जानेवारी १
नाम परमात्मस्वरूपमेव वर्तते ।
नाम इत्युक्ते भगवन्नाम । साधनदृष्ट्या देवस्य भिन्नभिन्ननामसु न भेदः । जीवशिवयोः मध्ये नामरूपा शृङ्खला वर्तते । नाम साधनं, साध्यमपि । नाम सगुणं, निर्गुणं च । नाम्नः आरम्भः सगुणे, अन्तः निर्गुणे च । आरम्भः सगुणे वर्तते, यतो हि मूलतः निर्गुणः निराकारः च भगवान् यदा सगुणम् आगतः, तदा सः नाम रूपं च अलभत । सगुणत्वविलयानन्तरम् अपि नाम अवशिष्यते । अतः सः निर्गुणः । अतः सगुणनिर्गुणभक्त्योः नाम एवाधारः । नामैव सत्सङ्गस्य अधिष्ठानं शिखरं च । नाम इत्युक्ते अस्माकं वृत्तिं भगवता सह योजयित्री शृङ्खला । विवाहानन्तरं पत्नी यथा पत्या सह एकरूपा भवति तथा वृत्त्या नाम्ना सह विवाहं कृत्वा नामरूपया भवितव्यम् । नाम अतीव सूक्ष्मम् । वृत्तिः अपि सूक्ष्मा । अतः नामजपेन वृत्तिपरिष्करणं भवेत् । विशुद्धया वृत्त्या चित्तं शान्तं भवेत् । चित्तं शान्तं भवति चेद् निष्ठा उत्पद्यते । सर्वेषां भावार्थः एकः एव । भोज्यपदार्थानां स्वस्वादः वर्तते । वयम् आत्मनः रुच्या तान् खादामः । परं नाम्नः स्वस्वादः न वर्तते । स्वरुचिं संयोज्य अस्माभिः तज्जपनीयम् । यावद् अधिकया रुच्या वयं जपामः तावद् माधुर्यम् अनुभवामः । पण्ढरपुरं गन्तुं नैके मार्गाः, परम् अन्ते पङ्क्त्यां स्थितेः अनन्तरमेव दर्शनं लभ्यते । तद्वत् कियन्ति अपि इतराणि साधनानि कृतानि तथापि नामसाधनानन्तरमेव आत्मस्वरूपप्राप्तिः भवति । नाम जपनीयम्, स्वयमेव स्वकर्णैः श्रवणीयं च । जपन्तः, शृण्वन्तः चात्मानं विस्मरेम । एतद् एव नामसाधनम्, एषः एव आनन्दमार्गः च । यथा अस्माकम् अस्मिता स्वनाम्नि वर्तते तथा देवस्य देवत्वं तस्य नाम्नि वर्तते । अद्य यद् नाम वयं जपामः तदेव अन्तपर्यन्तं विद्यते, परं यथा देहबुद्धिः क्षीणा भवति तथा नाम अधिकाधिकम् अर्थपूर्णं भवति, अन्ते नाम परमात्मस्वरूपमेव इति अनुभवः लभ्यते । यथा जलं शरीरस्य जीवनं वर्तते तथा नाम मनसः जीवनं भवेत् । नाम एतादृशम् अन्तः गच्छेत् यत् प्राणैः सहैव तद् बहिरागच्छेत् । अन्तसमये अन्तिमक्षणे निर्गच्छत् वस्तु भगवन्नाम भवेत् । नामजपः एव अन्तिमः उच्छ्वासः भवेत् ।
नामजपे आनन्दं विना नान्यत् किमपि वर्तते ।
जानेवारी २
नाम सद्गुरुतः स्वीकरणीयम् ।
नाम सद्गुरुतः स्वीकरणीयं, स्वरुच्या स्वयमेव स्वीकरणीयं वा? वस्तुतः भगवन्नाम स्वतः सिद्धं परिपूर्णं च वर्तते । तद् अन्येभ्यः पूर्णतां नापेक्षते । अतः सद्गुरुतः स्वीकृतं नाम स्वरुच्या स्वीकृतं नाम च इति एतयोः मध्ये भेदं कर्तुं न शक्यते । तथापि सद्गुरुतः स्वीकृते नाम्नि वैशिष्ट्यं वर्तते । सद्गुरुः स्वेन दत्तस्य नाम्नः पृष्ठतः सत्तारूपेण वर्तते । नामस्मरणसमये सः अस्माकं साहाय्यं करोति । तेन अस्माभिः क्रियमाणं नामस्मरणं तस्य सत्तया एव विद्यते । तेन ‘अहं नामस्मरणं करोमि’ इति एतस्य अहंकारस्य उत्पादनस्य अवसरः एव न विद्यते । सद्गुरोः आज्ञां पालयते साधकाय