तन्वादयो भावबलं वदन्ति तत्स्वामिसम्पूर्णबलैः समेतः ।
युक्तेऽथ दृष्टे शुभदृग्युते च क्रमेण तद्भावविवृद्धिकारी ॥१॥
रुपं तथा वर्णविनिर्णयश्च चिह्नानि जातिर्वयसः प्रमाणम् ।
सुखानि दुःखान्यपि साहसं च लग्ने विलोक्यं खलु सर्वमेतत् ॥२॥
स्वर्णादिधातुः क्रयविक्रयश्च रत्नानि कोशोऽपि च संग्रहश्च ।
एतत्समस्तं परिचिन्तनीयं धनाभिधाने भवने सुधीभिः ॥३॥
सहोदराणामथ किङ्कराणां पराक्रमाणामुपजीविनां च ।
विचारणा जातकशास्त्रविद्भिस्तृतीयभावे विनयेन कार्या ॥४॥
सुदृदगृहग्रामचतुष्पदो वा क्षेत्राद्यमालोकनकं चतुर्थे ।
दृष्टे शुभानां शुभयोगतो वा भवेत्प्रवृद्धिर्नियमेन तेषाम् ॥५॥
बुद्धिप्रबंधात्मजमंत्रविद्याविनेयगर्भस्थितिनीतिसंस्थाः ।
सुताभिधाने भवने नराणां होरागमज्ञैः परिचिन्तनीयम् ॥६॥
वैरिव्रातं क्रूरकर्मानयानां चिन्ताशङ्का मातुलानां विचारः ।
होरापारावारपारं प्रयातैरेतत्सर्व शत्रुभावे विचिन्त्यम् ॥७॥
रणाङ्गणं चापि वणिकक्रिया च जायाविचारो गमनप्रमाणम् ।
शास्त्रप्रवीणेन विचारणीयं कलत्रभावे किल सर्वमेतत् ॥८॥
नद्युत्तारात्पन्थवैषम्यदुर्ग शस्त्रं चायुःसंकटेतेति सर्वम् ।
रन्ध्रस्थाने सर्वथा कल्पनीयं प्राचीनानामाज्ञया जातकज्ञैः ॥९॥
धर्मक्रियायां हि मनःप्रवृत्तिर्भोग्योपपत्तिर्विमलं च शीलम् ।
तीर्थप्रयाणं प्रणयः पुराणैः पुण्यालये सर्वमिदं प्रदिष्टम् ॥१०॥
व्यापारमुद्रानृपमान्यराज्यं प्रयोजनं चापि पितुस्तथैव ।
महत्फलाप्तिः खलु सर्वमेतद्राज्याभिधाने भवने विचार्यम् ॥११॥
गजाश्वहेमाम्बरछत्रजातमान्दोलिकामङ्गलमङ्गलानि ।
लाभः किलैषामखिलं विचार्यमेतत्तु लाभस्य गृहे गृहज्ञैः ॥१२॥
हानिर्दानं व्ययश्चापि दण्डो निर्बन्ध एव च ।
सर्वमेतव्द्ययस्थाने चिन्तनीयं प्रयत्नतः ॥१३॥