श्रीविष्णुपुराण - द्वितीय अंश - अध्याय २

भारतीय जीवन-धारा में पुराणों का महत्वपूर्ण स्थान है, पुराण भक्ति ग्रंथों के रूप में बहुत महत्वपूर्ण माने जाते हैं।

The Vishnu Purana is a religious Hindu text and one of eighteen Poranas.


श्रीमैत्रेय उवाच

कथितो भवता ब्रह्मन्सर्गः स्वायम्भुवश्च मे । श्रोतुमिच्छाम्यहं त्वतः सकलं मण्डलं भूवः॥१॥

यावन्तः सागरा द्वीपास्तथा वर्षाणि पर्वताः । वनानि सरितः पुर्यो देवादीनां तथा मुने ॥२॥

यत्प्रमाणमिदं सर्वं यदाधारं यदात्मकम् । संस्थानमस्य च मुने यथावद्वक्तुमर्हसि ॥३॥

श्रीपराशर उवाच

मैत्रेय श्रूयतामेतत्संक्षेपा द्गदतो मम । नास्य वर्षशतेनापि वक्तुं शक्यो हि विस्तरः ॥४॥

जम्बूल्पक्षाह्वयौ द्वीपौ शाल्मलश्चापरो द्विज । कुशः क्रौच्त्रस्तथा शाकः पुष्करश्चैव सप्तमः ॥५॥

एते द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः । लवणेक्षुसुरासर्पिर्दधिदुग्धजलैः समम् ॥६॥

जम्बूद्वीपः समस्तानामेतेषां मध्यसंस्थितः । तस्यापि मेरुमैत्रेय मध्ये कनकपर्वतः ॥७॥

चतुरशीतिसाहस्त्रो योजनैरस्य चोच्छ्रयः ॥८॥

प्रविष्टः षोडशाधस्ताद्‌द्वात्रिंशन्मुर्ध्नि विस्तृतः । मूले षोडशसाहस्त्रो विस्तारस्तस्य सर्वशः ॥९॥

भुपद्यस्यास्य शैलोऽसौ कर्णिकाकारसंस्थितः ॥१०॥

हिमवान्हेमकूटश्च निषधश्चास्य दक्षिणे । नीलः श्वेतश्च श्रृंगी च उत्तरे वर्षपर्वताः ॥११॥

लक्षप्रमाणौ द्वौ मध्यौ दशहीनास्तथापरे । सहस्त्रद्वितयोच्छ्रायास्तावद्विस्तारिणश्च ते ॥१२॥

भारतं प्रथमं वर्षं ततः किम्पुरुषं स्मृतम् । हरिवर्षं तथैवान्यन्मेरोर्दक्षिणतो द्विज ॥१३॥

रम्यकं चोत्तरं वर्ष तस्यैवानु हिरण्ययम् । उत्तराः कुरवश्चैव यथा वै भारतं तथा ॥१४॥

नवसाहस्त्रमेकैकमेतेषां द्विजसत्तम । इलावृतं च तन्मध्ये सौवर्णो मेरुरुच्छ्रितः ॥१५॥

मेरोश्चतुर्दिशं तत्तु नवसाहस्त्रविस्तृतम् । इलावृत्तं महाभाग चत्वारश्चात्र पर्वताः ॥१६॥

विष्कम्भा रचिता मेरोर्योजनायुतमुच्छ्रिताः ॥१७॥

पूर्वण मन्दरो नाम दक्षिणे गन्धमादनः । विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्मृतः ॥१८॥

कदम्बस्तेषु जम्बूश्च पिप्पलो वट एव च । एकादशशतायामाः पादमा गिरिकेतवः ॥१९॥

जम्बूद्वीपस्य सा जम्बूर्नामहेतुर्महामुने । महागजप्रमाणानि जम्ब्वास्तस्याः फलानि वै ।

पतन्ति भूभृतः पृष्ठे शीर्यमाणानि सर्वतः ॥२०॥

रसेन तेषां प्रख्याता तत्र जाम्बुनदीति वै । सरित्प्रवर्त्तते चापि पीयते तन्निवासिभिः ॥२१॥

न स्वेदो न च दौर्गन्ध्यं न जरा नेन्द्रियक्षयः । तत्पानात्स्वच्छमनसां जनानां तत्र जायते ॥२२॥

तीरमॄत्तद्रसं प्राप्य सुखवायुविशोषिता । जाम्बूनदाख्यं भवति सुवर्ण सिद्धभूषणम् ॥२३॥

भद्राश्वं पूर्वतो मेरोः केतुमालं च पश्चिमे । वर्ष द्वे तु मुनिश्रेष्ठ तयोर्मध्यमिलावृतः ॥२४॥

वनं चैत्ररथं पूर्वे दक्षिणे गन्धमादनम् । वैभ्राजं पश्चिमे तद्वदुत्तरे नन्दनं स्मृतम् ॥२५॥

अरुणोदं महाभद्रमसितोदं समानसम् । सरांस्येतानि चत्वारि देवभोग्यानि सर्वदा ॥२६॥

शीताम्भश्च कुमुन्दश्च कुररी माल्यवांस्तथा । वैकंकप्रमुखा मेरोः पूर्वतः केसराचलाः ॥२७॥

त्रिकूटः शिशिरश्चैव पतंगो रुचकस्तथा । निषदाद्या दक्षिणतस्तस्य केसरपर्वताः ॥२८॥

शिखिवासाः सर्वडूर्यः कपिलो गन्धमादनः । जारुधिप्रमुखास्तद्वत्पश्चिमे केसराचलाः ॥२९॥

मेरोरनन्तरांगेषु जठरादिष्ववस्थिताः । शंखकूटोऽथ ऋषभो हंसो नागस्तथापरः ।

कालत्र्जाद्याश्च तथा उत्तरे केसराचलाः ॥३०॥

चतुर्धसहस्त्राणि योजनानां महापुरी । मेरोरुपरि मैत्रेय ब्रह्मणः प्रथिता दिवि ॥३१॥

तस्यास्समन्ततश्चाष्टौ दिशास्तु विदिशासु च । इन्द्रादिलोकपालानां प्रख्याताः प्रवराः पुरः ॥३२॥

विष्णुपादविनिष्क्रन्ता प्लावयित्वेन्दुमण्डलम् । समन्ताद् ब्रह्मणः पुर्यां गंगा पतति वै दिवः ॥३३॥

सा तत्र पतिता दिक्षु चतुर्द्धा प्रतिपद्यते । सीता चालकनन्दा च चक्षुर्भद्रा च वै क्रमात् ॥३४॥

पूर्वेण शैलात्सीता तु शैलं यात्यन्तरिक्षगा । ततश्च पूर्ववर्षेण भद्रश्वेनैति सार्णवम् ॥३५॥

तथैवालकनन्दापि दक्षिणेनैत्य भारतम् । प्रयाति सागरं भूत्वा सत्पभेदा महामुने ॥३६॥

चक्षुश्च पश्चिमगिरिनतीत्य सकलांस्ततः । पश्चिमं केतुमालाख्यं वर्ष गत्वैति सागरम् ॥३७॥

भद्रा तथोत्तरगिरीनुत्तरांश्च तथा कुरुन् । अतीत्योत्तरमम्भोधिं समभ्येति महामुने ॥३८॥

आनीलनिषधायामौ माल्यव द्गन्धमादनौ । तयोर्मध्यगतो मेरुः कर्णकाकारसंस्थितः ॥३९॥

भारतः केतुमालाश्च भद्राश्वाः कुरवस्तथा । पत्राणि लोकपद्यस्य मर्यादाशैलबाह्यतः ॥४०॥

जठरो देवकुटश्च मर्यादापर्वतावूभौ । तौ दक्षिणोत्तरायामावानीलनिषधायतौ ॥४१॥

गन्धमादनकैलासौ पूर्वपश्चायतावुभौ । अशीतियोजनायामावर्णवान्तर्व्यवस्थिती ॥४२॥

निषधः पारियात्रश्च मर्यादापर्वतावुभौ । मेरोः पश्चिमदिग्भागे यथा पूर्वे तथा स्थितौ ॥४३॥

त्रुश्रृंगो जरुधिश्चैव उत्तरौ वर्षपर्वतौ । पूर्वपश्चायतावेतावर्णवान्तर्व्यवस्थितौ ॥४४॥

इत्येते मुनिवर्योक्ता मर्यादापर्वतास्तव । जठराद्याः स्थिता मेरोस्तेषां द्वौ द्वौ चतुर्दिशम् ॥४५॥

मेरोश्चतुर्दिशं ये तु प्रोक्ताः केसरपर्वताः । शीतान्ताद्या मुने तेषामतीव ही मनोरमाः ।

शैलानामन्तरे द्रोण्यः सिद्धचारणसेविताः ॥४६॥

लक्ष्मीविष्ण्वग्निसूर्यदिदेवांनां मुनिसत्तम । तास्वायतनवर्याणि जुष्टानि वरकिन्नरैः ॥४७॥

गन्धर्वयक्षरक्षांसि तथा दैतेयदानवाः । क्रीडन्ति तासु रम्यासु शैलद्रोणीष्वहर्निशम् ॥४८॥

नैतेषु पापकर्माणो यान्ति जन्मशतैरपि ॥४९॥

भद्राश्वे भगवान्विष्णुतास्ते हयशिरा द्विज । वराहः केतुमाले तु भारते कूर्मरूपधृक् ॥५०॥

मत्स्यरूपश्र्च गोविन्दः कुरुष्वास्ते जनार्दनः । विश्वरूपेण सर्वत्र सर्वः सर्वत्रगो हरिः ॥५१॥

सर्वस्याधारभूतोऽसौ मैत्रेयास्तेऽखिलत्मकः ॥५२॥

यानि किम्पुरुषादिनि वर्षाण्यष्टौ महामुने । न तेषु शोको नायासो नोद्वेगः क्षुद्भयादिकम् ॥५३॥

स्वस्थाः प्रजा निरातंकास्सर्वदुः खविवर्जिताः । दशद्वादशवर्षाणां सहस्त्राणि स्थिरायुषः ॥५४॥

न तेषु वर्षते देवो भौमान्यम्भांसि तेषु वै । कृतत्रेतादिकं नैव तेषु स्थानेषु कल्पना ॥५५॥

सर्वेष्वेतेषु वर्षेषु सप्त सप्त कुलचलाः । नद्यश्च शतशस्तेभ्यः प्रसुता या द्विजोत्तम ॥५६॥

इति श्रीविष्णुपुराणे द्वितीयेंऽशे द्वितीयोऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : April 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP