मानसागरी - अध्याय २ - पञ्चग्रहयोगफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


बहुप्रपञ्ची दुःखी च जायाविरहतापितः । सूर्याद्यैर्जीवपर्यन्तैर्नरः स्यात्पञ्चभिर्ग्रहैः ॥१॥

गतसत्यो बन्धुहीनः परकर्मरतो नरः । क्लीबस्य च सखा सूर्यभौमेन्दुबुधभार्गवैः ॥२॥

स्यादल्पायुश्च विकलो दुःखी सुतविवर्जितः । अर्कार्किबुधचन्द्रारयोगे बन्धनभागपि ॥३॥

जात्यन्धो बहुदुःखी च पितृमातृविवर्जितः । गानप्रीतो नरो भौमभानुचन्द्रेज्यभार्गवैः ॥४॥

परद्रव्यहरो योद्धा परतापकरः खलः । समर्थो जायते मन्दचन्द्रजीवार्कभूसुतैः ॥५॥

मानाचारधनैर्हीनः परदाररतो नरः । एकस्थैर्जायते भानुभौमेन्दुशनिभार्गवेः ॥६॥

राजमन्त्री भूरिवित्तो यन्त्रज्ञो दण्डनायकः । ख्यातो जने यशस्वी च जीवार्केन्दुज्ञभार्गवैः ॥७॥

परान्नभोजी सोन्मादः प्रियतप्तश्च वञ्चकः । उग्रो भीरुनरः सूर्यशनिचन्द्रेज्यचन्द्रजैः ॥८॥

धनपुत्रसुखैर्हीनो मृत्युत्साही च लोमशः । दीर्घो भवति चन्द्रार्कबुधशुक्रशनैश्चरैः ॥९॥

इन्द्रजालरतो वाग्ग्मी चलचितोऽङ्गनाप्रियः । प्राज्ञश्च दक्षो निर्भीतः शुक्रेज्यार्केन्दुसूर्यजैः ॥१०॥

स्फीतो बहुहयः कामी नरोऽशोकी चमूपतिः । बुधार्ककुजशुक्रेज्यैः सुभगो भूपतेः प्रियः ॥११॥

भिक्षाभोजी च रोगी च नित्योद्विग्नो मलीमसः । जीर्णो नरो भानुभौमशनिजीवबुधैर्भवेत् ॥१२॥

व्याधिभिः शत्रुभिर्ग्रस्तः स्थानभ्रष्टो बुभुक्षितः । नरः स्याद्विकलः शुक्रमन्दार्कबुधभूसुतैः ॥१३॥

विज्ञो विचारदेहे च धातुयन्त्ररसायनैः । नरः प्रसिद्धो भूपुत्ररविजीवसितासितैः ॥१४॥

मित्रप्रीतिः शास्त्रवेत्ता धार्मिको गुरुसंमतः । दयालुः शुक्रसूर्यार्किबुधजीवैर्जनो भवेत् ॥१५॥

साधुः कल्याणहीनश्च धनविद्यासुखान्वितः । बहुपुत्रो नरो जीवभौमेन्दुबुधभार्गवैः ॥१६॥

परान्नयाचको विप्रो मलिनस्तिमिरामयी । नरो भवति भौमेन्दुजीवशुकशनैश्चरैः ॥१७॥

दुर्भगो मलिनो मूर्खः प्रेष्यः क्लीबश्च निर्धनः । नरो भवति चन्द्रज्ञशुक्रसौरिमहीसुतैः ॥१८॥

बहुमित्रारिपक्षश्च दुःशीलः परपीडकः । मानी नरः सोमजीवशुक्रमन्दधरासुतैः ॥१९॥

राजमन्त्री राजतुल्यो लोकपूज्यो गुणाधिकः । चन्द्रचन्द्रजमन्देज्यभृगुपुत्रैर्नरो भवेत् ॥२०॥

अलसस्तामसो नित्यं सोन्मादो राजवल्लभः । निद्रातुरो नरो भौमबुधजीवार्किभार्गवैः ॥२१॥

N/A

References : N/A
Last Updated : March 22, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP