श्रीपराशर उवाच
तस्याप्यायुर्धीमानमावसुर्विश्वावसुःश्रुतायुश्शतायुरयुतायुरितिसंज्ञाः षट् पुत्रा अभवन् ॥१॥
तथामावसोर्भीमनामा पुत्रोऽभवत् ॥२॥
भीमस्य कात्र्चनः कात्र्चनात्सुहोत्रस्तस्यापि जह्नुः ॥३॥
योऽसौ यज्ञवाटमखिलं गंगाम्भसाल्पावितमवलोक्य क्रोधसंरक्तलोचनो भगवन्तं
यज्ञपुरुषमात्मनि परमेण समाधिना समारोप्याखिलामेव गंगामपिबत् ॥४॥
अथैनं देवर्षयः प्रसादयामासुः ॥५॥
दुहितृत्वे चास्य गंगांमनयन् ॥६॥
जह्नोश्र्च सुमन्तुर्नाम पुत्रोऽभवत् ॥७॥
तस्याप्यजकस्ततो बलकाश्वस्तस्मात्कुशस्तस्यापि कुशाम्बकुशनाभाधूर्त्तरजसो वसुश्चोति चत्वारः पुत्रा बभूवुः ॥८॥
तेषां कुशाम्बः शक्रतुल्यो मे पुत्रो भवेदिति तपश्चकार ॥९॥
तं चोग्रतपसमवलोक्य मा भवत्वन्योऽस्मत्तुल्यवीर्य इत्यात्मनैवास्यन्द्रः पुत्रत्वमगच्छत् ॥१०॥
स गाधिर्नाम पुत्रः कौशिकोऽभवत् ॥११॥
गाधिश्च सत्यवतीं कन्यामजनयत् ॥१२॥
तां च भार्गव ऋचीको वव्रे ॥१३॥
गाधिरप्यति रोषणायतिवृद्धाय ब्राह्मणाय
दातुमनिच्छन्नेकतश्श्यामकर्णानामिन्दुवर्चसामनिलरंहसामश्वानां सहस्त्रं कन्याशुल्कमयाचत ॥१४॥
तेनाप्यृषिणा वरूणसकाशादुपलभ्याश्वतीर्थोप्तन्नं तादृशमश्वसहस्त्रं दत्तम् ॥१५॥
ततस्तामृचीकः कन्यामुपयेमे ॥१६॥
ऋचीकश्च तस्याश्चरुमपत्यार्थं चकार ॥१७॥
तत्प्रसादितश्च तन्मात्रे क्षत्रवरपुत्रोत्पत्तये चरुमपरं साधयामास ॥१८॥
एष चरुर्भवत्या अयमपरश्चरूस्त्वन्मात्रा सम्यगुपयोज्य इत्युक्त्वा वनं जगाम ॥१९॥
उपयोगकाले च तां माता सत्यवतीमाह ॥२०॥
पुत्रि सर्व एवात्मपुत्रमतिगुणमभिलषति नात्मजायाभ्रातृगुणेष्वतीवादुतो भवतीति ॥२१॥
अतोऽर्हसि ममात्मीयं चरुं दातुं मदीयं चरुमात्मनोपयोक्तुम ॥२२॥
मत्पुत्रेण हि सकलभूमण्डलपरिपालनं कार्यं कियद्वा ब्राह्मणस्य
बलवीर्यसम्पदेत्युक्ता सा स्वचरूं मात्रे दत्तवती ॥२३॥
अथ वनादागत्य सत्यातीमृषिरपश्यत् ॥२४॥
आह चैनामतिपापे किमिदमकार्य भवत्या कृतमतिरौद्रं ते वपुर्लक्ष्यते ॥२५॥
नुनं त्वया त्वन्मातृसात्कृतश्चरुरुपयुक्तो न युक्तमेतत् ॥२६॥
मया हि तत्र चरौ सकलैश्वर्यवीर्यशौर्यबलसम्पदारोपिता
त्वदीयचरावप्यखिलशान्तिज्ञानतितिक्षादिब्राह्मणगुणस्म्पत् ॥२७॥
तच्च विपरितं कुर्वत्यास्तवातिरौद्रास्त्रधारणपालननिष्ठः क्षत्रियाचारः पुत्रो भविष्यति
तस्याश्चोपशमरुचिर्बाह्यणाचार इत्याकर्ण्यैव सा तस्य पादौ जग्राह ॥२८॥
प्रणिपत्य चैनमाह ॥२९॥
भगवन्मयैतदज्ञानादनुष्ठितं प्रसादं मे कुरुं मैवंविधः पुत्रो भवतु काममेवंविधः पौत्रो भवत्वित्युक्ते मुनिरप्याह ॥३०॥
एवमस्त्विति ॥३१॥
अनन्तरं च सा जमदग्निमजीजनत् ॥३२॥
तन्माता च विश्वामित्रं जनयामास ॥३३॥
सत्यवत्यपि कौशिकी नाम नद्यभवत् ॥३४॥
जमदग्निरिक्ष्वाकुवंशोद्भास्य रेणोस्तनयां रेणुकामुपयेमे ॥३५॥
तस्या चाशेषक्षत्रहन्तारं परशुरामसंज्ञं भगातस्सकललोकगुरोर्नारायणस्याशं जमदग्निरजीजनत् ॥३६॥
विश्वामित्रपुत्रस्तु भार्गव एव शुनश्शेपो देवैर्दत्तः ततश्च देवरातनामाभवत् ॥३७॥
ततश्चान्ये मधुच्छन्दोधनत्र्जयकृतदेवाष्टककच्छपहारीतकाख्या विश्वामित्रपुत्रा बभूवुः ॥३८॥
तेषां च बहूनि कौशिकगोत्रणि ऋष्यन्तरेषु विवाह्यान्यभवन् ॥३९॥