श्रीपराशर उवाच
यतिययातिसंयात्यायातिवियातिकृतिसंज्ञा नहुषस्य षट् पुत्रा महाबलपराक्रमा बभुवुः ॥१॥
यतिस्तु राज्यं नैच्छत् ॥२॥
ययातिस्तु भूभृदभवत् ॥३॥
उशनसश्च दुहितरं देवयानीं वार्षपर्वणीं च शर्मिष्ठामुपयेमे ॥४॥
अत्रानुवंशश्लोको भवति ॥५॥
यदुं च तुर्वसुं चैव देवयानी व्यजायत द्गुह्यां चानुं च पूरूं च शर्मिष्ठा वार्षपर्वणी ॥६॥
काव्यशापाच्चाकालेनैव ययातिर्जरामवाप ॥७॥
प्रसन्नशुक्रवचनाच्च स्वजरां सड्क्रामयितुं ज्येष्ठ पुत्रं यदुमुवाच ॥८॥
वत्स त्वन्मातामहशापादियमकालेनैव जरा ममोपस्थिता तामहं तस्यैवानुग्रहाद्भवतस्सज्चारयामि ॥९॥
एकं वर्षसहस्त्रमतृत्पोऽस्मि विषयेषु त्वद्वयसा विषयानहं भोक्तुमिच्छामि ॥१०॥
नात्र भवता प्रत्याख्यानं कर्त्तव्यमित्युक्तस्स यदुर्नैच्छतां जरामादातुम् ॥११॥
तं च पिता शशाप त्वत्प्रसूतिर्न राज्यार्हा भविष्यतीति ॥१२॥
अनन्तरं च तुर्वसुं द्गुह्युमनुं च पृथिवीपतिर्जराग्रहणार्थ स्वयौवनप्रदानाय चाभ्यर्थयामास ॥१३॥
तैरप्येकैकेन प्रत्यख्यातस्तात्र्छशाप ॥१४॥
अथ शर्मिष्ठातनयमशेषकनीयांस पुरुतथैवाह ॥१५॥
स चातिप्रवणमतिः सबहुमानं पितरं प्रणम्य महाप्रसादोऽयमस्माकमित्युदारमभिधाय जरां जग्राह ॥१६॥
स्वकीयं च यौवनं स्वपित्र ददौ ॥१७॥
सोऽपिं पौरवं यौवनमासाद्य धर्माविरोधेन यथाकामं यथाकालोपापन्नं यथोत्साहं विषयांश्चचार ॥१८॥
सम्यक् च प्रजापालनमकरोत् ॥१९॥
विश्वाच्या देवयान्या च सहोपभोगं भुक्त्व कामानामन्तं प्रास्यामीत्यनुदिनं उन्मनस्को बभूव ॥२०॥
अनुदिनं चोपभोगतः कामानतिरम्यान्मेने ॥२१॥
ततश्चैवमागयत ॥२२॥
न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवत्मैव भूय एवाभिवर्द्धते ॥२३॥
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः । एकस्यापि न पर्याप्तं तस्मात्तृष्णां परित्यजेत ॥२४॥
यदा न कुरुते भावं सर्वभूतेषु पापकम् । समदृष्टेस्तदा पुंसः सर्वास्सुखमया दिशः ॥२५॥
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः । तां तृष्णां सन्त्यजेत्प्राज्ञस्सुखेनैवाभिपूर्यते ॥२६॥
जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः । धनाशा जीविताशा च जीर्यतोऽपि न जीर्यतः ॥२७॥
पूर्णं वर्षसहस्त्रं मे विषयासक्तचेतसः । तथाप्यनुदिनं तृष्णा मम तेषुपजायते ॥२८॥
तस्मादेतामहं त्यक्त्वा ब्रह्माण्याधाय मानसम् । निर्द्वन्द्वो निर्ममो भूत्वा चरिष्यामि मृगैस्सह ॥२९॥
श्रीपराशर उवाच
पूरोस्सकाशादादाय जरां दत्त्वा च यौवनम् । राज्येऽभिषिच्य पूरुं च प्रययौ तपसे वनम् ॥३०॥
दिशि दक्षिणपूर्वस्यां तुर्वसुं च समादिशत् । प्रतीच्यां च तथा द्गुह्युं दक्षिणायां ततो यदुम् ॥३१॥
उदीच्या च तथैवानुं कृत्वां मण्डलिनो नृपान् । सर्वपृथ्वीपतिं पूरुं सोऽभिषिच्य वनं ययौ ॥३२॥