठुरप्रहारपातपीडिताखिलावयवस्य निराहारतया बलहानिरभूत ॥५१॥

निर्जितश्च भगवता जाम्बवान्प्रणिपत्य व्याजहार ॥५२॥

सुरासुरगन्धर्वयक्षराक्षसादिभिरप्यखिलैर्भवान्न जेतुं शक्यः किमुतावनिगोचरैरल्पवीर्यैर्नरावयाभूतैश्च तिर्यग्योन्यनुसृतिभिः

किं पुनरस्मद्विधैरवश्यं भवताऽस्मत्स्वामिना रामेणेव नारायणस्य सकलजगत्परायणस्यांशेन

भगवता भवितव्यमित्युक्तस्तस्मै भगवानखिलावनिभारावतरणार्थमवतरणमाचचक्षे ॥५३॥

प्रीत्यभिव्यत्र्चितकरतलस्पर्शनेन चैनमपगतयुद्धखेदं चकार ॥५४॥

स च प्रणिपत्य पुनरप्येनं प्रसाद्य जाम्बवतीं नाम कन्यां गृहागतायार्घ्यभूतां ग्राह्यमास ॥५५॥

स्यमन्तकमणिरत्नमपि प्रणिपत्य तस्मै प्रददौ ॥५६॥

अच्युतोऽप्यतिप्रणतात्तस्मादग्राह्यमपि तन्मणिरत्नमात्मसंशोधनाय जग्राह ॥५७॥

सह जाम्बवत्या स द्वारकामाजगाम ॥५८॥

भगवदागमनोद्भूतहर्षोत्कर्षस्य द्वारकावासिजनस्य कृष्णावलोकनात्तत्क्षणमेवातिपरिणतवयसोऽपि नवयौवनमिवाभवत् ॥५९॥

दिष्ट्या दिष्ट्येति सकलयादवाः स्त्रियश्च सभाजयामासुः ॥६०॥

भगवानपि यथानुभूतमशेषं यादवसमाजे यथाअदाचचक्षे ॥६१॥

स्यमन्तकं च सत्राजिते दत्वा मिथ्याभिशस्तिपरिशुद्धिमवाप ॥६२॥

जाम्बवतीं चान्तः पुरे निवेशया मास ॥६३॥

सत्राजिदपि मयास्याभूतमलिनमारोपितमिति जातसन्त्नासात्स्वसुतां सत्यभामां भगवते भार्यार्थ ददौ ॥६४॥

तां चाक्रूरकृतवर्मशतधन्वप्रमुखा यादवाः प्राग्वरयाम्बभूवुः ॥६५॥

ततस्तत्प्रदानादवज्ञातमेवात्मानं मन्यमानाः सत्राजिति वैरानुबन्धं चक्रुः ॥६६॥

अक्रुरकृतवर्मप्रमुखाश्च शतधन्वानमुचुः ॥६७॥

अमयतीव दुरात्मा सत्राजिद् योऽस्माभिर्भवता च प्रार्थितोऽप्यात्मजामस्मान् भवन्तं चाविगणय्य कृष्णाय दत्तवान ॥६८॥

तदलमनेन जीवता घातयित्वैनं तन्महारत्नं स्यमन्तकाख्यं त्वया किं न गृह्याते वयमभ्य़्पत्स्यामो

यद्यच्युतस्तवोपरि वैरानुबन्धं करिष्यतीत्येवमुक्तस्तथेत्यसावप्याह ॥६९॥

ततुगृहदग्धानां पाण्डुतनयानां विदितपरमार्थोऽपि भगवान् दुर्योधनप्रयत्नशैथिल्य करणार्थं कुल्यकरणाय वारणावतं गतः ॥७०॥

गते च तस्मिन सुप्तमेव सत्राजितं शतधन्वा जघान मणिरत्नं चाददात ॥७१॥

पितृवधामर्षपूर्णा च सत्यभामा शीघ्रं स्यन्दनमारुढा वारनावरं गत्वा भगवतेऽहं प्रतिपादितेत्यक्षान्तिमता

