ऑगस्ट १ – आनन्दः केन लभ्यते? सृष्टिः शून्यात् उत्पन्ना । अस्माकमपि मूलस्थितिः सा एव । अतः अस्माभिः शून्यं प्रति गन्तुं प्रयत्नाः करणीयाः । इत्युक्ते स्वानन्देन स्वस्थेन भवितव्यम् । परं तत् अस्माकं न भवति । ‘कर्म कुर्वन् एव भवामि’इति मन्यामहे । प्रपञ्चे कष्टानि भवन्ति तदा वयं दूरं गत्वा उपविशामः । परं तेन मनसः सिषाधयिषा यदि शान्ता न जाता तर्हि कः लाभः? एतदर्थं मनसः स्वस्थता कथम् भवेत् इति द्रष्टव्यम् । आनन्दं कः नेच्छति? वयम् आनन्दम् इच्छामः खलु, परं तदर्थं यत् करणीयं तत् न कुर्मः । वृत्तिं न करोमि, परम्उपभोगः आवश्यकः चेत् कथं शक्यते? वस्तुतः प्रपञ्चस्य अगणितेभ्यः उपाधिभ्यः मुक्तिं लब्ध्वा यः स्वस्थतां प्राप्नोति सः धन्यः । मनसः विरुद्धं यत्किमपि यदा भवति तदा अस्माकम् आनन्दः भग्नः भवति । एतदर्थं मनसः विरुद्धं यदि भवति तर्हि मम आनन्दः न भञ्ज्यात् इति द्रष्टव्यम् । एतदर्थम् एकः एव उपायः यद् मम इच्छा एव नश्येत् इति । किमपि वस्तु लभ्येत अथ वा कः अपि प्रसङ्गः भवेत् इति बुद्धिः एव न कल्पनीया । यावत् लोभः वर्तते तावत् स्वास्थ्यात् वयं दूरमेव स्मः इति निश्चयेन मन्तव्यम् । महत्त्वाकाङ्क्षा अवश्यं भवेत् परं तेन मनः कष्टं न लभेत । भगवतः इच्छा एव मम इच्छा इति वक्तव्यम्, अभिमानं त्यक्त्वा कर्म करणीयं च । प्रयत्नानन्तरं यत् किमपि प्रवर्तते तत् रामस्य इच्छया जातमिति मन्तव्यम् । कर्तृत्वाभिमानस्य त्यागेन एव स्वास्थ्यं लभ्यते । अतीतसुखदुःखप्रसङ्गानां स्मरणेन आनन्दः भज्यते । तथैव श्वस्तनचिन्तया मनस्स्वास्थ्ये अन्तरायः वर्तते । यद् वर्तते अवर्तत वा तत् सर्वं भगवदिच्छया इति मनसा निश्चितं कृतं चेद् वृथा चिन्ता किमर्थं करणीया? दुःखकरणं वा अकरणं मनसः धर्मः । अतः येन जनेन मनः सम्यक् संस्कारितं सः साक्षात् दुःखभोगसमये अपि आनन्देन भवितुमर्हति । वार्ध्दक्ये तु आनन्दः शक्तिवर्धकम् औषधम् । येन नामप्रेम लब्धं सः शरीरस्य कस्यामपि अवस्थायाम् आनन्दं लभते । यः एतादृशं आनन्दं प्राप्नोति तस्मिन् रामेण अनुग्रहः कृतः इति निश्चयेन अवगन्तव्यम् । भगवतः कृते एकमेव दानं सत्यं, तद् आत्मदानम् । सततं भगवन्नामस्मरणे स्थित्वा देहः विस्मरणीयः इति एषः आत्मदानस्य एव प्रकारः ।
वाणी भगवतः नाम जपेत्, मनः तं स्मरेत्, एतयोः समञ्जनं भवेत् च ।
ऑगस्ट २ -अस्माकम्अहंकारस्य स्वरूपम् आनन्दमयं वर्तते । इष्टवस्तुप्राप्त्या समाधानं लभ्यते एव इति न । एतस्याः इच्छायाः नाशने एव समाधानं वर्तते । यदा लोभः नश्यति तदा एव समाधानं लभ्येत । एतदर्थं वासनाक्षयः कथं भवेत् इति द्रष्टव्यम् । क्व सुखं वर्तते?कस्य अनुसन्धानं करणीयम्? इत्यत्र अवधातव्यम् । वास्तवः आनन्दः समाधानं च भागवतत्वेन अवस्थाने वर्तते । ‘हे भगवन्, भवन्तं विहाय न कोपि मम अस्ति’ इति यदा मनसि निश्चयः भवेत् तदा एव समाधानं लभ्येत । यावती विषयाणां रुचिः तावती दुःखप्राप्तिरेव । विषयसुखं याच्ञांविना अपि प्राप्नुमः । परन्तु यत् परमार्थे विघ्नकरंतत् किमर्थं याचनीयम्?‘मम पार्श्वे रामः सदा विद्यते’ इति भावः वर्तते चेत् प्रपञ्चविषयेषु अवस्थाने अपि भयं नभवति । भगवतः आधारः नित्यं वर्तते चेत् विषयभयं न विद्यते । सदा अनुसन्धाने भवामः तर्हि नित्यं सावधानं भवामः एव । दीपावलीदिवसः आनन्ददिवसः, परम् एषः दिवसः अपि अन्यदिवसैः सदृशमेव विद्यते । तावदेव न, परं पूर्वतनदिनस्य परिस्थितिः, आपदः, समस्याः च अस्मिन् दिने अपि तथैव प्रवर्तन्ते, इति एतस्य एषः एव अर्थः यत् परिस्थितिः न परिवर्तिता, दिवसः समानः एव परं पूर्वतनदिवसे यत् कृतं तत् वयं दिपावलीदिने न कुर्मः, एषः एव मुख्यः भेदः । वयमेव दीपावलीदिवसम् आनन्ददिवसं कुर्मः इति यदि सत्यं तर्हि प्रतिदिनं तथा किमर्थं न कुर्मः? सदा अस्माकं दीपावली एव भवेत्, सततं वयम् आनन्दे एव भवामः, तदर्थम् आनन्दमयस्य भगवतः आश्रयं स्वीकुर्मः । दीपावलीपर्वस्य आधारेण वयम् आनन्दोत्सवं मन्यामहे तर्हि आनन्दनिर्मातुः भगवतः आश्रये नित्यं किमर्थं न गच्छामः? भगवतः आनन्दः बहु बलशाली । तस्य प्राप्तिमात्रेण प्रपञ्चे लाभहानेः महत्त्वं न विद्यते । भगवतः स्वरूपमेव आनन्दमयम् । एतादृशः आनन्दमयः भगवान् अस्माकम् अन्तरङ्गे विद्यमानः तथापि वयं दुःखिनः यतो हि भगवन्तं प्रकटयितुं वयमेव अन्तरङ्गे अन्तरायाः भवामः । अस्माकं अन्तरङ्गे भगवान् वर्तते तथा ‘अहम्’ अपि वर्तते । एषः ‘अहं कः’ इति ज्ञातुं इन्द्रियाणां कोलाहलः शान्तं कृत्वा अन्ते आनन्दस्य संशोधनं कुर्याम । तेन एतस्य ‘अहं’स्य स्वरूपम् आनन्दमयमेव वर्तते इति प्रचीतिः भविष्यति । एतस्य परमात्मनः अभिज्ञानं जीवनस्य वास्तवः आरम्भःतथा च परमात्मनि विलीनत्वं जीवनस्य सर्वस्वमेव ।
यस्य आनन्दः स्थिरः तस्य नित्यदीपावलीः ।
ऑगस्ट 3 – भगवता सह एकरूपत्वेन सर्वः आनन्दः एव । मनुष्यः यदा भक्तः भवति तदा सः यादृशम् आनन्दम् अनुभवति, तस्य आनन्दस्य शब्दैः विवरणम् अवगन्तुं न शक्नुमः । यत्र दुःखं न वर्तते तत्र ‘आनन्दः’ इति शब्दं कथयितुं तु कः भवेत्? अनन्यभक्त्या सः आनन्दः द्रष्टव्यः । भक्तः सर्वत्र ‘अहमेव अस्मि’ इति पश्यति इत्युक्ते सर्वाणि चराचरवस्तूनि सः भगवद्रूपाणि एव पश्यति । कस्मिञ्चित् प्रकोष्ठे सर्वत्र दर्पणाः स्थापिताः चेत् यत्र कुत्रापि किं दृश्येत? स्वं विना अन्यत् किमपि न दृश्येत । सर्वत्र एकभावः जातः चेत् दुःखस्य कारणमेव नास्ति । तत्र सर्वः आनन्दः एव । तद्वत् भक्तः भगवता सह एकरूपः भवति चेत् तत्र आनन्दं विना किं भवितुम् अर्हति? ये एतेन प्रकारेण जगति व्यवहरन्ति ते स्वानन्दे स्थित्वापि इतरजनैः सदृशं व्यवहरन्ति । तुकाराममहाराजेन एतादृश्यां स्थित्याम् अनुष्ठाय जनेभ्यःसन्मार्गः दर्शितः । समर्थरामदासेन अपि एतादृशीं स्थितिं संरक्ष्य जनाः स्वसदृशं कृताः । अस्माभिः तम् आनन्दं प्रति नेता मार्गः न दृष्टः । अतः यैः सः आनन्दः दृष्टः,ये सदा तस्मिन् आनन्दे एव वसन्ति तेषामुपदेशानुसारं वर्तनमेव श्रेयस्करम् । इत्युक्ते गुर्वाज्ञानुसारं वर्तनीयम् । मार्गदर्शकः लभ्यते चेत् तस्मिन् विश्वस्य वयं चलामः । तद्वत् गुरुवचनानुसारं वर्तामहे येन अस्माकं हितं भवेत् । कश्चन अन्धः जनः शर्करां मत्वा लवणं खादति चेत् तस्य रुचिः लवणमेव भवेत् । तद्वत् आनन्दं लभ्येत इति मत्वा वयं विषयाणां सङ्गं कुर्मः चेत् तस्मात् दुःखमेव प्राप्नुमः । बहूनि वस्तूनि प्राप्तानि । तेन बहु सुखं लभ्येत इति चिन्तनम् भ्रमः एव । सत्यम् अथ वा अत्यन्तं सुखमित्युक्ते शाश्वतं सनातनं च सुखम् । तत् सनातनवस्तुसमीपे इत्युक्ते भगवत्समीपे एव वर्तेत । भागवताः भूत्वा वयं आनन्देन भवामः । मुखं मधुरं कर्तुं यथा शर्करा खादनीया तथा आनन्दं प्राप्तुं नामस्मरणं करणीयम् । वयम् अन्येषामेव प्रपञ्चं कुर्मः, आत्मनः न कुर्मः एव । क्षेत्रस्य अपेक्षया कृत्तेः व्ययः अधिकः भवेत्, तद्वत् अस्माकं मूलस्वरूपस्यापेक्षया उपाधिनामेव अधिकं सज्जीकरणं वर्तते । यत् सर्वम् अर्जयामः तत् अत्रैव संस्थाप्य गन्तव्यं भवति । अस्माकं लाभाय कृतं चेत् अस्माकं प्रपञ्चः । भगवत्स्मरणमेव अस्माकं प्रपञ्चः । वयं मातापित्रोः,पतिपत्न्योः, पुत्रेषु आप्तजनेषु प्रतिवेशिषु वा सुखार्थम् अवलम्बिताः तर्हि सुखिनः न भवामः । अस्माकं दुःखं यातनाः वा यदि कोऽपि न नाशयति तर्हि अन्यः कश्चन अस्मभ्यं सुखं दद्यात् इति कल्पना कथं सत्यं भवेत्?
परमात्मनः आनन्दः अखण्डं लभ्येत, ‘अहं तस्य भवेयम्’ इति एतया धिया नामस्मरणं करणीयम् ।
ऑगस्ट ४ – वासना कथं जेतव्या ? किदृशः अपि विद्वान् भवेत् यावत् सः स्वयं न अनुभवति तावत् ज्ञानम् अर्थपूर्णं न भवति । धर्मग्रन्थं श्रुत्वा येन वैराग्यं प्राप्तं तेन एव ग्रन्थः सम्यक् अवगतः इति भवति । धर्मग्रन्थे उक्तं येन आचरितं सः एव सत्यः श्रोता । वेदान्तः प्रतिदिनम् आचरणीयः तर्हि एव तस्य वास्तवः उपयोगः । अतः सर्वासु प्रचीतीषु आत्मप्रचीतिः उत्तमा । यः भगवन्तं शरणं गच्छति तस्य शब्दज्ञानं न भवति चेदपि तस्य प्राप्तिविषयः एव नास्ति । यः शब्दज्ञानम् अनुधावति तस्य अभिमानः वर्धते । यः शब्दज्ञानविहीनः सः अभिमानी न भवेत् इति कदाचित् न । अज्ञानी जनस्य अभिमानः भवितुमर्हति, परं तस्य निर्मूलनं सरलम् । ‘सद्गुरुं शरणं गच्छतु’ इति कथयामश्चेत् सः निःशङ्कया गच्छेत् । काशीं गन्तुं विविधाः मार्गाः सन्ति, परं केनापि मार्गेण गन्तव्यं चेदपि गृहत्यागं विना तत् न शक्यते । तद्वत् कस्मिन्नपि साधने वासनायाः धारणेन, तां देवात् भिन्नां स्थापनेन वाउन्नतिः न शक्यते । तां देवस्य कर्तुं, हन्तुं वा देवस्य स्मरणम् अपेक्ष्यते । भागवतत्वम् अस्मिन् जन्मनि मम मुख्यं कार्यम् इति मन्तव्यम् । ‘अहं भागवतः कथं भवेयम्’ इति अहोरात्रं चिन्तनीयम् । ‘अहम् अन्यस्य कस्यापि नास्मि’ इति दृढः विश्वासः वर्तते चेत् भागवतः भवितुं शक्नोमि । अस्माकं मनः वासनाधीनं भूत्वा तात्कालिकसुखमनुधावति,चपेटिकां लब्ध्वा प्रत्यागच्छति च । यथा जनाः मन्यन्ते तथा वासनाजयः कठिनः नास्ति । वासना क्व व्यावर्तते तत् द्रष्टव्यम् । शरीरे विद्यमानं रक्तं निष्कास्य, परीक्ष्य च वैद्यः रोगनिदानं करोति । स्वचित्तं क्व लग्नमिति दृष्ट्वा रोगः ज्ञातव्यः । यत् अस्माकं हस्ते नास्ति तद्विषयिणी वासना इत्युक्ते मूर्खता एव इति अवधातव्यम् । अतः विचारः नामस्मरणं चेति एताभ्यां वासनाजयः निश्चयेन शक्यः । तदनु अस्माकं कर्तृत्वं निश्चयेन म्रियेत । हिमालये यदा आकाशात् हिमं पतति तदा तत् अति तरलं वर्तते । परं गच्छता कालेन तत् पाषाणात् अपि कठिनं भवति । तद्वत् वासना अपि सूक्ष्मा, तरला च वर्तते, परं देहबुद्ध्या सा अतिकठिना भवति । अनन्तरं तस्याः निष्कासनं बहु दुष्करम् । भगवद्वासना न वासना । यथा गोधूमपिष्टं नैकवारं संचाल्य गोधूमसत्त्वं निष्कासन्ति तद्वत् सर्वविषयवासनायाःनाशानन्तरं या अवशिष्टा भवति सा भगवद्वासना ।
वासनां नाशयितुं भगवदधिष्ठानमेव एकमात्रम् उपायः ।
ऑगस्ट ५ –‘देहःएव अहम्’ इति भ्रमः । ‘कोऽहं, किं मम कर्तव्यम्’ इति एतयोः ज्ञानं व्यवहारे यथा आवश्यकम् तद्वत् परमार्थे अपि ‘कोऽहम्’ इति एतस्य ज्ञानम् अपेक्ष्यते । यम् ‘अहं मम’ इति वदामि ‘सः अहं’ निश्चयेननास्मि । ‘मम देहः’ इति वदामः चेत् ‘अहं देहात् भिन्नः’ एव ननु? देहः तपति चेत्‘अहं ज्वरायितः’ देहः कृशः जातः चेत्‘अहं कृष्टः’ इति वदामः, सः प्रमादः, भ्रमः एव । वस्तुतः देहात् भिन्नः तथापि देहः अहमिति भावनया सुखदुःखमनुभवामि । ‘सुखं भवतु दुःखं मास्तु’ इति मन्ये इत्युक्ते मम मूलस्वरूपं नित्यसुखरूपमेव भवति । नद्यां विद्यमानं जलं, पात्रे ततः आनीतं जलंच द्वयमपि एकमेव । परं पात्रजलस्य स्वादः गन्धः च यदि भिन्नौ तर्हि पात्रे कश्चित् अवकरः स्यात् इति जानीमः । तद्वत् सुखरूपस्य आत्मनः अंशः एव जीवः दुःखरूपः जातः इति एतस्य कारणं देहसङ्गः । कस्यचित् गृहस्थस्य मित्रस्य पत्नी प्रसूतवती । तेन वैद्यस्य साहाय्यार्थं तथा च अन्येषु विषयेषु अपि धावनं कृतं परं शौचं न पालितम् । तन्मित्रसदृशम् अस्माभिः देहेन सह वर्तनीयम् । कश्चन वृक्षः पुनः न वर्धेत इति विचिन्त्य उत्पाटनीयः तर्हि तस्य पर्णानां त्रोटनेनकार्यं न भवति । तस्य मूले जलसिञ्चनं स्थगनीयम् । तद्वदेव संसारवृक्षाय अस्माभिः पुनः पुनः अभिमानजलं प्रचुरं दत्तम् अस्ति । तेन सः एतावान् वृद्धः अस्ति । सः अभिमानः नाशनीयः । ‘अहं कर्म अकरवम्’ इति भ्रमः त्यक्तव्यः । वास्तवः कर्ता ईश्वरः तथापि जीवः एव ‘अहं कर्ता’ इति मन्यते । आत्मना कर्तृत्वस्वीकरणेन जीवः सुखदुःखम् अनुभवति । अतः ‘नाहं कर्ता, रामः कर्ता’ इति भावः वर्धनीयः इति एषा एव वास्तवा उपासना । स्वायुषि याः घटनाः भवन्ति ताः सर्वाः भगवदिच्छया एव इति पूर्णः विश्वासः जातः चेत् सुखदुःखं च नावशिष्यते । यस्य एतादृशी सत्या निष्ठा वर्तते तस्य तेजः भिन्नमेव भवति खलु । एषः जनः अचलं समाधानं लभते । किं बहुना इदमेव सत्पुरुषस्य मुख्यलक्षणम् । इदं अस्माभिः प्राप्तव्यम् इत्यर्थम् सर्वे साधनप्रयत्नाः । वस्तुतः भवतः सर्वान् पुनः एकमेव कथयामि यत् सदा नामस्मरणे भवन्तु, नीत्या आचरन्तु च । तेन एव भवन्तः भगवन्तं प्राप्तुं शक्नुवन्ति । परमार्थे नीतिः, शुद्धाचरणं च बहु महत्त्वपूर्णे । यः शुद्धमनसा परमेश्वरचिन्तनं नामस्मरणं च करोति तस्य साहाय्यं कर्तुं परमेश्वरः सदैव सिद्धः । वयं तं परमेश्वरं शरणं गच्छामः तस्य नामप्रेम याचामहे । दीनदयालुः भक्तवत्सलः परमेश्वरः कृपावर्षं करिष्यति इति विश्वसन्तु ।
नामस्मरणं ‘ज्ञानेन’ करणीयं, ‘ज्ञानेन’ इत्युक्ते ‘रामः कर्ता’ इति भावनया ।
ऑगस्ट ६ – भगवतः आनन्दः निरुपाधिकः वर्तते । प्रत्येकं मनुष्यस्य प्रवृत्तिः भगवन्तं प्रति गन्तुं वर्तते, यतो हि सः आनन्दम् इच्छति । मनुष्यः आनन्दं विना जीवितुं न शक्नोति । परं साम्प्रतम् अस्माकम् आनन्दः केवलम् आशायाः आनन्दः, सः न सत्यः । श्वः सुखं लप्स्येत इति आशया वयं जीवामः, परं तत् सुखं क्वचिदेव लभ्यते । यस्मात् आनन्दात् दुःखं न उद्भवति सः एव आनन्दः सत्यः । जीवने कश्चित् आनन्दः भवेत् । जीवनं यदि आनन्ददायकं तर्हि किमर्थं दुःखं प्राप्नुमः? वस्तुतः वयं किमर्थं, किं कुर्वन्तः स्मः इत्येव विस्मरामः । इत्युक्ते मनुष्यः आनन्दार्थं जीवति, परं करोति दुःखम् । मद्यानन्दः यावत् मद्यस्य प्रभावः वर्तते तावत् लभ्यते । तद्वत् विषयानन्दः अपि यावद् विषयोपभोगः प्रवर्तते, तावदेव लभ्यते । दृश्यवस्तुनः असत्यत्वेन तत् अशाश्वतं वर्तते । अतः ततः लभ्यमानः आनन्दः अपि अशाश्वतः । वयं जगति व्यापं वर्धयामहे तत् तु आनन्दार्थम् । परं भगवन्तं विहाय यः आनन्दः वर्तते सः कारणे अवलम्बितः, अतः कारणसमाप्त्यनन्तरम् आनन्दः अपि नश्यति । अतः सः आनन्दः अशाश्वतः । अतः वास्तवः आनन्दः क्व लभ्यते इति द्रष्टव्यम् । वास्तवः आनन्दः दृश्यवस्तुषु नास्ति, परं ततः परं वर्तते । चिरन्तनः आनन्दः वस्तुविरहितः । अतः आनन्दार्थं वस्तुनः अनुधावनं मास्तु । विषयानन्दः परावलम्बी । भगवदानन्दः निरुपाधिकः । स्वानन्दस्मरणं विहाय यत् स्फुरणं सः विषयः एव मन्तव्यः । सत्या आनन्दवृत्तिः एव दीपावलीदशहरापर्वस्य चिह्नम् । हास्यम् तु आनन्दस्य व्यक्तस्वरूपम् । कस्यापि वस्तुनः अभावेनलब्धः आनन्दः एव परमात्मनः व्यक्तस्वरूपम् । तस्य आनन्दस्य प्राप्तौ यत् विघातकं तस्य अकरणमेव वैराग्यम् । तस्य आनन्दस्य बलवर्धनार्थं यत् करणीयं सः विवेकः । एषः आनन्दः इत्युक्ते आत्मचिन्तनेन प्राप्यमाणं मानसिकं समाधानम् । यः निस्वार्थबुद्ध्या प्रेम करोति सः निश्चयेन आनन्दं लभते । स्वीकुर्वाणः अहं-सः यदा दाता भवति तदा सः वास्तवम् आनन्दं लभते । ब्रह्मानन्दः प्रत्येकं जनस्यहृदये स्वयंभूः वर्तते । वृत्तिं परिवर्त्य सः प्राप्तव्यः । एकान्ते स्वस्थम् उपवेष्टव्यम् । रामः स्मर्तव्यः । तस्य पादयोः मस्तकं संस्थाप्य सः प्रार्थनीयः, ‘हे राम, मम मनः शुद्धं करोतु । देहबुद्धिं मा ददातु । तव चरणौ, तव हास्यं च सदा मया द्रष्टव्यम् । मम मस्तके वरदहस्तं स्थापयतु’ । प्रेम्णा रामं प्रार्थ्य ‘रामः परमानन्दरूपः’ इति ज्ञात्वा तेन सह अनन्येन भवितव्यम् । ‘नाहं कोऽपि’‘सर्वः रामः एव’‘अहं रामस्य एव’ इति अतिमधुरभावनया आनन्देन भवितव्यम् ।
मनसि उत्पद्यमाने प्रत्येकं संकल्पे रामनाम्नः चिह्नं भवेत् ।
