अतश्च मान्धातुः पुत्रसन्ततिरभिधीयते ॥१॥
अम्बरीषस्य मान्धातृतनयस्य युवनाश्वः पुत्रोऽभूत ॥२॥
तस्माद्धारीतः यतोऽगिरसो हारीताः ॥३॥
रसातले मौनेया नाम गन्धर्वा बभूवृष्षट्कोटीसंख्यातास्तैरशैषाणि नागकुलान्यपहृअतप्रधानरत्नाधिपत्यान्याक्रियन्त ॥४॥
तैश्च गन्धर्ववीर्यावधुतैरुगेश्वरैः स्तुयमानो भगवानशेषदेवेशः स्तवच्छ्रवणोन्मीलितोन्निद्रपुण्डरीकनयनो
जलशयनो निद्रावासानात प्रबुद्धः प्रणिपत्याभिहितः । भगवन्नस्माकमेतेभ्यो गन्धर्वेभ्यो भयमुत्पन्नं कथमुपशममेष्यतीति ॥५॥
आह च भगवाननादिनिधनपुरुषोत्तमो योऽसौ यौवनाश्वस्य मान्धातुः पुरुकुत्सनामा
पुत्रस्तमहमनुप्रविश्य तानशेषान् दुष्टागन्धर्वानुपशमं नयिष्यामीति ॥६॥
तदाकार्ण्य भगवते जलशायिने कृतप्रणामाः पुनर्नागलोकमागताः पन्नगाधिपतयो नर्मदां च पुरुकुत्सानयनाय चोदयामासुः ॥७॥
सा चैनं रसातलं नीतवती ॥८॥
रसातलगतश्चासौ भगवत्तेजसाप्यायितात्मवीर्यस्सकलगन्धर्वान्निजघान ॥९॥
पुनश्च स्वपुरमाजगाम ॥१०॥
सकलपन्नगाधि पतयश्च नर्मदायै वरं ददुः । यस्तेऽनुस्मरणसमवेतं नामग्रहण करिष्यति न तस्य सर्पविषभयं भविष्यतीति ॥११॥
अत्र च श्लोकः ॥१२॥
नर्मदायै नमः प्रातर्नर्मदायै नमो निशि । नमोऽस्तु नर्मदे तुभ्यं त्राहि मां विषसर्पतः ॥१३॥
इत्युच्चार्याहर्निशमन्धकरप्रवेशे वा सर्पैर्न दश्यते न चापि कृतनुस्मरणभुजो विषमपि भुक्तमुपघाताय भवति ॥१४॥
पुरुकुत्साय सन्ततिविच्छेदो न भविष्यतीत्युरगपतयो वरं ददुः ॥१५॥
पुरुकुत्सो नर्मदायां त्रसद्दस्युमजीजनत् ॥१६॥
त्रसद्दस्युतस्सम्भूतोऽनरण्यः यं रावणो दिग्विजये जघान ॥१७॥
अनरण्यस्य पृषदश्वः पृषदश्वस्य हयश्वः पुत्रोऽभवत् ॥१८॥
तस्य च हस्तः पुत्रोऽभवत् ॥१९॥
ततश्च सुमनास्तस्यापि त्रिधान्वा त्रिधन्वनस्त्रय्यारुणिः ॥२०॥
त्रय्यारुणेस्सत्यव्रतः योऽसौ त्रिशंकुसंज्ञामवाप ॥२१॥
स चाण्डालतामुपगतश्च ॥२२॥
द्वादशवार्षिक्यामनावृष्य़ां विश्वामित्रकलत्रापत्यपोषणार्थं चाण्डालप्रतिग्रहपरिहरणाय
च जाह्नवीतीरन्यग्रोधे मृगमांससमनुदिनं बबन्ध ॥२३॥
स तु परितुष्टेन विश्वामित्रेण सशरीरस्स्वर्गमारोपितः ॥२४॥
त्रिशंकोर्हरिश्चन्द्रस्तस्माच्च रोहिताश्वस्ततश्च हरितो हरितस्य चत्र्चुश्चत्र्चोर्विजयवसुदेवौ रुरुको विजयाद्रुरुकस्य वृकः ॥२५॥
ततो वृकस्य बाहुर्योऽसौ हैहयतालजंघदिभिः पराजितोऽन्तर्वत्न्या महिष्या सह वनं प्रविवेश ॥२६॥
तस्याश्च सपत्न्या गर्भस्तम्भनाय गरो दत्तः ॥२७॥
तेनास्या गर्भस्सत्पवर्षाणि जठर एव तस्थौ ॥२८॥
स च बाहुर्वृद्धभावादौर्वाश्रमसमीपे ममार ॥२९॥
सा तस्य भार्या कृत्वा तमारोप्यानुमरणकृतनिश्च्याऽभूत ॥३०॥
अथैतामतीतानागतर्त्तमानकालत्रयवेदी भगवानौर्वस्स्वाश्रमात्रिर्गत्याब्रवीत ॥३१॥
अलमलमनेनासद्वाहेणाखिलभूमण्डलपति रतिवीर्यपराक्रमो नैकयज्ञकृदरातिपक्षक्षयकर्त्ता तवोदरे चक्रवर्ता तिष्ठति ॥३२॥
नैवमतिसाहसाध्यवसायिनी भवती भवत्वित्युक्ता सा तस्मादनुमरणनिर्बन्धाद्विरराम ॥३३॥
तेनैव च भगवता स्वाश्रममानीता ॥३४॥
तत्र कतिपयदिनाभ्यन्तरे च सहैव तेन गरेणातितेजस्वी बालको जज्ञे ॥३५॥
तस्यौर्वो जातकर्मादिक्रिया निष्पाद्य सगर इति नाम चकर ॥३६॥
कृतोपनयनं चैनमौर्वा वेदशास्त्राण्यस्त्रं चाग्नेयं भार्गवाख्यमध्यापयामास ॥३७॥
उप्तन्नबुद्धिश्च मातरमब्रवीत ॥३८॥
अम्ब कथमात्र वयं क्व वा तातोऽस्माकमित्येवमादिपृच्छन्तं माता सर्वमेवावोचत् ॥३९॥
ततश्च पितृराज्यापहरणादमर्षितो हैहयातालजंघादि वधाय प्रतिज्ञामकरोत् ॥४०॥
प्रायशश्च हैहयतालजघांत्र्जघान ॥४१॥
शकयवनकाम्बोजपरदपह्नत्राः हन्यामानास्तत्कुलगुरुं वसिष्ठंशरणं जग्मुः ॥४२॥
अथैनान्वासिष्ठो जीवन्मॄतकान कृत्वा सगरमाह ॥४३॥
वत्सालमेभिर्जीवन्मृतकैरनृसृतैः ॥४४॥
एते च मयैव त्वत्प्रतिज्ञापरिपालनाय निजधर्मद्विजसंगपरित्याग कारिताः ॥४५॥
तथेति तद्गुरुवचनमभिनन्द्य तेषां वेषान्यत्वम्कारयत ॥४६॥
यवनान्मुण्डितशिरसोऽर्द्धमुण्डितात्र्च्छकान् प्रलम्बकेशान् पारदान्
पह्ववात्रश्मश्रुधरान् निस्स्वाध्यायवषट्कारानेतानन्यांश्च क्षत्रियांश्चकार ॥४७॥
एते चात्मधर्मपरित्यागाद्भाह्याणैः परित्यक्ता म्लेच्छतां ययः ॥४८॥
सगरोऽपि मिमामुर्वीं प्रशशासा ॥४९॥