श्रीपराशर उवाच
इत्युक्ते मौनिनं भूयश्चिन्तयानं महीपतिम् । प्रत्युवाचाथ विप्रोऽसावद्वैतान्तर्गतां कथाम् ॥१॥
ब्राह्मण उवाच
श्रुयतां नृपशार्दूल यद्गीतमृभुणा पुरा । अवबोधं जनयता निदाघस्य महात्मनः ॥२॥
ऋभुर्नामाऽभवत्पुत्रो ब्रह्मणः परमेष्ठिनः । विज्ञाततत्त्वसद्भावो निसर्गादेव भूपते ॥३॥
तस्य शिश्यो निदाघोऽभूत्पुलस्त्यनयः पुरा । प्रादादशेषविज्ञानं स तस्मै परया मुदा ॥४॥
अवाप्तज्ञानतन्तस्य न तस्याद्वैतवासना । स ऋभुस्तर्कयामास निदाघस्य नरेश्वर ॥५॥
देविकायास्तटे वीरनगरं नाम वै पुरम् । समृद्धमतिरम्यं च पुलस्त्येन निवेशितम् ॥६॥
रम्योपवनपर्यन्ते स तस्मिन्पार्थिवोत्तम । निदाघो नाम योगज्ञ ऋभशिष्योऽवसत्पुरा ॥७॥
दिव्ये वर्षसहस्त्रे तु समतीतेऽस्य तत्पुरम् । जगाम स ऋभुः शिष्यं निदाघमवलोककः ॥८॥
स तस्य वैश्वदेवान्ते द्वारालोकनगोचरे । स्थितस्तेन गृहीतार्घ्यो निजवेश्म प्रवेशितः ॥९॥
प्रक्षालिताड्घ्रिपाणिं च कृतासनपरिग्रहम् । उवाच स द्विजश्रेष्ठो भुज्यतामिति सादरम् ॥१०॥
ऋभुरुवाच
भो विप्रवर्य भोक्तव्यं यदन्नं भवतो गृहे । तत्कथ्यतां कदन्नेषु न प्रीतिः सततं मम ॥११॥
निदाघ उवाच
सक्तुयावकवाट्यानामपूपानां च मे गृहे । यद्रोचते द्विजश्रेष्ठो तत्त्वं भुड्क्ष्व यथेच्छया ॥१२॥
ऋभुरुवाच
कदन्नानि द्विजैतानि मृष्टमन्नं प्रयच्छ मे । संयावपायसादीनि द्रप्सफाणितवन्ति च ॥१३॥
निदाघ उवाच
हे हे शालिनी मद्गेहे यत्कित्र्चिदतिशोभनम् । भक्ष्योपसाधनं मॄष्टं तेनास्यान्नं प्रसाधय ॥१४॥
ब्राह्मण उवाच
इत्युक्ता तेन सा पत्नी मृष्टमन्नं द्विजस्य यत् । प्रसाधितवती तद्वै भर्तुर्वचनगौरवात् ॥१५॥
तं भुक्तवन्तिमिच्छतो मृष्टमन्नं महामुनिम् । निदाघः प्राह भूपाल प्रश्चयावनतः स्थितः ॥१६॥
निदाघ उवाच
अपि ते परमा तप्तिरूत्पन्ना तुष्टिरेव च । अपि ते मानसं स्वस्थमाहारेण कृतं द्विज ॥१७॥
क्व निवासो भवान्विप्र क्व च गन्तुं समुद्यतः । आगम्यते च भवता यतस्तच्च द्विजोच्यताम् ॥१८॥
ऋभुरुवाच
क्षुद्यस्य तस्य भुक्तेऽन्ने तृप्तिर्ब्राह्मण जायते । न मे क्षुनाभवत्तृप्तिः कस्मान्मां परिपृच्छसि ॥१९॥
वह्निना पार्थिवे धातौ क्षपिते क्षुत्समुद्भवः । भवत्यम्भसि च क्षीणे नृणां तृडपि जायते ॥२०॥
क्षुत्तृष्णे देहधार्माख्ये न ममैत्रे यतो द्विज । ततः क्षुत्समभवाभावात्तृत्पिरस्त्येव मे सदा ॥२१॥
मनसः स्वस्थता तुष्टिश्चित्तधर्माविमौ द्विज । चेतसो यस्य तत्पृच्छ पुमानेभिर्न युज्यते ॥२२॥
क्व निवासस्तवेत्युक्तं क्व गन्तासि च यात्त्वया । कुतश्चागम्यते तत्र त्रितयेऽपि निबोध मे ॥२३॥
पुमान्सर्वगतो व्यापी आकाशवदयं यतः । कुतः कुत्र क्व गन्तासीत्येतदप्यर्थवत्कथम् ॥२४॥
सोऽहं गन्तां च चागन्ता नैकदेशनिकेतनः । त्वं चान्ये च न च त्वं च नान्ये नैवाहमप्यहम् ॥२५॥
मृष्टं न मृष्टमप्येषा जिज्ञासा मे कृता तव । किं वक्ष्यसीति तत्रापि श्रुयतां द्विजसत्तम ॥२६॥
किमस्वाद्वथ वा मृष्टं भुत्र्जतोऽस्ति द्विजोतम । मृष्टमेव यदामॄष्टं तदेवोद्वेगकारकम् ॥२७॥
अमृष्टं जायते मॄष्टं मृष्टदुद्विजये जनः । आदिमध्यावसानेषु किमन्नं रुचिकारकम् ॥२८॥
मॄण्मयं हि गृहं यद्वन्मॄदा लिप्तं स्थिरं भवेत् । पार्थिवोऽयं तथा देहः पार्थिवैः परमाणुभिः ॥२९॥
यवगोधूममुद्गादि घृतं तैलं पयो दधि । गुडं फलदीनि तथा पार्थिवाः परमाणवः ॥३०॥
तदेतद्भवता ज्ञात्वा मृष्टमृष्टविचारि यत् । तन्मनस्समतालम्बि कार्य साम्यं हि मुक्तये ॥३१॥
ब्राह्मण उवाच
इत्याकर्ण्य वचस्तस्य परमार्थाश्रितं नृप । प्राणिपत्य महाभागो निदाघो वाक्यमब्रवीत् ॥३२॥
प्रसीद मद्धितार्थाय कथ्यतां यत्त्वमागतः । नष्टो मोहस्तवाकर्ण्य वचांस्येतानि मे द्विज ॥३३॥
ऋभुरुवाच
ऋभुरस्मि तवाचार्यः प्रज्ञादानाय ते द्विज । इहागतोऽहं यास्यामि परमार्थस्तवोदितः ॥३४॥
एवमेकमिदं विद्धि न भेदि सकलं जगत् । वासुदेवाभिधेयस्य स्वरूपं परमात्मनः ॥३५॥
ब्राह्मण उवाच
तथेत्युक्त्वा निदाघेन प्रणिपातपुरः सरम् । पूजितः परया भक्त्या इच्छातः प्रययावृभुः ॥३६॥
इति श्रीविष्णुपुराणे द्वितीयेंऽशे पत्र्चद्शोऽध्यायः ॥१५॥