सततमल्पगतिर्मदपीडितस्तपनजे तनुजे खलु चाधमः । भवति हीनकचः कृशविग्रहो निजसुत्दृद्रिपुसद्मनि मानवः ॥१॥
धननिकेतनवर्त्तिनि भानुजे भवति वाक्यसहः सधनान्वितः । चपललोचनसंचयने रतो भवति चौरपरो नियतं सदा ॥२॥
सहजमन्दिरगे तपनात्मजे भवति सर्वसहोदरनाशकः । तदनुकूल्यनृपेण समो नरः स्वसुतपुत्रकलत्रसमन्वितः ॥३॥
बन्धुस्थितो भानुसुतो नराणां करोति बन्धोर्निधनं च रोगी । स्त्रीपुत्रभृत्येन विना कृतश्च ग्रामान्तरे चासुखदः स वक्री ॥४॥
शनैश्चरे पञ्चमशत्रुगेहे पुत्रार्थहीनो भवतीह दुःखम् । तुङ्गे निजे मित्रगृहे च पङ्गौ पुत्रैकभागी भवतीति कश्चित् ॥५॥
नीचो रिपोर्नीचकुलक्षयं च षष्ठं शनिर्गच्छति मानवानाम् । अन्यत्र शत्रून्विनिहन्ति तुङ्गी पूर्णार्थकामाज्जनतां ददाति ॥६॥
विश्रामभूतां विनिहन्ति जायां सूर्यात्मजः सप्तमगश्च रोगान् । धत्ते पुनर्दम्भधराङ्गहीनं मित्रस्य वंशे दुहितासुत्दृच्च ॥७॥
शनैश्चरे चाष्टमगे मनुष्यो देशान्तरे तिष्ठति दुःखभागी । चौर्यापराधेन च नीचहस्ते पञ्चत्वमाप्नोत्यथ नेत्ररोगी ॥८॥
धर्मस्य पङ्घर्बहुदम्भकारी धर्मार्थहीनः पितृवञ्चकश्च । मदानुरक्तो निधनी च रोगी पापिष्ठभार्यापरहीनवीर्यः ॥९॥
शनैश्चरे कर्मगृहे स्थितेऽपि महाधनी नृत्यजनानुरक्तः । प्राप्तप्रवासे नृपसद्मवासी न शत्रुवर्गाद्भयमेति मानी ॥१०॥
सूर्यात्मजे चायगते मनुष्यो धनी विमृश्यो बहुभोग्यभागी । सितानुरागी मुदितः सुशीलः स बालभावे भवतीति रोगी ॥११॥
व्यये शनौ पञ्चगणाधिनाथो गदान्वितो हीनवपुः सुदुःखी । जङ्घाव्रणी क्रूरमतिः कृशाङ्गो वधे रतः पक्षिगणस्य नित्यम् ॥१२॥