ऑगस्ट७ – रूपस्य परिचयः नाम्ना एव भवति । केवलं शास्त्रपठनेन प्राप्तस्य ज्ञानस्य अपेक्षया भक्तिः निश्चयेन श्रेष्ठा । भक्तिः इत्युक्ते परमात्मस्वरूपस्य परमप्रेम । कर्म ज्ञानं योगं च साधनानि तथा च भक्तिः साध्यम् । कर्ममार्गे कर्मणः सम्यक् करणे एव मनः संलग्नं भवति । तेन केवलं कर्ममार्गी कर्मठः जडः च भवति । भगवन्तं विस्मरति । योगे वृत्तिनिरोधार्थं प्रयत्नाः करणीयाः भवन्ति । वृत्तयः शान्ताः भवन्ति चेत् मनः शून्याकारं भवति । वृत्तिनिरोधकर्तुः मनसि भगवतः प्रेम भवेत् एव इति वक्तुं न शक्नुमः । ज्ञानमार्गे आत्मानात्मविचारस्य प्राधान्यकारणेन बुद्धिसामर्थ्ये अधिकं बलं भवति । परं मायायाः वेगः बहु अधिकः भवति । सा कदा साधकं वञ्चयेत् इति वक्तुं न शक्नुमः । ज्ञानमार्गः बहु कठिनः । ज्ञानमार्गिणं शीघ्रम् अभिमानः बाधते । मम एव मतं सत्यम् इति सः चिन्तयति । सः जगत् मायाकार्यम् इत्युक्ते मिथ्या इति मन्यते । परमात्मा यदि सर्वव्यापी तर्हि जगदपि तस्मिन् भवेत् एव । अतः भक्तः तं मिथ्या इति अमत्वा भगवतः लीला इति मन्यते । सः अस्यां सृष्ट्यां भगवतः महिमानं तस्य विभूतिमत्वं तस्य आनन्दं च पश्यति । सृष्ट्यां विद्यमानं सौन्दर्यं माधुर्यं, मनोहरं भावं, पावित्र्यं, प्रेम, च पश्यति चेत्मनः मुह्यति । परं सृष्ट्यां विहितानां विभूतिरूपाणां संपूजनेन जीवस्य तृप्तिः न भवति । यतो हि विभूतिः साक्षात् भावः नास्ति । भगवतः साक्षात् गुणानां भावानां च आवश्यकता वर्तते । तेषां प्राप्त्या जीवः सन्तुष्यति । परं सौन्दर्येण, माधुर्येण च पूर्णम् इदं भगवतः रूपम् इति ज्ञातुं तस्मै भगवतः नाम दातव्यं भवति । यतो हि तस्मै रूपाय यदि भगवतः नाम न दद्मः तर्हि तत् रूपं मायाविराक्षसस्यापि भवितुम् अर्हति । कुम्भकारः एकया मृत्तिकया नैकानां प्रकाराणां पात्राणि करोति । प्रत्येकं पात्रे मृत्तिकां विना किमपि नास्ति तथापि प्रत्येकं पात्रस्य नाम भिन्नम् अस्ति । तुकारामः एतावान् श्रेष्ठः भक्तः । भगवान् सर्वव्यापी इति मत्वा सः विठोबां राम इति न उक्तवान् वा दत्तं महादेव इति न भणितवान् । जगत् भगवतः भिन्नं नास्ति । जगति दृश्यमानानि सर्वाणि रूपाणि भगवतः एव । परं रूपस्य परिचयः नाम्ना एव भवति । साक्षात्आकारितानि नैकानि रूपाणि नश्यन्ति चेत् अपि तेषां नामानि भवन्ति एव । अतः नाम देशकालतः परं विद्यते । अतः तत् रूपस्य अपेक्षया अधिकं सत्यम् । यत् सत्यं तत् श्रेष्ठं भवति एव । सत्यस्य परिचयः एव परमार्थः ।
भगवतः रूपाणि यतः आगच्छन्ति तत्रैव नाम्नः अस्तित्वम् ।
ऑगस्ट८, - समाधानम् अतरङ्गपरिष्कारस्य चिन्हम् प्रपञ्चे भवतु वा परमार्थे, पथ्यपालनम् आवश्यकम् एव । सदा ‘रामः एव कर्ता’ इति भावः मनसि जागृतः भवेत् । शोकः, चिन्ता, भयम् आशा, तृष्णा च इति सर्वाः वृत्तयः ‘रामः कर्ता’ इति भावेन नष्टाः भवन्ति । यदि ताः न नश्यन्ति तर्हि रोगः अद्यापि वर्तते इति तस्य अर्थः । अतः अद्य आरभ्य, एतस्मात् क्षणात् आरभ्य नाम्नि भवितुं संकल्पं करोतु तथा च ‘रामः कर्ता’ इति भावं दृढं धरतु । कश्चन आत्मानं ‘शोभनम्’ इति वदति तदा मनः क्षणकालपर्यन्तं प्रसीदति । तत् समाधानम् इति वक्तुं शक्नुमः वा? यस्य प्राप्त्या अन्यत् किमपि आवश्यकम् एव न भवति तत् समाधानम् । समाधानम् अन्तरङ्गपरिष्कारस्य चिन्हम् अस्ति । तत् प्राप्तुं प्रपञ्चत्यागस्य आवश्यकता न वर्तते । प्रपञ्चं त्यक्त्वा कियत् अपि दूरं गच्छेत् तस्य स्मरणं भवति एव । अतः तं सहजं त्यक्तुं नशक्नुमः । तस्य त्यागार्थं रामजपनम् एव आवश्यकम् । किमपि कर्म भगवन्नाम्नि एव करोतु । तेन समाधानं प्राप्य मनुष्यः सुखदुःखद्वन्द्वे बद्धः न भवेत् । यः स्वोद्धारं करोति सः ज्ञानी, अक्रियः वस्तुतः अज्ञानी एव । वासनायाः परिणतं स्वरूपम् इत्युक्ते बुद्धिः । या बुद्धिः बन्धने कार्यं करोति सा वास्तविकी स्वतन्त्रा बुद्धिः । बन्धनं परित्यज्य मनःपूतम् आचरति सा स्वैराचारिणी बुद्धिः । वासनानाशः इत्युक्ते देहबुद्धेः नाशः । प्रापञ्चिकः मनुष्यः विषयान् त्यक्तुं न शक्नोति । तस्य विषयप्रेम रक्ते एतावत् तद्रूपम् वर्तते यत् तत् निष्कासयितुं सूक्ष्मास्त्रम् आवश्यकम् । नाम अतिसूक्ष्मास्त्रं वर्तते । तस्य स्वीकरणेन विषयप्रेम नश्येत् । वस्तुतः मनसा अल्पं निश्चयं करोतु । सः परमात्मा बहु दयालुः वर्तते । सः निश्चयेन आत्मनः संकल्पस्य पृष्ठतः भवेत् । दोषान् अदृष्ट्वा यः अन्यान् स्वीकरोति सः दयालुः । भगवान् अत्यन्तं दयालुः । तस्य नाम्ना सह भवामः चेत् देहप्रेम नश्येत् । देहे प्रेम नश्यति चेत् संसारे अपि प्रेम न्यूनं भवति । तेन सर्वत्र रामः एव द्रष्टव्यः । प्रत्येकं जीवस्य आकर्षणं चिरन्तनसमाधानं प्रति भवति । तद् ईश्वरप्राप्त्या एव पूर्णं भवेत् । एतस्य प्राप्त्यर्थं अत्यन्तं सुलभं साधनं, सततम् ईश्वरसहवासस्य साधनं च एकं नाम एव । येन स्वहृदये नाम स्वीकृतं सः सर्वत्र परमेश्वरं पश्येत् । इतरसाधनेषु उपाधिकारणेन अल्पं वा चाञ्चल्यं वर्तते । नाम स्थिरं विद्यते । इदं भगवन्नाम प्रेम्णा स्वीकरोतु, श्रद्धया स्वीकरोतु, मनसा स्वीकरोतु ।
अखण्डं नामस्मरणे भवतु । अहो समाधानम्! ।
ऑगस्य९, - यः समाधानं प्राप्तवान् सः भाग्यवान् । यः अधिकं कामयते सः दरिद्रः । यस्य कामना न्यूना सः श्रीमान् । परमार्थी इत्युक्ते भिक्षुकः इति यः मन्यते सः वास्तविकं श्रीमत्वं न कल्पयते । सदा समाधानी सः वास्तविकः श्रीमान् । अस्माकम् आधारः धनम् । तत् अद्य विद्यते, श्वः न । अधिष्ठानं यदि दुर्बलं तर्हि भवनं दृढं कथं भवितुमर्हति? श्रीमद्भिः चिन्ता करणीया यत् श्रीमान् इत्युक्ते भगवन्तं विना न । वस्तुतः समाधानम् एव धनं, श्रीमत्वं च । तदेव भाग्यम् । तदेव ऐश्वर्यम् । यस्य अधिकं समाधानं सः आधिकः भाग्यवान् इति चिन्तनीयम् । समाधानम् आत्मना एव प्राप्तव्यम् । अन्यः दातुं न शक्नोति । वास्तविकं समाधानेन सदृशं औषधं नास्ति । तत् न प्राप्यते अतः अन्यत् स्वीकरणीयं भवति । चिन्ता नश्यति चेत् अखण्डं समाधानं शान्तिः आनन्दः च लभ्यन्ते । मल्लसमं दृश्यमानं जनम् अहं पृष्टवान् तदा सः उक्तवान्, मधुमेहेण पीडितः अहम् । अन्तः निखनितः । ममापेक्षया भवान् उत्तमः । ” तद्वत् धनेन प्राप्तस्य ऐश्वर्यस्य सा एव स्थितिः । भगवन्निष्ठायाम् एव समाधानं वर्तते । राजभवने तत् तु नास्ति एव, परं कुट्याम् अपि भवेत् एव इति न निश्चितम् । असमाधानम् इति रोगः सर्वेषां वर्तते, अतः रोगाणां सूचीतः तस्य नाम एव निष्कासितम् । साम्प्रतं जगति बहुविधा उन्नतिः दृश्यते । परं तया मनुष्याय समाधानं न प्रदत्तम् । जीवनं सुखमयं न भवतिपरं यया मनसि सततं चिन्तातोदनंभवति सा उन्नतिः कथम्? व्यक्तिः भवतु वा समाजः, एतयोः प्रगतिः कर्तुं चित्तं स्थिरम् आवश्यकम् । चित्तस्थैर्यं धर्मेण विना न प्राप्यते । साम्प्रतं तत्त्वज्ञानं केवलम् अध्ययनार्थम् । न अनुभवार्थम् । तेन वास्तविकं समाधानं न लभ्यते । वस्तुतः प्रत्येकं जीवः भगवन्तम् आर्ततया इच्छेत् । भगवन्तं विना यः विद्यते सः सुखदुखं प्राप्नोति । दुःखस्य न्यूनता एव सुखम् । राज्ञः रङ्कपर्यन्तं सर्वे किमपि इच्छन्ति याचन्ते च । तस्य अर्थः प्रत्येकं जनस्य जीवने किमपि न्यूनं विद्यते । परं कोऽपि न चिन्तयति यत्‘यदा तत् मम समीपे आसीत् तदा सुखी आसम् वा?’ एतस्य उत्तरं ‘नासम् एव’ इतिप्राप्यते । कल्पनया इदमिदानीं निर्मितायाः कुण्डलिकायाः खादनापेक्षया ह्यस्तनकुण्डलिकायाः प्रत्यक्षं खादने समाधानं वर्तते । बुद्धेः आनन्दः उपाधेः कल्पनायाः च आनन्दः वर्तते । भगवतः आनन्दः उपाधिं विना भवति । एनम् आनन्दं प्राप्तुं भगवछ्शरणं गत्वा नाम्नि एव भवितव्यम् ।
नामस्मरणयोगेन आनन्दः समाधानं च लभ्येते इत्यत्र न कापि शङ्का ।
ऑगस्ट११ – भगवन्तं विना समाधानं कुत्रापि न वर्तते । वस्तुतः यत् अस्माकं बुद्धिः स्वीकरोति, यत् वयम् अनुभवामः च तत् सत्यम् इति मननेन न कापि बाधा । तन्मध्ये कोऽपि आगच्छेत् तस्य चिन्ता न करणीया । तत् सत्यम् इति अनुभवितुम् अस्माकं बुद्धिः स्थिरा आवश्यकी । साम्प्रतं जगति सर्वत्र बुद्धिभेदः दृश्यते । अतः मनुष्यस्य बुद्धेः स्थिरं भवनं दुष्करम् । अतिसदाचारिजनस्य अपि बुद्धिः कदा भ्रमेत् इति वक्तुं न शक्नुमः । केवलं शास्त्रे कथितम् अतः सत्यम् इति अहं न वदामि । अहं कथयामि तत् सत्यम् इति वदन्तु इति अपि अहं न भणामि । भवन्तः स्वविचारेण एव निश्चिन्वन्तु यत् जीवने भवन्तः समाधानम् इच्छन्ति वा न? तत् समाधानं भगवन्तं विना क्वापि वयं प्राप्तुं न शक्नुमः इति दृढमनसा निश्चयं कुर्वन्तु । एकदा भवतां निश्चयः भवति चेत् कोऽपि अवरोद्धुं न शक्नोति । निश्चयः आवश्यकः । निश्चयस्य बलं कियत् विलक्षणम्! कस्मिञ्चित् ग्रामे कश्चित् कुत्सितः जनः निवसति स्म । विचित्रान् प्रश्नान् पृष्ट्वा उपहासं करोति स्म । इत्यत्र तस्य प्रावीण्यम् । कदाचित् कस्यचित् साधोः रसपूर्णं प्रवचनं प्रचलत् आसीत् । एषः सहसा मध्ये एव उत्थाय पृष्टवान्, हे साधो, भवतः भक्तिं दूरे स्थापयतु, देशस्य स्वातन्त्र्यं कदा मिलेत् तत् कथयतु” । साधुः शान्ततया अवदत्, तत् अहं कथयामि । परं साम्प्रतं भवतः वयः अधिकम् । भवान् जीवनस्य अन्तिमचरणे वर्तते । कालः कदापि आक्रान्तुं शक्नोति । अधुना मां कथयतु यत् प्रपञ्चस्य उपाधिः, देहस्य व्याधिः, मृत्योः आलिङ्गनं च इति एतेभ्यः स्वातन्त्र्यं प्राप्तुं भवता किमपि चिन्तनं प्रयत्नः वा कृतः अस्ति किम्?” एनं मार्मिकं प्रतिप्रश्नं श्रुत्वा उपहासकर्ता तूष्णीं जातः । परं तस्य विचारचक्रम् आरब्धम् । अपरेद्युः सः साधुना मिलितवान् पृष्टवान् च, अद्यपर्यन्तम् अहं स्वचिन्तनं न कृतवान् । परम् अधुना अहं किं करोमि इति कृपया कथयतु । ” साधुः उदतरत्, वर्षद्वयं, मौनं भूत्वा नामस्मरणं करोतु । ” तदारभ्य तेन दृढनिश्चयेन मौनं स्वीकृतम् बलेन नामस्मरणम् आरब्धं च । मौनावधिः समाप्तः । यदा साधुः मिलितः तदा अश्रुपूर्णनेत्रयुतः सः उक्तवान्, मया सर्वं प्राप्तम् । नाम्ना अहं यत् प्राप्तवान् तदपेक्षया अन्यत् सर्वं व्यर्थम् । ” निश्चयपूर्वकं नामस्मरणस्य एतादृशं विलक्षणं सामर्थ्यं विद्यते ।
नाम्नि भवतु चित्तम् । तदेव मन्यतां सत्यम् । मनसि भवतु इदं निश्चयम् । तेन भवेत् मनः निर्भ्रान्तम् ॥
ऑगस्ट१3 – देहभोगाः तथा च आनन्दः स्वहितार्थम् अन्येषां साहाय्यं करणीयम् इति भवतः आवश्यकम् । भवद्भिः न वक्तव्यं यत् भगवता एषः एतादृश्याम् अवस्थायां स्थापितः अस्ति । तस्य विरुद्धं कथं गन्तव्यम्? परमात्मनः विरुद्धं भवान् गन्तुं न शक्नोति एव । परं स्वहितार्थं स्वदेहबुद्धिं निर्वापयितुम् अन्येषां साहाय्यकरणम् आवश्यकम् । यथा बालेभ्यः उपायनं दत्तं चेत् तेषां गृहजनानां पर्यन्तं तत् गच्छति तथैव आर्तजनसाहाय्यं परमात्मानं प्रति प्राप्नोति । परमात्मना प्रेषितेषु व्याधिषु आपत्सु च आनन्दं मन्यताम् । कस्यचित् रुग्णस्य सेवां कुर्वन्तु इति अहं कथयामि चेत् भवद्भिः आनन्देन क्रियते । सद्गुरुणा कथितं कार्यम् इति मत्वा आनन्दः एव अनुभूयते । परमात्मनः इच्छया आगन्तृभिः व्याधिभिः आपदाभिः च किमर्थम् आनन्दः न भवेत्? परं परमात्मा आत्मनः सर्वथा हितकर्ता एव इति भवतः दृढविश्वासः क्व अस्ति? परमात्मना प्रेषिताः आपदः । ताः तम् एव ‘दूरीकरोतु’ इति कथं कथनीयम्? अन्यच्च भोगः तु भोक्तव्यः एव । अधुना न भुञ्ज्महे तर्हि अनन्तरं भुञ्जनीयं भविष्यति एव । देहः सुस्थित्यां भवति चेत् तं विस्मरामः इति भवन्तः कथयन्ति । परं भवन्तः कदापि देहं न विस्मरन्ति । सामान्यतः तस्य स्मरणं भवति एव । परं यदा पीडा भवति तदा तत् विशेषत्वेन भवति । व्याधिः तथा च तस्य पीडा भिन्नं वर्तते । अतः व्याधिः आगच्छति चेत् अपि मनुष्यः आनन्दे भवितुम् अर्हति । यस्य समीपे भगवान् वर्तते सः आनन्देन जीवितुं शक्नोति । अतः यः आनन्देन जीवितुम् इच्छति तेन नामजपः करणीयः भगवदनुसन्धाने भवितव्यम् च । अनुसन्धानं किम् इति उच्यते? उत्थाने, उपवेशने, जपने, पठने, जल्पने, विनोदे च इति एतासु सर्वासु क्रियासु भगवता सह सम्बन्धः तस्य सन्दर्भः च भवेत् इति एव अनुसन्धानम् । भगवतः अनुसन्धानम् आत्मानं भगवन्तं प्रति नयति । ‘अहम् अनुसन्धानं रक्षयामि,’ इति मनसः निश्चयः करणीयः । जगतः प्रवाहे विपरीतं तरणम् इत्युक्ते अनुसन्धानम्अनुवर्तनीयम् । भगवतः भूत्वा प्रपञ्चः करणीयः इति कला एव । भक्तः एनां कलां सम्यग् अवगच्छति अतः भगवन्मयः भूत्वा सर्वजगति आनन्दम् एव अनुभवति ।
देहस्य सुखदुःखानि प्रारब्धे स्थापयामः तथा च नामस्मरणं प्रयत्नेन प्रेम्णा कुर्मः ।
ऑगस्ट१४, शाश्वदानन्दः केवलं भगवत्समीपे जगति प्रत्येकं जनः स्वयम् आनन्दं प्राप्तुं प्रयतते । किं बहुना आनन्दं नेच्छामि इति एतादृशः वक्ता दुर्लभः । इत्युक्ते प्रत्येकं जनः आनन्दम् इच्छति एव । तर्हि एतावता परिश्रमेण अपि सः आनन्दं समाधानं च किमर्थं न प्राप्नोति? अस्य कारणं वर्तते यत् आनन्दः एकं परमेश्वरं विहाय कुत्रापि न उपलभ्यते । तेन तस्य सर्वे प्रयत्नाः व्यर्थाः । तदानन्दार्थं ‘भगवन्तम् अहमिच्छामि’ इति मनसा मन्तव्यम् । तदर्थम् अस्माभिः सर्वैः नाम जपनीयम् । अस्माकं मनः भगवत्चरणाभ्यां दृढं योजनीयम् तथा च देहः प्रारब्धप्रवाहे त्यक्तव्यः । क्वचित् सः सुखे भवेत् वा क्वचित् दुःखे । क्वचित् सः बहूनि दिनानि सम्यक् यापयेत् क्वचित् निमज्जमानः भवेत् । परं कस्याम् अपि अवस्थायां तस्य आनन्दः स्थिरः भवेत् । भवन्तः सर्वे उत्तमाः जनाः सन्ति, भगवन्नाम जपन्ति च इति अहं जानामि । परं नाम्नः प्रेम भवत्सु न वर्तते इति दृष्ट्वा महत् दुःखं भवति । भवन्तः चिन्तयन्तु यत् नामजपने किम् अवरोधं करोति? परिवेशस्य अवरोधः वा? परम् अत्र मन्दिरे निवसन्तॄणां कृते परिवेशस्य अवरोधः न भवितुम् अर्हति । भवन्तः अत्र आनन्देन निवसन्तु । भुञ्जन्ताम् । ‘राम राम’ इति वदन्तु, इति एव मया कथ्यते । परम् एते जनाः अपि यदि नामजपने परिवेशस्य अवरोधः वर्तते इति वदन्ति चेत् बहिस्थजनान् अहं किं वक्तुं शक्नोमि? वस्तुतः मनुष्यः न आनन्दार्थम्, अपि तु वस्तुप्राप्त्यर्थं जीवति । वस्तु नश्वरम् अतः तस्य रूपम् अशाश्वतम् । अर्थात् तस्मात् प्राप्तः आनन्दः अपि अशाश्वतः एव । वास्तविकः आनन्दः न वस्तुनि अपितु तस्मात् परं विद्यते । अस्माभिः भगवान् आनन्दः याचनीयः । सः वस्तु आनन्दं च ददाति चेत् उत्तमम् । परं शाश्वतः आनन्दः वस्तु विहाय एव भवति । कस्मिञ्श्चित् स्थानके बीजफलानि उत्तमानि लभ्यन्ते इति मत्वा तान् क्रेतुं कश्चन कियन्तं समयं यापयेत्? यावत्पर्यन्तं यानं तत्र तिष्ठति तावत्पर्यन्तमेव । तद्वत् आनन्दमार्गे अवरोधनं कुर्वातां वस्तूनाम्अनुधावनं न समीचीनम् । आनन्देन सह योजयितॄणां विषये वयं चिन्तयामः । नामस्मरणे भवामः । अद्य यत् अभवत् तद्विषये न दुःखं करणीयम् । श्वः किं भविष्यति तद्विषये चिन्ता न करणीया । अद्य अस्माकं कर्तव्यम् आनन्देन करणीयम् ।
समयः प्राप्यते चेत् व्यर्थं जल्पने न योजनीयः नामस्मरणे योजनीयः ।
ऑगस्ट १५ – वृत्तेः समाधानं हि भगवत्कृपायाः चिह्नम् । अस्माकं देहः पञ्चभूतानां भवति । अस्मिन् ‘कोऽहम्’ इति द्रष्टव्यम् । यत् नश्यति तत् कदापि अहं भवितुं न अर्हति । तेन पञ्चभूतानि‘अहं’ न इति निश्चितम् । यः शाश्वतः सः सच्चिदानन्दः । मया भगवत्स्वरूपेण भवितव्यम् इति प्रत्येकं जनस्य सुप्ता वा व्यक्ता मनीषा वर्तते । स्वल्पः वा ‘अहं’ इति भवति अतः एतादृशं भाव्यते । भगवत्स्वरूपम् आनन्दमयं वर्तते । वयं सर्वे आनन्दे भवितुम् इच्छामः । अहम् आनन्दात् विभक्तः भवामि चेत् कुत्रचित् प्रमादः जातः इति मन्यन्ताम् । अपूर्णां सृष्टिं पूर्णां कर्तुं भगवता स्वांशरूपेण मनुष्यस्य उत्पत्तिः कृता । आत्मनः आनन्दे विघ्नकर्तॄन् विषयान् वयं जानीमः चेत् आनन्दे अवरोधः न भवेत् । अस्मिन् मार्गे चोराः विद्यन्ते इति यदि वयं जानीमः तर्हि सिद्धतां कृत्त्वा एव वयं गच्छामः । यः भक्तः जातः सः विघ्नैः न पीड्यते । भगवतः कार्यम् इति मत्त्वा यदि कुर्मः तर्हि पीडा न बाधते । आनन्दस्य उत्तमः सङ्ग्रहः भगवतः समीपे वर्तते । नाटके राज्ञः अभिनयं कर्तुकामः नटः यथा वास्तवे ‘अहं भिक्षुकः’ इति अवगम्य कार्यं करोति तथा आत्मनः सत्स्वरूपं ज्ञात्वा प्रपञ्चः करणीयः । नश्यत्सु वस्तुषु वयं स्निह्यामः । लघुलघुषु विषयेषु अभिमानं धरामः । अत्रैव वयं प्रमादान् कुर्मः । यत् अहं नास्मि तदेव भवितुम् इच्छामि । तत्रैव सुखं पश्यामः । कामधेनोः समीपे वयं विषयान् कामयामहे । अनन्तरं शोचामः । तेन कः लाभः? यः परमार्थस्य ज्ञाता सः एव ज्ञाता । परमार्थः इत्युक्ते अजागलत्वं न । नैकान् बुद्धिमतः विद्वज्जनान्आकर्ष्टुम् इच्छामः चेत् बालिशत्वं भवितुं न अर्हति । विद्वज्जनाः वेदान्तं कठिनं कृत्त्वा जगत् वञ्चयन्ति । तेन सामान्यजनाः वेदान्तम् अस्माकं कृते नास्ति इति चिन्तयन्ति । परम् इदम् अयोग्यम् । वेदान्तः सर्वेषां कृते, मनुष्यमात्राणां कृते वर्तते । वेदान्तं विना मनुष्यः जीवितुं न शक्नोति । गृहस्य छदेः अधः यथा सर्वे लघवः प्रकोष्ठाः विद्यन्ते तथा वेदान्ते सर्वाणि शास्त्राणि निहितानि भवन्ति । शास्त्राणां मार्गाः चित्तवृत्तेः विभ्रमणं वारयितुं सन्ति । ते वृत्तिं स्थिरीकुर्वन्ति । तत्र नाम अपि संयोज्यते चेत् भगवत्पर्यन्तं शृङ्खला निर्मीयते । वयं व्यवहारार्थं न अपि तु भगवतः कृते जन्म प्राप्तवन्तः । अतः किञ्चित्वस्तु नास्ति इति विचिन्त्य दुःखम्अकृत्त्वा अन्यत् वस्तु वर्तते इति विचिन्त्य समाधाने भवामः । समाधानं केवलं भगवत्समीपे प्राप्यते । तत् प्राप्तुं कस्यापि अवरोधः भवितुम् न अर्हति ।
वृत्तेः समाधानं भगवत्कृपायाः चिह्नम् । तदर्थं भगवतः सततम् अनुसन्धानम् आवश्यकम् ।
ऑगस्ट१६, - नाम्ना विना केनापि वास्तविकं समाधानं न लभ्यते । मनुष्यः प्रमादं करोति, ‘देव, क्षमां कुरु’ इति वदति च । परं पुनः पुनः प्रमादान् अनुवर्तयति एव । न इदं योग्यम् । एतेन देवेन सः न क्षाम्यते । ‘देव, क्षमां कुरु’ इति वचनम् एतादृशं सामान्यं जातम् अस्ति, यत् तस्य अर्थम् एव वयं न जानीमः । यदि मनुष्यः तस्य अर्थम् अज्ञास्यत् तर्हि पुनः पुनः प्रमादान् न अकरिष्यत् । अनया पद्धत्या वयं बुद्धिबलेन परमेश्वरं वञ्चयितुं न शक्नुमः । बुद्धिबलेन वयं मनुष्यम् अपि वञ्चयितुं न शक्नुमः तर्हि परमेश्वरं कथं वञ्चयितुं शक्नुमः? बुद्धेः साहाय्येन परमेश्वरं प्राप्स्यामि इति कथनं कदापि न योग्यम् । अतः शरणगमनात् विना मार्गः न विद्यते । तदेव भवन्तः कुर्वन्तु । समाधानं परिस्थितिं न अवलम्बते । कियन्त्यपि पुराणानि पठितानि, ग्रन्थाः मुखोद्गताः, प्रवचनानि श्रुतानि च तथापि मनः समाधानं प्राप्तुं न शक्नोति । तदनुसारम् अल्पं वा आचरणम् आवश्यकम् । नाम्नि एव भवितव्यम् । नाम्ना विना अन्येन केनापि पूर्णता भवितुम् न अर्हति । नाम्ना विना वास्तविकं समाधानं न लभ्यते । अतः भवन्तः भगवन्तम् अनन्यभावेन शरणं गत्वा तस्य नाम सरसं जपन्तु । सततं जपन्तु । कश्चित् दरिद्रः ‘वारकरि’संज्ञकः पण्ढरपुरं गच्छन् आसीत् । महता कष्टेन सः पद्भ्याम् एव गच्छन् आसीत् । मार्गे एकं रेलमार्गप्रवेशद्वारं प्राप्तम् । तत् पिहितम् आसीत् । अतः सः तत्र संस्थितः । सहसा तत्र एकं यानम् आगतम् । अन्तः कश्चन स्थूलः श्रीमान् च जनः उपविष्टः आसीत् । सः अपि पण्ढरपुरं गच्छन् आसीत् । वारकरिसंज्ञकस्य मनसि आगतम्, हे देव, अहं भवतः एतादृशः निस्सीमः भक्तः । परं मम एषा अवस्था । एषः लुण्ठकः वणिक् । तस्मै सर्वम् ऐश्वर्यं दत्त्वा तस्य यात्रां सुखेन कारयति । अहो भवतः न्यायः!” एतस्मिन् अन्तरे एव यानम् उद्घाट्य द्वौ सेवकौ तं श्रीमन्तं जनं तस्य हस्तौ स्वस्कन्धयोः संस्थाप्य अवतारितवन्तौ । सः पङ्गुः आसीत् । वारकरिसंज्ञकः चिन्तितवान् यत् पङ्गुतया यानसुखेन पण्ढरपुरगमनापेक्षया दरिद्रावस्थायां पद्भ्यां गमनं श्रेयस्करम् । आत्मनः समीपे यत् नास्ति तत् यस्य समीपे वर्तते सः सुखी इति वयं चिन्तयामः । परं तथा न भवति । तस्य दुःखं वयं न जानीमः । सः यदि आत्मानं सुखी मन्यते तर्हि सः सुरामत्तवत् मत्तः एव इति मन्यन्ताम् । विद्यमानायां परिस्थित्यां समाधानम् एव विषयाणां निग्रहणं शिथिलीकर्तुम् उपायः । स्वपरिवेशः परमात्मनः इच्छया आगतः वर्तते इति वयं चिन्तयामः । तेन सुखदुःखयोः आवेगः मन्दः भवेत् ।
यस्य समाधानं भगवति अवलम्ब्यते तस्य समाधानं कस्याञ्श्चित् अपि परिस्थित्यां स्थिरं भवति । ।
ऑगस्ट १७ - निष्ठायाः महान् परिणामः विद्यते । भगवति पूर्णां निष्ठां संस्थाप्य प्रपञ्चे स्वकर्तव्यानि सम्यक् कुर्मः चेत् दुःखस्य प्रसङ्गः न उद्भवति । अस्माकं प्रदेशे प्रतिसप्ताहं विपणिः वर्तते । कौचित् दम्पती एतादृशं विपणिं गतवन्तौ । सायङ्कालः जातः । तौ द्वौ परस्परं वार्तां कृतवन्तौ, बहु विलम्बः जातः । रात्रौ न गच्छावः । अद्य अत्रैव उशित्वा श्वः प्रभाते गमिष्यावः । ” तयोः संभाषणं द्वौ धूर्तौ लुण्ठकौ श्रुतवन्तौ । तौ उक्तवन्तौ, भवन्तौ किमर्थं बिभ्यतः?आवां भवद्भ्यां सह स्वः किल । भवद्योः ग्रामतः अग्रिमं ग्रामं गन्तुकामौ । श्रीरामसाक्ष्या आवां सत्यं कथयावः । वयं संभूय गमिष्यामः । ” दम्पती तौ दुर्जनौ इति न चिन्तितवन्तौ । अग्रिमे मार्गे यदा ते कञ्चित् खातं गतवन्तः तदा तौ लुण्ठकौ तं पुरुषं वृक्षे बद्धवन्तौ । महिलायाः आभूषणानि अपहृतवन्तौ । यदा तस्याः शाटिकां स्पृष्टवन्तौ तदा सा श्रीरामम् आर्ततया आहूतवती, हे राम, एतयोः विश्वस्य अहम् आगतवती । भवतः साक्षम् एताभ्याम् उक्तम् । भवतः नाम्ना तौ शपथवचनम् उक्तवन्तौ । तेन वचनेन अहम् आगता । अधुना भवान् एव त्राता । ” एतस्मिन् अन्तरे भुशुण्डिध्वनिः आगतः । द्वौ सैनिकौ धावन्तौ आगतवन्तौ । लुण्ठकौ पलायितौ । सैनिकौ दम्पद्भ्यां तयोः वस्तूनि आभूषणानि च दत्तवन्तौ । तयोः गृहं प्रापितवन्तौ च । गृहं प्राप्य सा महिला उक्तवती, तथैव मा गच्छताम् । गुडं जलं च गृह्णीताम् । ” तौ उक्तवन्तौ, मास्तु । बहु कार्याणि सन्ति । ” सा उक्तवती, किञ्चित् तिष्ठताम् । अचिरात् एव आनयामि । ” सा अन्तः गतवती । तस्मिन् अन्तरे एव तौ गुप्तौ जातौ । एतादृशी निष्ठा आवश्यकी । अद्यपर्यन्तं कियत्सु जनेषु एतादृशाः समरप्रसङ्गाः आगताः स्युः! परं तेषां निष्ठया तेभ्यः ते पारं गतवन्तः । सगुणभक्तेः महान् लाभः यत् यदा वयं श्रीरामचरणयोः मस्तकं स्थापयामः तदा अस्माकं भावनाः तरङ्गायन्ते । एतस्मिन् अन्तरे रामः अस्माभिः कथनीयः, राम, भवद्विना मम कोऽपि नास्ति । त्वदीयः इति मत्वा मां स्वीकरोतु । अहं दुर्गुणी स्याम् । परं मां न त्यजतु । शरणागतः अस्मि । ” भगवच्छ्रद्धया उत्पन्नः धीरः अस्माकं स्वभावे आवश्यकः । यः भगवति निष्ठां संस्थापयति तस्मिन् सर्वस्य जगतः निष्ठा दृढीभवेत् । जनाः देवम् अपि अपसार्य एनं पुरुषं भजन्ति । निष्ठायाः महान् परिणामः विद्यते ।
भगवति पूर्णां निष्ठां संस्थाप्य प्रपञ्चं कुर्वन्तु । निश्चयेन सुखिनः भविष्यन्ति ।
ऑगस्ट१९ – वयं देवस्य आवश्यकतां तीव्रतया अनुभवामः किम्? कश्चित्जनः प्रवासार्थं प्रस्थितः । सर्वाणि वस्तूनि तेन स्वीकृतानि । तमाखुयुक्तं ताम्बूलं सः खादति स्म । तानि वस्तूनि अपि तेन स्वीकृतानि । यानम् आरब्धम् । किञ्चित् कालानन्तरं ताम्बूलं खादितुं सः वस्तूनि निष्कासितवान् । तदा तेन अवगतं यत् सुधाकरञ्डकः विस्मृतः । पुनः पुनः सः स्यूतम् अन्विष्टवान् । तस्य मनः निरन्तरं (क्रन्दते)चुटपुटायते स्म । कश्चित् वस्तुपतनस्य ध्वनिः आगतः चेत् सुधाकरण्डकस्य पतनम् इति सः अचिन्तयत् । कश्चन तेन सह अभाषत चेत् सः ‘सुधाम् इच्छति किम्?’ इति पृच्छति इति सः अमन्यत । यस्मिन् विषय़े वयं स्निह्यामः तं विषय़ं वयं तीव्रतया इच्छामः । यदि तत् वस्तु न विद्यते तर्हि मनः सततं दुःखायते । तद्वत् ईश्वरस्य विषये भवति किम्? गृहे विद्यमानानि सर्वाणि वस्तूनि वयम् अस्माकम् इति वदामः । पत्नी, पुत्राः अन्यानि सर्वाणि वस्तूनि च इत्येतेषां विषये वयं सर्वं विवरणं जानीमः । परं देवगृहे स्थितस्य देवस्य विषये वयम् आत्मीयत्वम् अनुभवामः किम्? एतादृशी यदि अस्माकं स्थितिः तर्हिः देवस्य प्रेम मनसि कथं भवेत्? यदि देवे प्रेम इच्छामः तर्हि जगतः आशा त्यक्तव्या । व्यवहारः न त्यक्तव्यः । परम्अस्माकं विषयासक्ता वृत्तिः भगवन्मार्गम् अवरुणद्धि । अतः सा भगवतासह योजनीया । भगवति सत्या रुचिः उत्पादनीया । देवं विना सर्वम् अवरुध्यते इति भाव्यम् । येन सह वयं वासं कुर्मः तस्यैव प्रेम भवति । यस्य प्रेम भवति तमेव वयं तीव्रतया इच्छामः । वयम् अनुभवामः यत् सहवासे कियत् प्रेम वर्तते । प्रवासे कश्चन सुजनः मिलति । तेन सह वयं वार्तां कुर्मः, उपविशामः च । तस्मिन् प्रेम भवति । स्वस्थाने सः अवतरति चेत् वयं वदामः,” भवता सह वासे समयः आनन्देन गतः । भवता सहवासः अधिकः अभविष्यत् तर्हि सम्यक् अभविष्यत् । अल्पसहवासेन एतादृशं प्रेम वर्तते चेत् भगवतः निरन्तरसहवासेन तस्मिन् कियत् प्रेम वयं प्राप्स्यामः । अतः तस्य नाम्ना सहसततं वासः भवेत् । भगवता सहवासे स्थातव्यम् इत्युक्ते ‘अहंभावं’ विस्मृत्य कर्ता कारयिता च सः एव इति भावः दृढः करणीयः । यत् यत् कर्म भवति तत् तस्य कृपया एव इति मन्तव्यम् । भवतः आर्तंम् आह्वानं श्रुत्वा सः आनन्देन आगच्छेत् । नामजपेन किं भवति इति मनसि न आनयन्तु । नामजपे कियती शक्तिः वर्तते तत् नामजपेन एव पश्यन्तु । यः नामजपे आसक्तः सः भगवन्तम् आत्मीयं करोति इत्यत्र न शङ्का वर्तते ।
नामस्मरणं कुर्वन् मनुष्यः क्रमेण प्रथमं मुमुक्षुः अनन्तरं साधकः अग्रे सिद्धः भवति ।
ऑगस्ट२१ – सुखम् आत्मनि एव निर्भरः । सुखम् आत्मनः एव उत्पद्यते । तत् न जगतः प्राप्नोति । मनुष्यः जगतः सुखं प्राप्तुं प्रयतते,परं सः निष्फलः भवति । अस्य कारणं वर्तते यत् सुखं बाह्यतः न प्राप्तव्यं अपि तु स्वतः एव प्राप्तव्यम् । यावत्पर्यन्तं वयं स्मः तावत्पर्यन्तं जगत् विद्यते, इत्यर्थस्य काचित् लोकोक्तिः वर्तते । जगतः अस्तित्वम् आत्मनः अस्तित्वे एव अवलम्बितम् । चिन्तयन्तु, अस्माकं गृहे विद्युद्दीपाः वर्तन्ते । पिञ्जनोदनात् एव ते प्रकाशन्ते । परं विद्युद्गृहे एव दोषः भवति चेत् पिञ्जनोदनादपि दीपाः न प्रकाशेरन् । उगमस्थाने विद्युद्गृहे यावत्पर्यन्तं दोषनिराकरणं न भवति, तावत्पर्यन्तं गृहदीपानां समीकरणेन न लाभः । तद्वत्यावत् आत्मनि स्वदोषपरिहरणं न भवति तावत्पर्यन्तं बाह्यतः सुखं न शक्यम् । समुद्रः पृथिव्यां सर्वदूरपर्यन्तं प्रसृतः परं क्वचित् रुचिः अल्पलवणा इति भवति किम्? तद्वत् विश्वे कुत्रापि सुखसम्बन्धिनः अनुभवाः समानाः । इत्युक्ते सुखं न जगति परं स्वात्मनि एव अवलम्बितम् । स्वपरिष्करणं एव तस्य उपायः । इदं कथं करणीयम्? ईश्वरेण मनुष्याय सम्यगसम्यगवगमनस्य बुद्धिः तु दत्ता वर्तते । सा अन्येभ्यः प्राणिभ्यः नास्ति । इमां बुद्धिम् उपयुज्य अस्माभिः दुष्कृतयः अकर्तव्याः । तथा च सुकृतयः करणीयाः । दुष्कृत्यकरणं सर्वैः शक्यम् । यतो हि तत्र कृतेःअकरणम् एव । इदं कृतिकरणस्यापेक्षया सरलम् । उत्तमकृतिकरणं सर्वैः न शक्यम् । सारांशः यत् सुखी भवितुं मार्गः इत्युक्ते विमृश्य दुष्कृतयः न करणीयाः सुकृतयः शक्त्यनुसारं करणीयाः च । तथा अनयोः करणसमये भगवान् स्मरणीयः । एतेन एव सुखं प्राप्तुं शक्नुमः । जगतः सुखं प्राप्यते इति तु मिथ्या कल्पना । तुज आहे तुजपाशी । परि तू जागा चुकलाशी ॥ ( भवतः भवत्समीपे एव वर्तते । परं भवान् अन्यत् स्थानम् आगतः । ) वयं जगतः इच्छानुसारं न व्यवहरामः, न तु भगवतः इच्छानुसारम् । अतः जगता अस्माकम् इच्छानुसारं व्यवहर्तव्यम् इति कथं वदामः? गीतायां भगवान् वदति ‘अहमेव मनः’ । भगवन्तं विहाय मनसः सिद्धता न भवितुमर्हति । अतः भगवान् दृढः निग्रहणीयः । अस्माभिः समाधानेन भवितव्यम् । भगवतः सदा सर्वकालं च स्मरणं करणीयम् । वृत्तिः स्थिरा कर्तव्या । स्थिरां वृत्तिं समाधानम् अनुधावति ।