शतधन्वनास्मप्तिता व्यापादितस्तच्च स्यमन्तकमणीरत्नमहतं यस्यावभासनेनापहृततिमिरं त्रैलोक्य भविष्यति ॥७२॥

तदियं त्वदीयापहासना तदालोच्य यदत्र युक्तं तत्क्रियतामिति कृष्णमाह ॥७३॥

तया चैवमुक्तः परितुष्टान्तः करनोऽपि कृष्णः सत्यभामाममर्षताम्रनयनः प्राह ।७४॥

सत्ये सत्यं ममैवैषापहासना नाहमेतां तस्य दुरात्मनस्सहिष्ये ॥७५॥

न ह्यानुल्लड्‌घ्य वरपादपं तत्कृतनीडाश्रयिणो विहंगमा वध्यन्ते तदलममुनास्मत्पुरतः

शोकप्रेरितवाक्यपरिकरेणेत्युक्त्वा द्वारकामभ्येत्येकान्ते बलदेवं वासुदेवः प्राह ॥७६॥

मृगयागतं प्रसेनमटव्यां मृगपतिर्जघान ॥७७॥

सत्राजिदप्यधुना शतधन्वना निधनं प्रापितः ॥७८॥

तदुभयविनाशात्तन्मणिरत्नमावाभ्यां सामान्य भविष्यति ॥७९॥

तदुत्तिष्ठारुह्यातां रथः शतधन्वनिधनायोद्यमं कुर्वित्यभिहितस्तथेति समन्वीप्सितवान् ॥८०॥

कृतोद्यमौ च तावुभावुपलभ्य शतधन्वा कृतवर्माणमुपेत्य पाष्णिपूरणकर्मनिमित्तमचोदयत् ॥८१॥

आह चैनं कृतवर्मा ॥८२॥

नाहं बलदेववासुदेवाभ्यां सह विरोधायालमित्यक्तश्चाक्रूरमचोदय ॥८३॥

असावप्याह ॥८४॥

न हि कश्चिद्भगवता पादप्रहारपरिकाम्पितजगत्त्रयेण सुररिपुवनितावैधव्यकरिणा प्रबलरिपुचक्राप्रतिहतचक्रेन चक्रिणा मदमुदितनयनावलोकिताखिलनिशातनेनातिगुरुवैरिवारणापकर्षणाविकृतमहिमोरुसीरेण

सीरिणा च सह सकलजगद्वन्ध्यानाममरवराणामपि योद्धुं समर्थः किमुताहम् ॥८५॥

तदन्यश्शरण मभिलष्यतामित्युक्तश्शतधनुराह ॥८६॥

यद्य स्मप्तरिताणासमर्थ भवानात्मानमधिगच्छति तदयमस्मत्तस्तावन्मणिः संगृह्या रक्ष्यतामिति ॥८७॥

एवमुक्तः सोऽप्याह ॥८८॥

यद्यन्त्यायामप्यवस्थायां न कस्मैचिद्भवान कथयिष्यति तदहमेतं ग्रहीष्यामिति ॥८९॥

तथेत्युक्ते चाक्रूरस्तन्मणिरत्नं जग्राह ॥९०॥

शतधनुरप्यतुलवेगां शतयोजनावाहिनीं बडवामारुह्यापक्रान्तः ॥९१॥

शैव्यसुग्रीवमेघपुष्पबलाहकाश्वचतुष्टययुक्तरथस्थितौ बलदेववासुदेवौ तमनुप्रयातौ ॥९२॥

सा च बडवा शतयोजनप्रमाणमार्गमतीता पुनरपि वाह्यमाना मिथिलवनोद्देशे प्राणानुत्ससर्ज ॥९३॥

शतधनुरपि तां परित्यज्य पदातिरेवाद्रवत ॥९४॥

कृष्णोऽपि बलभद्रमाह ॥९५॥

तावदत्र स्यन्दने भवता स्थेयमहमेनधमाचारं पदातिरेव पदातिमनुगम्य यावद्धातयामि

अत्र हि भूभागे दृष्टदोषास्सभया अतो नैतेऽश्वा भवतेमं भूमिभागमुल्लंघनीयाः ॥९६॥

तथेत्युक्त्वा बलदेवो रथ एव तस्थौ ॥९७॥

कृष्णोऽपि द्विकोशमात्रं भूमिभागमनुसृत्य दूरस्थितस्यैव चक्रं क्षिप्त्वा शतधनुषश्शिरश्चिच्छेद ॥९८॥

तच्छरीराम्बरादिषु च बहुप्रकारमन्विच्छन्नपि स्यमन्तकमणिं नावाप यदा तद्पगम्य बलभद्रमाह ॥९९॥

वृथैवास्माभिः शतधनुर्घातितो न प्राप्तमखिलजगत्सारभूतं तन्महारत्नं स्यमन्तकाख्यमित्याकर्ण्योद्भूतकोपो बलदेवो वासुदेवमाह ॥१००॥

धिक्त्वां यस्त्वमेवमर्थलिप्सुरेतच्च ते भ्रातुत्वान्मया क्षान्तं तदयं पन्थास्स्वेच्छया गम्यतां न मे द्वरकया

न त्वया न चाशेषबन्धुभिः कार्य्यमलमलमेभिर्ममाग्रतोऽलीकशपथैरित्याक्षित्य तत्कथां कथात्र्चित्प्रसाद्यमनोऽपि न तस्थौ ॥१०१॥

स विदेहपुरीं प्रविवेश ॥१०२॥

जनकराजश्चार्घ्यपूर्वकमेनं गृहं प्रवेशयामास ॥१०३॥

स तत्रैव च तस्थौ ॥१०४॥

वासुदेवोऽपि द्वारकामाजगाम ॥१०५॥

यावच्च जनकराजगृहे बलभद्रोऽवतस्थे तावद्धार्त्तराष्ट्रो दुर्योधनस्तत्सकाह्साद्गदाशिक्षामशिक्षयत ॥१०६॥

वर्षत्रयान्ते च बभ्रुग्रसेनप्रभॄतिभिर्यादवैर्न तद्रत्नं कृष्णेनापहृतामित कृतावगै विर्देहनगरीं गत्वा बलदेवस्सम्प्रत्याय्य द्वारकामानीतः ॥१०७॥

अक्रूरोऽप्युत्तममणिसमुद्भुतसुवर्णेन भगवद्धयानपरोऽनवरतं यज्ञानियाज ॥१०८॥

सवनगतौ हि क्षत्रियवैश्यौ निघ्नब्रह्महा भवतीत्येवम्प्रकारं दीक्षाकवचं प्रविष्ट एव तस्थौ ॥१०९॥

द्विषष्टिवर्षाण्येवं तन्मणिप्रभावात्तत्रोपसर्गदुर्भिक्षमारिकामरणादिकं नाभृत ॥११०॥

अथाक्रूरपक्षीयैर्भोजेश्शत्रुघ्ने सात्वतस्य प्रपौत्रे व्यापादिते भोजैस्सहाक्रूरो द्वारकामपहायापक्रान्तः ॥१११॥

तदपक्रान्तिदिनादारभ्य तत्रोपसर्गदुर्भिक्षव्यालानावृष्टिमारिकाद्युपद्रवा बभूवुः ॥११२॥

अथ यादवबलभद्रोग्रसेनसमवेतो मन्त्नममन्त्नयद भगवानुरगारिकेतनः ॥११३॥

किमिदमेकदैव प्रचुरोपद्रवागमनमेतदालोच्यतामित्यक्तेऽन्धकनामा यदुवृद्धः प्राह ॥११४॥

अस्याक्रूरस्य पिता श्वफल्को यत्र यत्राभूत्तत्र तत्र दुर्भिक्षमारिकानावृष्टयादिकं नाभृत ॥११५॥

