अथनिमन्त्रणादिश्राद्धाहेभुक्तान्नपरिणामपर्यन्तंकर्तुर्विप्राणांचनियमाः
स्त्रीसङ्गपुनर्भोजनानृतभाषणाध्यापनद्युतायासभारोद्वहनहिंसादानप्रतिग्रह
चौर्याध्वगमनदिवास्वापकलहादिवर्जनंकर्तृभोक्त्रुभयधर्माः
स्त्रीसङ्गश्चश्राद्धदिनेतत्पूर्वदिनेचरुतुकालेपिवर्ज्यः
ताम्बूलक्षुरकर्माभ्यङ्गदन्तधावनवर्जनंकर्तृधर्माःभोक्तृविप्राणांतैलाभ्यङ्गेउद्वर्तनेक्षुरेचविकल्पः
कर्तुर्भोक्तुश्चमुख्यवारुनस्नानेनैवाधिकारोनतुगौनस्नानेन श्राद्धकृच्छुक्लवासाःस्यान्मौनीचविजितेन्द्रियः ।
उपवासंपरान्नंचऔषधंचविवर्जयेत् १ अवस्त्रत्वंमलवद्वस्त्रत्वंकौपीनवत्त्वं
कच्छहीनत्वमनुत्तरीयत्वंकाषायवस्त्रत्वमार्द्रवस्त्रत्वंद्विगुणवस्त्रत्वंरक्तवस्त्रत्वं
दग्धवस्त्रत्वंस्यूतवस्त्रत्वमित्येकादशविधनग्नत्वं कर्तृभोक्तृभ्यांवर्ज्यम् कर्तुर्ललाटेऊर्ध्वपुण्ड्रादेर्विकल्पः
भोक्तुस्तुभवत्येव चन्दनतिलकस्तुपिण्डदानात्प्राककर्तुर्वर्ज्यःभोक्तस्तुभोजानकालात्प्राक्वर्ज्यः
सदर्भहस्तेनतिलकोनकार्यः करणेआचमनंदर्भत्यागश्च कर्त्रानिमन्त्रितविप्रत्यागोनकार्यः
प्रमादेनत्यागेयत्नेनविप्रःप्रसादनीयः बुद्धिपूर्वकत्यागेयतिचान्द्रायणंप्रायश्चित्तम् आमन्त्रितस्तुयोविप्रो भोक्तुमन्यत्रगच्छति ।
नरकाणांशतंगत्वाचाण्डालेष्वभिजायते १ आमन्त्रितस्तुयःश्राद्धेविलम्बंकुरुतेद्विजः ।
देवद्रोहीपितृद्रोहीपच्यतेनरकेषुसः २ स्त्रीसङ्गः
पुनर्भोजनंचश्राद्धपूर्वरात्रावपिकर्तृभोक्तृभ्यांवर्ज्यम् दशकृत्वःपिबेदापो गायत्र्याश्राद्धमुगद्विजः ।
सायंसंध्यामुपासीतजपेच्चजुहुयादपि १ सूतकेचप्रवासेचअशक्तौश्राद्धभोजने ।
औपासनादिकंहोमंनकुर्यात्किंतुकारयेत् २ निमन्त्रितस्तुनश्राद्धेकुर्याद्भार्यादिताडनम् ।
अपराह्णख्यमुहूर्तत्रयेवनस्पतिच्छेदं दधिमन्थनंसर्वैर्नकार्यम् यदाकर्तुरशक्त्यातत्पुत्रशिष्यादिःप्रतिनिधिःश्राद्धं करोति
तदायजमानप्रतिनिधिभ्यामुभाभ्यापूर्वोक्ताःसर्वेकर्तृनियमाःकार्याःमुक्तकच्छातुयानारीमुक्तकेशीतथैवच ।
हसतेवदतेऽत्यन्तंनिराशाःपितरो गताः १ सवर्णप्रेषयेदाप्तद्विजानांतुनिमन्त्रणे ।
अभोज्यंब्राह्मणस्यान्नंवृषलेन निमन्त्रितम् २ तथैववृषलस्यान्नंब्राह्मणेननिमन्त्रितम् । वृषलःशूद्रः ॥