अस्मभ्यम् इच्छानुसारं वस्तूनि दातव्यानि इति न भगवतः कृपा परं विद्यमानायां परिस्थित्यां समाधानरक्षणमेव तस्य सत्या कृपा ।
ऑगस्ट२२, - समाधानम् एव परमेश्वरस्य वास्तवम् उपायनम् । प्रत्येकं जनः चिन्तयति, ‘अहं कस्यापि निन्दां न करोमि । धर्मेण व्यवहरामि । तथापि अहं दुःखी । परं दुर्जनाः सुखिनः दृश्यन्ते । इदं कथम्?’ कियान् अपि सात्त्विकः जनः भवेत् तस्य मनसि एतत् चिन्तनम् उन्मिषति एव । यः नाम अस्पृश्यम् इव चिन्तयति सः सुखी, तथा च नाम येन निरन्तरं कण्ठे धृतं सः दुःखी इति दृष्ट्वा भगवान् न्यायी इति कथं वक्तव्यम् इति बहूनां मनसि शङ्का वर्तते । परम् अस्य रहस्यं यदि वयं पश्यामः तर्हि द्रष्टुं शक्नुमः यत् ये सुखिनः दृश्यन्ते ते अन्तरङ्गे दुःखे निमग्नाः सन्ति । विषयाः तैः बहवः प्राप्ताः । परं तेन मनसः शान्तिः प्राप्ता चेत् लाभाय । शृङ्गाटकौ द्वौ मार्गौ भवतः । एकः उत्तमः परम् अस्माकं ग्रामं न नयति । अन्यः कण्टकाकीर्णः अस्माकं ग्रामं नयति । तर्हि केन मार्गेण वयं गच्छामः? गीतायां भगवता गन्तॄणां जनानां द्वौ वर्गौ कथितौ । केचन साङ्ख्यमार्गिणः । अन्ये कर्मयोगिनः । येषां स्वभावतः वासना न्यूना ये इन्द्रियाणि नियन्ते, जन्मतः ये सिद्धाः च ते साङ्ख्यमार्गिणः । येषां वासनाः बह्व्यः, ये इन्द्रियाधीनाः परं भगवान् वर्तते इति मन्यन्ते च ते अस्मत्सदृशाः सामान्यजनाः, कर्मयोगिनः । साङ्ख्यानां साधनामार्गः सूक्ष्मः उच्चस्तरीयः च । अस्माकं साधनामार्गः स्थूलः, सरलः, सुखकारकः च । साङ्ख्यः भगवन्तं शीघ्रं प्राप्नोति । वयं क्रमेण गच्छामः । अतः सामान्यजनानां मार्गः कः? सः मार्गः एतादृशः – यावत्पर्यन्तं वासना विद्यते तावत्पर्यन्तं योग्यमार्गेण तां तृप्तां कर्तुं प्रयत्नाः करणीयाः । परं सृष्ट्यां सर्वाः घटनाः ईश्वरेच्छया प्रवर्तन्ते अतः अस्माकं प्रयत्नानां फलम् अपि ईश्वरे अवलम्बितं विद्यते इति मनसि निधाय समाधानेन भवितव्यम् । दशजनान् यदि वयं तेषाम् असमाधानस्य कारणं पृच्छामः तर्हि ते भिन्नभिन्नकारणानि कथयन्ति । अनेन वयम् अवगच्छामः यत् जगति किमपि वस्तु समाधानं न ददाति । समाधानस्य शास्त्रं भिन्नम् एव वर्तते । तत् प्रपञ्चात् शिक्षितुं न शक्नुमः । अत्यल्पवस्तुयुताद् जनात् अत्यधिकवस्तुयुतजनपर्यन्तं प्रत्येकं जनस्य समीपे किमपि न्यूनं विद्यते एव । परं विचित्रं यत् प्रत्येकं जनः चिन्तयति यत् मम समीपे यत् न विद्यते तस्मिन् एव समाधानं विद्यते । अतः तस्य दुःखं निरन्तरं भवति । भगवन्तं विना वैभवम् ऐश्वर्यं वा कदापि सुखं समाधानं च दातुं न शक्नोति । समाधानम् एव परमेश्वरस्य वास्तवम् उपायनम् । तत् प्राप्तुम् उपायः विद्यते भगवतः स्मरणम् इति ।
प्रत्येकं जनाय तस्य आवश्यकतानुरूपम् एव भगवान् यच्छति । अतः यत् वर्तते तेन एव समाधानं प्राप्तव्यम् ।
ऑगस्ट२3,- पठनस्य आवश्यकता मर्यादा च । धर्मग्रन्थान् सत्पुरुषाणां ग्रन्थान् च वयं बहु प्रेम्णा पठामः कथयामः च । परं तथा कृतिं न कुर्मः अतः देवस्य अप्रियाः भवामः । सत्पुरुषाणां ग्रन्थाः प्रियजनपत्रसमं मनसा पठनीयाः । एषः ग्रन्थः मम कृते एव कथितः अस्ति, सः व्यवहारे आनेतुं कथितः अस्ति च इति मत्वा पठनीयः । ग्रन्थलेखकस्य तीव्रा इच्छा वर्तते यत् तदनुसारं जनाः आचरेयुः । तट्टीकापठनसमये मूलग्रन्थे विद्यमानः मतितार्थः अवधातव्यः । अनुवादकर्ता स्वस्य किमपि तत्र योजयति, अतः मूलग्रन्थपठनं सर्वदा उत्तमम् । सत्पुरुषाणां ग्रन्थाः मातृदुग्धवत् तथा च अनुवादाः तु धात्रीदुग्धवत् सन्ति । इदं भिन्नत्वम् अवधातव्यम् । नैकेषां कृते पठनं व्यसनम् एव भवति । वृथा पठने न कोऽपि अर्थः । केवलं पठनेन न लाभः । अधिकं पठामः चेत् संभ्रमः एव वर्धते । कः पठेत्? यस्य पाचनसामर्थ्यं विद्यते सः पठेत् । अन्यैः अधिकं न पठनीयम् । तत्र अपि वृत्तपत्रपठने समययापनम् इत्युक्ते स्वयमेव जगतः गृहे आह्वानम् । पठितस्य मननम् आवश्यकम् । मननेन तत् रक्तगतं भवति । पठनं साधना च युगपत् प्रचलेताम् । तेन साधकः पठनस्य वास्तवम् अर्थं जानाति, आनन्दम् अनुभवति च । साधना पठनं च यदि युगपत् भवतः तर्हि साधकः न कदापि पृष्ठतः भवेत् । उपनिषदः, गीता, योगवासिष्ठम् इत्यादीनां वेदान्तपूर्णानां ग्रन्थानां पठनम् अवगमनं च आत्मनः उपासनायै लाभाय । गीता तु सर्वग्रन्थानां माता । प्रवृत्तिनिवृत्त्योः मध्ये कर्मयोगकर्मसंन्यासयोः मध्ये च समन्वयार्थं गीता कथिता इति मनसि निधाय सा पठनीया । वेदान्तस्य आचरणेन विना न लाभः । हितकारकविषयः आचरणीयः एव । चिन्तयन्तु, वयं ग्रामान्तरं गच्छामः । मार्गः सुदीर्घः । मार्गे कश्चन ज्ञाता मिलति । सः अजमार्गं दर्शयति । तेन वयं शीघ्रं प्राप्स्यामः । तथैव उपासनायां स्वदोषाः स्वेन न ज्ञायन्ते । आत्मनः मनः संयतं न विद्यते । तदा वयं गीतापठनेन स्वदोषान् अवगन्तुं शक्नुमः । यदि स्वदोषान् जानीमः तर्हि शीघ्रं परिष्करणम् अपि शक्यम् ।
धर्मग्रन्थं किमर्थं पठामः? साध्यं साधनं च ज्ञात्वा तदनुसारं कृतिं कर्तुम् ।
ऑगस्ट२४ – यत्र सत्पुरुषाः तत्र समाधानं भवति एव । केचन सत्पुरुषाः बाह्यतः अज्ञानिनः परम् अन्तरङ्गतः ज्ञानिनः सन्ति । वास्तवं यत् सत्पुरुषान् बहुधा बाह्यतः अवगन्तुं न शक्नुमः । सत्पुरुषाणाम् आत्मीयाः भूत्वा, तैः कथितां साधनां कृत्वा वा तान् सम्यग् अवगन्तुं शक्नुमः । मनसः विषयान् त्यजामः चेत् तान् परिचिनोतुं शक्नुमः । आत्मनः दोषाः यावत्पर्यन्तं न नश्यन्ति; अन्येषां दोषदर्शनं न समाप्नोति; तावत्पर्यन्तं सत्पुरुषाणां पूर्णं ज्ञानं न भवितुम् अर्हति । सत्पुरुषाणां दोषदर्शनम् इत्युक्ते स्वदोषोद्घाटनमिव । सत्पुरुषः हरितचम्पकपुष्पवत् वर्तते । सुन्दरं गन्धं तु आयाति परं हरितपर्णेषु पुष्पं न दृश्यते । तद्वत् यत्र सत्पुरुषाः सन्ति तत्र आनन्दः समाधानं च विद्येते परं ते सामान्यजनैः सदृशं व्यवहरन्ति दृश्यन्ते च अतः, तान् अवगन्तुं न शक्नुमः । वेदान्तं वयं केवलं जनान् कथयामः परं सत्पुरुषाः तम् आचरन्ति । दुर्धरेषु प्रसङ्गेषु ते न विचलन्ति । सत्पुरुषाः विगतसंशयाः सन्ति परं वयं सदा संशये भवामः । तेन ते समाधानं प्राप्नुवन्ति । वयं तु असमाधाने पतामः । संशयं नाशयितुं वृत्तिः परिवर्तनीया । सत्पुरुषेभ्यः यत् रोचते तत् अस्मभ्यम् अपि यदि रोचते तर्हि तदेव तेषां समागमः । ‘अहं करोमि’ इति भावः बन्धनस्य कारणम् । तस्य नाशः इत्युक्ते गुरोः भवितव्यम् । कदाचित् प्रमदति कदाचित् समीचीनं करोति सः साधकः । यः सदा समीचीनमेव करोति सः सिद्धः । केवलम् इन्द्रियदमनं न सर्वस्वम् । यस्य कृते तत् वर्तते सः अवधातव्यः । यस्य निरन्तरं किमपि करणस्य एव अभ्यासः तेन किञ्चित् कालं किमपि न करणीयम् । अनन्तरं भगवतः अनुसन्धानं पठनीयम् । यदि वयं परीक्षायाम् अनुत्तीर्णाः भवामः तर्हि पुनः लिखामः । परं भगवतः अनुसन्धानप्रयत्ने यशः न लभते चेत् तत् त्यजामः इति न वरम् । ईश्वरस्य वचनं पितृवचनसदृशम् । तत्र न किमपि देयादेयम् । परं सत्पुरुषाः मातृसदृशाः । मातृसमीपे देयादेयम् भवति । यः भगवद्विषये वदति सः एव वास्तवः सत्पुरुषः । सत्पुरुषाः यत् बोधयन्ति तत् वयं स्वल्पं वा आचरामः । भगवतः अधिष्ठानम्अवधार्य प्रत्येकं कर्म करणीयम् । यत्र भगवतः स्मरणं भवति तत्र माया न विद्यते । यत्र माया अभिमानं च विद्येते तत्र भगवान् न विद्यते । दानस्य अपि महत्त्वं वर्तते । धनम् आनीय कण्ठे धरामः चेत् तत् निमज्जयेत् । तस्य योग्यं दानं कुर्मः चेत् तत् त्रायेत । भगवान् एव श्रीमान् दाता । सः श्रीमताम् अपि श्रीमान् । तदीयाः यदि भवामः तर्हि सः अस्मान् दीनान् कथम्अनुवर्तयेत्?
सत्पुरुषाः भगवन्तं विना अन्यत्र न वर्तन्ते एव, अतः ते सत्पुरुषाः जाताः, देवस्वरूपाः जाताः च ।
ऑगस्ट२५ – वयं भगवत्कार्याय एव आगताः । यावत्पर्यन्तं वयं स्वप्ने विद्यामहे, तावत्पर्यन्तं स्वप्नः एव सत्यः इति वयं मन्यामहे । तद्वत् यावत्पर्यन्तं भगवतः सत्यत्वं वयं न सम्यग् जानीमः तावत्पर्यन्तम् इदं मिथ्या जगत् वयं भ्रमेण सत्यं एव मन्यामहे । यत् शाश्वतं भवति तदेव सत्यं वर्तते । वयं प्रमादेन अन्यमार्गेण गच्छन्तः स्मः इति यदि जानीमः तर्हि सत्यं प्रति गन्तुं शक्यते । मनः विषये योजितं चेत् समाधानं न प्राप्नुमः । समाधानं यदि भग्नं तर्हि मार्गः निश्चयेन अयोग्यः । पिपीलिका( कीटः) गुडखण्डे लग्ना चेत् ग्रीवा कर्त्यते चेदपि न त्यजति, तद्वत् वयं विषयसुखं न त्यजामः । तदर्थं किं करवाम? अनुभवेन ये जानन्ति ते एतत् विषयसुखं त्यजन्ति । येषां विषयसुखस्य आसक्तिः नष्टा ते जगत् मिथ्या इति अनुभवन्ति । अस्माकं समाधानं किमर्थं नश्यति विद्यमानाद् भिन्नम् इच्छामः अतः । वस्तु यत्र वर्तते तत्स्थानं विहाय भुवनत्रये यदि शोधयामः तर्हि न प्राप्यते, तद्वत् यस्मिन् वस्तुनि समाधानं न विद्यते तस्मिन् कियत् अपि अन्विषामः तर्हि न प्राप्नुमः । समाधानं केवलं भगवत्समीपे वर्तते । वस्तुतः अस्माकं वृत्तिः परिस्थित्या सह लग्ना अतः न स्थिरा वर्तते । तेन समाधानं न लभ्यते । मनुष्यः विद्यमानया स्थित्या जामितया सुखार्थं यत् करोति तेन दुःखमेव प्राप्नोति । अतः विद्यमानायां परिस्थित्यां समाधानम् अध्येतव्यम् । यस्मै कार्यार्थं वयम् आगताः तत् यदि पूर्णं भवति तर्हि समाधानं भवति । तेन यावत्पर्यन्तं स्वकृत्या समाधानं न प्राप्नुमः तावत्पर्यन्तं तत्कार्यार्थं वयं न आगताः इति चिन्तने का हानिः? वयं भगवतः कृते आगताः तथा च तस्य प्राप्त्या एव आनन्दः । जगति किमपि दृश्यमानं वस्तु अस्मभ्यं मनःस्वास्थ्यं न दातुं शक्नोति, न नेतुं शक्नोति । मनः यदा भगवति लग्नं तदा एव स्वास्थ्यं लभ्यते । तदर्थं भगवतः नामस्मरणं कर्तव्यं तस्य गुणवर्णनं कर्तव्यम् च । तद्विना अन्यत् विषयं न वक्तव्यम् । प्रपञ्चं मिथ्या मत्वा प्रपञ्चः करणीयः । भागवतेन एव भवितव्यम् । नाम्नः विपरीतं यत् वचनं तत्न विश्वसनीयम् । शुष्कः वेदान्तः न श्रवणीयः । प्रत्येकं नाम्ना भगवतः स्मरणं भवति अतः नाम एव सर्वस्वम् इति मन्तव्यम् । नाम्नि किं वर्तते तत् नामजपेन एव अवगम्यते । तीर्थक्षेत्रं सत्पुरुषं वा गत्वा वस्तु न प्राप्तव्यं, समाधानं प्राप्तव्यम् । इदं नामस्मरणेन एव भवति ।
प्रपञ्चस्य अनुभवः कष्टमयः परं भगवतः अनुभवः आनन्दमयः ।
ऑगस्ट२६ – कारणं विना यः आनन्दः सः वास्तवः आनन्दः । जीवने कश्चन आनन्दः आवश्यकः । जीवनं तु आनन्ददायकमेव । परं वयं दुःखं किमर्थम् अनुभवामः? इत्युक्ते मनुष्यः आनन्दार्थं जीवति परं दुःखं प्राप्नोति । एतस्य कारणं वयं किं किमर्थं कुर्मः इत्येव विस्मरामः । मनुष्यः आनन्दार्थं न जीवति अपि तु वस्तुनः कृते जीवति । वस्तु सत्यं नास्ति । अशाश्वतं वर्तते । अतः तस्मात् प्राप्यमाणः आनन्दः अपि नश्वरः । ‘अहम् आनन्दे उषितुम् इच्छामि’ इति प्रत्येकं जनः वदति इत्युक्ते प्रत्येकं जनः ईश्वरं प्रति गन्तुम् इच्छति । यतो हि भगवान् आनन्दस्वरूपः विद्यते । अस्माकम् अभ्यासः जातः अस्ति यत् वयं कारणं विना आनन्दम् उपभोक्तुं न शक्नुमः । यदि कारणं न प्राप्नुमः तर्हि वयं कल्पनाराज्यं निर्मामः । तस्मात् आनन्दं भुञ्ज्महे । आनन्दं प्राप्तुमेव प्रत्येकं जनः प्रयतते । परं कारणावलम्बितस्य आनन्दस्य पन्था दुःखं गच्छति । तदर्थं मनुष्यः प्रपञ्चस्य आधारं स्वीकरोति । अतः कारणं विना आनन्दोपभोगस्य अभ्यासः करणीयः । कारणावलम्बी आनन्दः स्वभावतः अशाश्वतः । अतः सः वास्तवः आनन्दः न । कारणं विना आनन्दं प्राप्तुं पूर्णतः स्वस्थम् उपवेष्टुम् अभ्यासः करणीयः । इदं किमपि न करणम् इति अत्युच्चावस्था वर्तते । कस्यापि करणस्य अपेक्षया सा अतिकठिना अवस्था । भगवता सह अनन्यत्वं, स्वकर्तृत्वस्य पूर्णतः हननं च इति सा अवस्था । आनन्दः इष्यते चेत् आनन्देन एव भवन्तु । कस्यामपि परिस्थित्यां मनः आनन्देन भवेत् । मनोनुकूलं भवति चेत् मनसि समाधानं वर्तते । कोऽपि जनः आत्मनः कृते एव सर्वं करोति । चिन्तयतु, कश्चन पीडयति । अस्माकं पीडनेन सः सुखम् अवाप्नोति । अस्मभ्यं दुःखदानेन सः प्रमुदति । सः केवलं स्वसुखार्थं तथा व्यवहरति । परं तेन दत्तं दुःखं मया किमर्थं स्वीकरणीयम्? तस्य व्यवहारेण मम आनन्दः किमर्थं भञ्जनीयः? अस्माभिः एतादृशं व्यवहरणीयम् यत् अतीतस्य दुःखं न करणीयम् । अनागतस्य चिन्ता न करणीया । वर्तमानक्षणमात्रं स्वकर्तव्यं आनन्देन करणीयम् । भगवान् अनुसन्धातव्यः । इदमेव सर्वम् ।
भगवतः प्राप्तेः इच्छा इत्युक्ते जननस्य सार्थकता ।
ऑगस्ट२७, - समाधानं वृत्तेः गुणविशेषः न तु देहस्य । सर्वत्र श्रीरामः परिपूर्णः इति यः पश्यति सः समाधानं प्राप्नोति । यस्मिन् गृहे समाधानं वर्तते तस्मिन् परमेश्वरः निवसति । यत् भवति तत् ईश्वरेच्छया इति सत्यत्वेन यः एकवर्षपर्यन्तं चिन्तयेत् सः समाधानस्य वास्तवं स्वरूपं निश्चयेन जानीयात् । समाधानं वृत्तेः गुणविशेषः न तु देहस्य । प्रपञ्चविषये मौनी अत्यन्तं समाधानी च जनः मिलेत् इति मन्ये । तस्य पृष्ठतः सर्वं जगत् धाविष्यति । जगति न कोऽपि समाधानं ददाति । समाधानार्थं निष्ठा आवश्यकी । पाण्डवानां वने यत् समाधानम् आसीत् तत् कौरवाणां सिंहासने नासीत् । परमात्मा यथा स्थापयति तथा सुखेन भवितव्यम् । ठेविले अनन्ते तैसेचि रहावे । चित्ति असो द्यावे समाधान । इति सन्तश्रेष्ठतुकारामः अपि कथयति । भगवतः उपायनं सर्वतः मधुरं भवति । धनं तु भगवतः उपायनं न । तेन क्रन्दनम् अतृप्तिः च प्राप्येते । वस्तुतः समाधानम् एव भगवतः उपायनम् । मनुष्यस्य कृते कियत् पर्याप्तम् इति तु न निश्चितम् । विद्यमानायां परिस्थित्यां समाधानं मन्यते चेत् यत् विद्यते तदेव प्रर्याप्तं भवति । यस्य मनः समाहितं तस्य शरीरं कथमपि भवेत् । समाधानस्य एव महत्त्वम् । स्वीकरणस्य अपेक्षया दाने एव अतीव समाधानम् विद्यते । अपि च स्वीकरणस्य न कोऽपि अन्तः । कियत् अपि लभ्येत अस्माकं याचनाबुद्धिः विद्यते एव । परं यदि सर्वं दद्मः तर्हि दानस्य अन्तः भवति । अतः तत्र समाधानं विद्यते । वयं उपाधिना आच्छादिताः । एकाम् एकाम् उपाधिं त्यजामः चेत् अस्माकं स्वरूपं प्रकटीभवेत् । तत्र वास्तवं समाधानं प्राप्यते । ‘श्रीरामः कर्ता वर्तते’ इति भावना यदा भवति तदा वासना म्रियते । मनुष्यः कमपि हेतुं मनसि निधाय कर्म करोति । परं प्रत्येकं विषये ‘भगवदिच्छया यत् भवति तदेव भवतु । ’ इति अनुसन्धानं यदि भवति तर्हि फलविषये सुखदुःखभावः न भवति । सर्वं वयं जानीमः परं प्रसङ्गे विस्मरामः । आगतः आवेगः सोढव्यः । दीपः भवति चेत् अन्धकारः नश्यति । तद्वत् अनुसन्धानस्य दीपं अस्माभिः सह नयामः, चेत् वयं आवेगान् नियन्तुं शक्नुमः । प्रत्येकं जनस्य रोगः भिन्नः परम् औषधिः समानः । सः वर्तते भगवतः अनुसन्धानम् । इदम् औषधं यदि तज्ञवैद्यात् स्वीकृतं तर्हि रुग्णेन पथ्यं पालनीयम् एव । शास्त्रेण, सद्धर्मेण,अभ्यासेन च व्यवहृत्य अनुसन्धाने भवितव्यम् इति आवश्यकम् । अनुसन्धानेन यत् सिद्ध्यति तद् न शतकोटिसाधनैः सिध्येत् । ईदृशम् अखण्डनामानुसन्धानम् इत्युक्ते सत्या भक्तिः ।
इतरसाधनैः यत् साधनीयं तत् केवलम् अनुसन्धानेन सिध्यति इति अस्य युगस्य महिमा ।
ऑगस्ट२८, - आनन्दात् अपनीयते सा माया वस्तु यथा वर्तते तथा न दृश्यते परं विपरीतं दृश्यते सा माया । माया इत्युक्ते या न अस्तित्वेन विना, परं न भवति चेत् न कापि हानिः । उदाहरणार्थं छाया । माया नश्यमाना । सा जीवति म्रियते च । विषयात् अहं आनन्दं प्राप्नोमि परं सः भज्यते । आनन्दात् मां या अपनयति सा माया । विषयात् वयम् अन्ते दुःखमेव प्राप्नुमः इति अस्माकम् अनुभवः । माया अस्मान् विषयेषु क्षिपति । विषयस्य मोहं प्रदर्श्य सा अचिरात् निर्गच्छति । विद्यमानायां परिस्थित्यां सदा मनःक्रन्दनम् एव मायायाः लक्षणम् । धनं मायायाः अस्त्रम् । स्वल्पेन मायायाः वर्णनं करणीयं चेत्भगवतः या माम् अपनयति सा माया । भगवतः शक्तिः भगवान् तथा च वयम् इति एतयोः मध्ये वर्तते तदा अस्माभिः सा माया इति ज्ञायते, यदा तस्याः कौतुकम् मन्यामहे तदा सा ईश्वरस्य लीला भवति । एकः भगवान् मम तथा च अहं तस्य इति यदि वदामः तर्हि मायायाः निरसनं भवति । मायायाः अनर्थं ज्ञात्वा अपि तां वयं स्वीकुर्मः तदर्थं किं वक्तव्यम्? जगतः प्रवाहः भगवतः विपरीतं वर्तते । वयं तस्मिन् निमज्जिताः न भवामः । यः प्रवाहेण सह गच्छति सः शिलाखण्डे घट्टयेत् । आवर्ते विभ्रमेत् । वहन् कुत्र गच्छेत् तत् वयं न जानीमः । अस्माभिः प्रवाहे भवितव्यं परं प्रवाहपतितैः न । अस्माभिः प्रवाहविरुद्धं तरणीयम् । एतदेव अनुसन्धानस्य रक्षणम् । पिशाचबाधा यस्य वर्तते सः सदा तत् तेन सह एव वर्तते इति मन्यते तथैव भगवतः विषये अस्माभिः भवितव्यम् । परं बाधा भीत्या भवति । तस्य विपरीतं भगवान् आधाररूपेण अस्माभिः सह वर्तते इति भाव्यम् । मनसि दुर्विचाराः उत्पद्यन्ते । परं तेषाम् अनुधावनं न करणीयम् । तेन दुस्संकल्पविकल्पाः न आयान्ति । सर्वान् अहं मम इति वदामि परं भगवन्तं न वदामि । तस्य कारणं माया । अधिवक्ता जनानां कलहाः स्वकीयाः इति मत्वा करोति परं परिणामानां सुखदुःखानि न अऩुभवति । तद्वत् प्रपञ्चः स्वीयः इति मत्वा करणीयः परं तस्य सुखदुःखानां स्वामिभिः अस्माभिः न भवितव्यम् । अभियोगस्य निर्णयः कथमपि भवेत् अधिवक्ता निश्चितं शुल्कं प्राप्नोति । तथा प्रपञ्चे प्रारब्धेन निश्चितान् भोगान् वयं प्राप्स्यामः । कर्तव्यबुद्ध्या यथा अधिवक्ता कलहं करोति तथा प्रामाणिकतया कर्तव्यबुद्ध्या च प्रपञ्चः करणीयः । तत्र भगवन्तं न विस्मरामः । अनुसन्धानं न क्षयणीयम् । कर्तव्यं कृत्वा चिन्ता न करणीया । तेन सुखदुःखानां परिणामाः अस्मासु न भविष्यन्ति । इदं येन साधितं तेन परमार्थः साधितः ।
दुःखस्य मूलकारणम् । जगत्सत्यचिन्तनम् ॥
ऑगस्ट२९ – धर्मः इत्युक्ते नीत्यध्यात्मयोः संयोगः । द्वैताद्वैतम् इति किं रहस्यं विद्यते? भगवतः एव सर्वं जातम् अस्ति । एकतः द्वयं जातम् । अस्माकं मूलस्वरूपतः विभक्तत्वेन द्वैतं जातम् । मायायां यदि न निगृहीताः तर्हि अद्वैते स्थातुं शक्नुमः । माया कल्पनातः समुत्पन्ना अतः सा कल्पनया एव हन्तव्या । एकमेव करणीयम् यत् ये अद्वैते निवसन्ति तेषाम् अनुगमनं कर्तव्यम् । भगवतः भवितुं येन विभक्तः जातः तत् त्यक्तव्यम् । यतः माया निर्मिता तमेव शरणं गन्तव्यम् । माया तु भगवतः कारणेन जाता । यः भगवतः तं माया न बाधते । मायायाः बलं सङ्कल्पविकल्पे वर्तते । अखण्डभगवत्स्मरणे भवामः चेत् माया न बाधते । भगवतः नाम स्थिरं वर्तते परं रूपं सततं परिवर्तते । प्रत्यक्षं साकारं रूपमेव न, अपि तु यत् अस्माकं कल्पनायाम् आगच्छेत् तत् तत् सर्वं रूपमेव । भगवतः नाम्नि व्यवहारस्य अपेक्षा न वर्तते, अतः तत् पूर्णम् । समाधानं पूर्णत्वस्य स्वभावः । अतः यत् अपूर्णं तत् असमाधानम् । भगवतः आगच्छन्ती शान्तिः एव समाधानम् । इदमेव पूर्णत्वम् । यत्शास्त्रं समाधानं ददाति तत् सत्यम् । येन शान्तिसमाधानं च लभ्यते सः वास्तवः धर्मः । धर्मः इत्युक्ते नीत्यध्यात्मयोः संयोगः । यः अन्यस्य हितं अदृष्ट्वा केवलं स्वहितं पश्यति सः स्वार्थी । सुखं भवेत् इति इच्छया अस्वस्थता आयाति । यया अस्वस्थतया मनःक्रन्दनम् उद्भवति । क्रन्दनेन जगति नूतनाविष्काराः परिष्काराः च उत्पद्यन्ते । परं एते परिष्काराः यावन्तः अधिकाः तावत् दुःखमधिकम् । या विद्या केवलं सेवावृत्तिकरणार्थं साधनं सा अपूर्णा एव । एतादृशी विद्या केवलम् उदरपूरणार्थम् । सा समाधानं दातुं न शक्नोति । समाधानदात्री विद्या भिन्ना । अतः लौकिका विद्या न अतिमहत्त्वपूर्णा । कदाचित् संशयः भवति यत् जगति सुखं समाधानम् आनन्दः च विद्यन्ते किम्? परम् एषः संशयः न योग्यः । यतो हि ये विषयाः जगति न विद्यन्ते, तेषां नामनी एव कथं भविष्यन्ति? असमाधानम् इत्युक्ते यत् न समाधानं तत् । एतेन स्पष्टं भवति यत् प्रथमं समाधानम् आवश्यकम् । दीपावलीपर्वणि वयं यत् सुखकरं तत् अद्य कुर्मः तथा यत् दुःखकरं तत् श्वः । एतस्य अर्थः यत् अस्माकं चिन्ता न नष्टा, तथापि वयम् अद्यतनदिनं सम्यग् इत्युक्ते चिन्ताविरहितं यापयामः । श्वः पुनः चिन्ता वर्तिष्यते एव । परं यः भगवत्स्मरणं करोति सः कदापि चिन्ताविमुक्तः भवति ।
यस्य प्रत्येकं कृतिः रामस्मरणे भवति सः एव रामराज्ये निवसति ।
ऑगस्ट3१, - यस्य गृहे समाधानं तत्र मया भूयते । मनुष्यः मया मिलति चेत् सः कियान् सुखी इति अहं पश्यामि । तस्य इतरविषयान् न पश्यामि । परं भवन्तः तस्य धनं,विद्या,मानं च इति एतस्याधारेण सः कियान् सुखी इति गणयन्ति । भगवन्तं विहाय मनुष्यः कथं सुखी भवितुमर्हति । जनेभ्यः श्रीमान् रोचते, मह्यं दरिद्रः रोचते । जनेभ्यः विद्वान् रोचते, मह्यम् अज्ञः रोचते । ईदृशं मम सर्वं जगतः विपरीतं वर्तते । परं ततः एव जगतः विपरीतं समाधानं मत्समीपे वर्तते । समाधानं कस्मिन्, क्व च वर्तते इति मया अन्विष्टम् । अहं समाधानरूपः अस्मि । यस्य गृहे समाधानं तत्र अहम् । यः मदीयः परं न समाधानी तेन सह मम कष्टं भवति । अहम् अत्यन्तं समाधानी तथैव भवन्तः अपि भवन्तु । अद्यपर्यन्तं मया एका एव साधना कृता । कस्यापि मनः न पीडितम् । एकं नाम विहाय किमपि न स्मरणे रक्षितम् । मम समीपे किं वर्तते तत् कथयतु । न विद्या, न धनं, न वा कला । परं सर्वेषु अहं निष्कपटं प्रीणामि । तेन जनाः माम् इच्छन्ति, मम आधारं भावयन्ति च । जगतःस्वभावम् अहं सम्यग् जानामि । अतः ममविषये कः किं वदति इति मया न दृष्टम् । सः किं वक्तव्यः इति एव मया दृष्टम् । मम कथनश्रवणानन्तरमपि भवन्तः पुनः श्रोतुम् आगच्छन्ति इति एतस्य कारणत्रयं भवितुमर्हति । एकम् अहं सम्यग् वक्तुं न शक्नोमि । द्वितीयं भवद्भिः तत् न अवगतम् स्यात् । अथ वा तृतीयं मया कथितं भवद्भिः विस्मृतं स्यात् । भवद्भिः मया सह सम्पूर्णं सहजतया वक्तव्यम् । वयं यथा गृहजनैः सह वदामः तथा अतीव आत्मीयतया वक्तव्यम् । परं मया सह कश्चन कथमपि किमपि च वदेत् यत् कथनीयं तदेव अहं कथयामि । कथनसमये अनेन मम श्रुतं चेत् अस्य कल्याणं भविष्यतिइति सहजं मम मनसि आगच्छति । मम यः शृणोति तस्य निश्चयेन कल्याणं भविष्यति इति मम विश्वासः । परं कल्याणम् इत्युक्ते प्रपञ्चे उन्नतिः न, अपि तु विद्यमानायां परिस्थित्यां समाधानेन भवितव्यम् । मम आत्मीयस्य जनस्य प्रपञ्चे अहं साहाय्यं न करोमि इति न, परं तस्य प्रपञ्चः तस्य परमार्थस्य नाशं कुर्यात् इति एतादृशं साहाय्यं अहं न करोमि । ईदृशं साहाय्यं मया न क्रियते चेत् सः रुदेत् तस्य मयि श्रद्धा न्यूना भवेत् च परं सः जीवेत् इति निश्चितम् । जीवति सति अद्य वा श्वः सः नामजपं कुर्यात् । रुग्णः म्रियते चेत्औषधदानेन कः लाभः? बीजं तु मया उप्तं कदाचित् तस्य वृक्षः निश्चयेन भविष्यति ।
अद्यपर्यन्तं नाम विहाय मया किमपि न कथितम् । यः मया मिलति तस्य मुखात् नामजापनीयम् इति मम कार्यम् ।