काशिराजस्य विषये त्वनावृष्ट्या च श्वफल्को नीतःततश्च तत्क्षणाद्देवो ववर्ष ॥११६॥

काशिराजपन्त्याश्च गर्भे कन्यारत्नं पूर्वमासीत ॥११७॥

सा च कन्या पूर्णऽपि प्रसूतिकाले नैव निश्चक्राम ॥११८॥

एवं च तस्य गर्भस्य द्वादशवर्षाण्यनिष्क्रामतो ययुः ॥११९॥

काशिराजश्च तामात्मजां गर्भस्थामाह ॥१२०॥

पुत्रि कस्मात्र जायसे निष्क्रम्यतामास्यं ते द्रष्टुमिच्छामि एतां च मातरं

किमिचि चिरं क्लेशयसीत्युक्ता गर्भस्थैव व्याजहार ॥१२१॥

तात यद्येकैकां गां दिने दिने ब्राह्मणाय प्रयच्छसि तदाहमन्यैस्त्रिभिर्वषैर्स्माद्गर्भात्तावदवश्यं

निष्क्रमिष्यामीत्येतद्वचनमाकर्ण्य राजा दिने दिने ब्राह्मणाय गां प्रादात् ॥१२२॥

सापि तावता कालेन जाता ॥१२३॥

ततस्तस्याः पिता गान्दिनीति नाम चकार ॥१२४॥

तां च गान्दिनीं कन्यां श्वफल्कायोपकारिणे गृहमागतायार्घ्यभूतां प्रादात ॥१२५॥

तस्यामयमक्रूरः श्वफल्काज्जज्ञे ॥१२६॥

तस्यैवंगुणमिथुनादुप्तत्तिः ॥१२७॥

तत्कथमस्मिन्नपक्रान्तेऽत्र दुर्भिक्षमारिकाद्युपद्रवा न भविष्यन्ति ॥१२८॥

तदयमत्रानीयतामलमतिगुणवत्यपराधान्वेषणेनेति यदुवृद्धस्यान्धकस्यैतद्वचनमाकर्ण्य

केशवोग्रसेनबलभद्रपुरोगमैर्यदुभिः कृतापराधतितिक्षुभिरभयं दत्त्वा श्वफल्कपुत्रः स्वपुर मानीतः ॥१२९॥

तत्र चागतमात्र एव तस्य स्यमन्तकमणेः प्रभावदनावृष्टिमारिकादुर्भिक्षव्यालाद्युपद्रवोपशमा बभूवुः ॥१३०॥

कुष्णाश्चिन्तयामास ॥१३१॥

स्वल्पमेततकारणं यदयं गान्दिन्यां श्वफल्केनाक्रूरो जनितः ॥१३२॥

सुमहांश्चायमनावृष्टिदुर्भिक्षमारिकाद्युपद्रवप्रतिषेधकारी प्रभावः ॥१३३॥

तन्नुनमस्य सकाशे स महामणिः स्यमन्तकाख्यसिष्ठति ॥१३४॥

तस्य ह्योवंविधा प्रभावाः श्रुयन्ते ॥१३५॥

अयमपि च यज्ञादनन्तर मन्यत्क्रत्वन्तरं तस्यानन्तरमन्यद्यज्ञान्तरं चाजस्त्रमविच्छिन्नं यजतीति ॥१३६॥

अल्पोपादानं चास्यासंशयमत्रासौ मणिवरस्तिष्ठतीति कृताध्यवसायोऽन्यत्प्रयोजनमुद्दिश्य

सकलयादवसमाजमात्मगृह एवाचीकरत ॥१३७॥

तत्र चोपविष्टेष्वखिलेषु यदुषु पूर्वं प्रयोजनमुपन्यस्य पर्यवसिते च तस्मिन प्रसंगान्तरपरिहास ॥१३८॥

दानपते जानीम एव वयं यथा शतधन्वना तदिदमखिलजगत्सारभूतं स्यमन्तकं रत्नं भवतः

समर्पितं तदशेष्ट्रोपकारकं तत्प्रभावफलभुजः किं त्वेष बलभद्रोऽस्मानाशंकितवांस्तदस्मत्प्रीतये

दर्शयस्वेत्यभिधाय जोषं स्थिते भगवति वासुदेव सरत्नस्सोऽचिन्तयत् ॥१३९॥

किमत्रानुष्ठेयमन्यथा चेद ब्रवीम्यहं तत्केवलम्बरतिरोधनमन्विष्यन्तो रत्नमेते द्रक्ष्यन्ति

अतिविरोधी न क्षेम इति सत्र्चिन्त्य तमखिलजगत्कारणभूतं नारायणमाहाक्रुरः ॥१४०॥

भगवन्ममैतत्स्यमन्तकरत्नं शतधनुषा समर्पितमपगते च तस्मिन्नद्य श्वः परश्वो वा

भगवान् याचयिष्यतीति कृतमतिरतिकृच्छ्रेणैतावन्तं कालमधारयम ॥१४१॥

तस्य च धारणक्लेशेनाहमशेषोपभोगेष्वसंगिमानसो न वेद्मि स्वसुखकलामपि ॥१४२॥

एतावन्मात्रमप्यशेषैत्यात्मना न चोदितवान् ॥१४३॥

तदिदं स्यमन्तकरत्नं गृह्यातमिच्छया यस्याभिमतं तस्य समर्प्यताम् ॥१४४॥

ततः स्वोदरवस्त्रनिगोपितमतिलघुकनकसमुद्गकगतं प्रकटीकृतवान् ॥१४५॥

ततश्च निष्क्राम्य स्यम्यन्तकमणिं तस्मिन्यदुकुलसमाजे मुमोच ॥१४६॥

मुक्तमात्रे च तस्मिन्नतिकान्त्या तदखिलमास्थानमुद्योतितम् ॥१४७॥

अथाहाक्रूरः स एष मणिः शतधन्वनास्माकं समर्पितः यस्यायं स एनं गृह्णातु इति ॥१४८॥

तमालोक्य सर्वयादवानां साधुसाध्विति विस्मितमनसां वाचोऽश्रूयन्त ॥१४९॥

तमालोक्यातीव बलभद्रो ममायमच्युतेनैव सामान्यस्समन्वीप्सित इति कृतस्पृहोऽभुत ॥१५०॥

ममैवायं पितृधनमित्यतीव च सत्यभामापि स्पृहयात्र्चकाय ॥१५१॥

बलसत्यावलोकनात्कृष्णोऽप्यात्मानं गोचक्रान्तरावस्थितमिव मेने ॥१५२॥

सकलयादवसमक्षं चाक्रूरमाह ॥१५३॥

एतद्धि मणिरत्नमात्मसंशोधनाय एतेषा यदूनां मया दर्शितम एतच्च मम बलभद्रस्य

च सामान्यं पितृधनं चैतत्सत्यभामाया नान्यस्यैतत् ॥१५४॥

एतच्च सर्वकलं शुचिना ब्रह्माचर्यादिगुणवता ध्रियमाणमशेषराष्ट्रस्योपकारकमशुचिना ध्रियमाणमाधारमेव हन्ति ॥१५५॥

अतोऽहमस्य षोडशस्त्रीसहस्त्र परिग्रहादसमर्थो धारणे कथमेतत्सत्यभामा स्वीकारोति ॥१५६॥

आर्यबलभद्रेणापि मदिरापानाद्यशेषोपभोगपरित्यागः कार्यः ॥१५७॥

तदलं यदुलोकोऽयं बलभद्रः अहं च सत्या च त्वां दानपते प्रार्थयामः ॥१५८॥

तद्भवानेव धारयितुं समर्थः ॥१५९॥

त्वद्‌धृतं चास्य राष्ट्रस्योपकारकं तद्भवानशेषराष्ट्रनिमित्तमेतत्पूर्ववधारयत्वन्यन्न

वक्तव्यामित्युक्तो दानपतिस्तथेत्याह जग्राह च तन्महारत्नम् ॥१६०॥

ततः प्रभृत्यक्रूरः प्रकटेनैव तेनातिजाज्वल्यमानेनात्मकण्ठावसक्तेनादित्य इवांशुमाली चचार ॥१६१॥

इत्येतद्भगवतो मिथ्याभिशस्तिक्षालनं यः स्मरति न तस्य कदाचिदल्पापि

मिथ्याभिशस्तिर्भवति अव्याहताखिलेन्द्रियश्चाखिलपापमोक्षमवाप्रोति ॥१६२॥

N/A

References : N/A
Last Updated : April 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP