ब्रह्मचारिणोमासिकाब्दिकादिश्राद्धंमातापितृभिःकार्यम्
ब्रह्मचारिणातुमातृपितृमातामहोपाध्यायाचार्यभिन्नानांशवनिर्हरणंदाहाद्यन्त्यकर्मचनकार्यम्
अन्याधिकार्यभावेमातृपितृमातामहाचार्याणांदाहादिकंब्रह्मचारिणाकार्यम् तत्रदशाहकर्मकरणेदशाहमाशौचम्
दाहमात्रकरणे एकाहम् तदाप्यस्यनित्यकर्मलोपोनास्ति अशुचित्वेप्याशौचिनामन्नंतेननभोक्तव्यम् तैः
सहनवस्तव्यम् तदुभयकरणेप्रायश्चित्तपुनरुपनयनेवक्ष्येते अन्येषांदाहादौकृच्छ्रत्रयंपुनरुपनयनंच
धर्मार्थंकेनचित्कस्यचित्सवर्णस्यदाहादिश्राद्धादिकरणेसंपत्त्यादिफलम् अयंसर्वोपिश्राद्धविधिः
शूद्राणाममन्त्रकःकार्यःअत्रकेचिद्वैदिकमन्त्रपाठएवशूद्राणांवर्ज्यः पौराणमन्त्रास्तुपठनीयाइत्याहुः
पौराणमन्त्राअपिशूद्रेणस्वयंनपठनीयाः किंतुविप्रद्वारापठनीयाः वेदमन्त्रास्तुनविप्रद्वारापीतिसिन्धुः
एवंद्विजस्त्रियोपिव्रतोद्यापनादाविवसंकल्पमात्रंस्वयंकृत्वावैदिकमन्त्रादिप्रयुक्तंसर्वंश्राद्धंविप्रद्वाराकारयेयुरितिपारिजातकारमतम्
शूद्रस्यसदामश्राद्धमेव पित्रेनमःपितामहायनम
इत्येवमादिनानमोन्तनाममन्त्रेणनिमन्त्रणपाद्यासनगन्धपुष्पादिनाविप्रान्संपूज्यामंनिवेद्यसक्तुना
पिण्डदानादिकृत्वादक्षिणादानादिनाश्राद्धंसमाप्यसजातीयान्गृहसिध्द्पक्वान्नेनभोजयेत्
यत्तुसिन्धौनाममन्त्रेणावाहनाग्नौकरणकाश्यपगोत्रोच्चारपूर्वकपिण्डदानादिकंतर्पणादिकंपाकेन
पिण्डदानादिकंचोक्तंतत्सच्छूद्रविषयम् सप्तपुरुषंत्रिपुरुषंवापरंपरयास्नान
वैश्वदेवतर्पणादिकंशूद्रकमलाकरादिग्रन्थसंगृहीतंधर्मंनियमेनाचरन्सच्छूद्रउच्यते
एवंकिरातयवनादिहीनजातीयानांविप्रेभ्य आमदानदक्षिणादानपूर्वकं
स्वस्वजातीयभोजनात्मकमेवश्राद्धम् राजकार्योनियुक्तस्यबन्धनिग्रहवर्तिनः ।
व्यसनेषुचसर्वेषुश्राद्धंविप्रेणकारयेत् १ अत्रप्रथमंजीवत्पितृकनिर्णयउक्तस्तत्रप्रसङगात्किंचिदधिकारविचारोप्युक्तः
इदानींतुसर्वोप्यधिकारक्रमविचारः सविस्तरउक्तइतितेनात्रपुनरुक्तिर्बालबोधनार्थत्वान्नदोषाय
इतिश्रीमदनन्तोपाध्यायसूनुविरचितेधर्मसिन्धुसारेश्राद्धाधिकारदाहाद्यधिकारनिर्णयः ॥