नाम रोचते । आकण्ठं नामजपेन तस्य आत्मा तृप्यति । अतः सद्गुरुतः नामस्वीकरणम् आवश्यकम् । सद्गुरोः मेलनपर्यन्तं स्वयमेव नामस्मरणं करणीयम् । यतो हि तन्नामस्मरणं अस्माकं सद्गुरुणा मेलनं कारयेत् । आदौ सत्पुरुषमेलनं बहुदुष्करम् । मिलति चेदपि तस्मिन् विश्वासः अतिदुर्लभः । अतः नामसाधनं निरन्तरं प्रवर्तनीयम् । शर्कराखण्डान् स्थापयामः चेत् पिपीलकाः न आह्वातव्याः । ताः सहजम् अन्विष्य आगच्छन्ति । तद्वद् भवन्तः शर्कराखण्डाः भवन्तु, सत्पुरुषाः भवन्तं प्रति धाविष्यन्ति । शर्कराखण्डाः भवन्तु इत्युक्ते सत्पुरुषेभ्यः यथा रोचेत तथा वर्तन्ताम् । सत्पुरुषेभ्यः किं रोचते? भगवन्नामस्मरणम् अखण्डानुसन्धानं च । एते विहाय तेभ्यः किमपि न रोचते । अतः स्वहृदये नामज्योतिः सदैव प्रज्वालितं भवेत् । सद्गुरुः भवन्तम् अन्विष्यन् आगच्छति, भवति कृपां वर्षति च । अधुना अनया पद्धत्या सद्गुरुणा नाम दत्तं चेत् कश्चन चिन्तयेद् यत् ‘अहं राम रामेति जपन् अस्मि एव । सद्गुरुणा तदेव उपदिष्टम् । अथ अत्र कः विशेषः?’ परन्तु अत्रैव विशेषः वर्तते । यतो हि अत्र ‘अहं कर्ता’ इति अभिमानः त्यक्तव्यः भवति । सद्गुरुतः नाम स्वीकृतं चेत् कर्तृत्वाभिमानस्य अवसरः न विद्यते । एकः लवणकणः पायसनाशार्थं पर्याप्तः । तथैव अभिमानः सर्वसाधननाशार्थं पर्याप्तः । अतः अभिमानत्यागः महत्त्वपूर्णः विषय़ः । भगवन्नाम औषधम् इति मन्तव्यम् । भगवत्प्राप्तिः फलम् । अपेक्षितं तावत् करणीयं, यथोक्तं तथा करणीयम्, अधिकं न करणीयम्, इति अनुपानम् । औषधं तावत् बिन्दुशः सततं स्वीकर्तव्यम् ।
सामान्यशब्दानाम् अपि महान् आधारः भवति । अथातः भगवन्नाम्नः आधारः कियान् महान् भवेत् ।
जानेवारी 3
नामजपः कदापर्यन्तं करणीयः?
नाम कदापर्यन्तं जपनीयम्? यावत् श्वासोच्छ्वासः प्रवर्तते स्वस्मृतिः वर्तते वा तावद् नामजपः करणीयः । यथा श्वासोच्छ्वासः मृत्युपर्यन्तं प्रवर्तते तथा नामजपः अपि । सुष्ठु वक्तव्यं चेद् यथा श्वासोच्छ्वासस्थगनम् इत्युक्ते मृत्युः, तथैव नामोच्चारणत्यागः मृत्युसमः एवेति मन्तव्यम् । अक्षरशः जीवोत्क्रमणपर्यन्तम् इत्युक्ते ‘अहंभाव’मरणपर्यन्तं नामजपः करणीयः । अन्ते ‘अहंता’ विलीयते, नाम अवशिष्यते च । नामजपः कदापि पूर्णः न भवति । मुक्त्यनन्तरं सर्वं पूर्णं भवति इति वदन्ति, परं मुक्त्याः अनन्तरं यत् कर्तव्यम् अवशिष्यते तन्नामस्मरणम् एव । कञ्चन जनम् अभानावस्थां नेतुं वैद्यः तस्मै औषधिं दत्त्वा अङ्कान् गणयितुं सूचयति । अङ्कान् गणयन् सः यदा विरमति तदा तस्य देहभानं नश्यति इति निश्चीयते । तद्वन्नामोच्चारणं कुर्वतः ‘अहं नामजपं करोमि’ इति स्मरणमपि न विद्यते तदा नामजपे तल्लीनः सः जनः एकान्ते परिणमते । नामजप्ता ‘अहं’ एकः, तस्यान्तः एकान्तः । इत्युक्ते देहबुद्धेः विस्मरणम् । देहबुद्धेः परं गमनम् । नाम जापं जापम् इदृशीं स्थितिं प्राप्नोति चेत् चित्तं भगवति वर्तते वा न वा इति प्रष्टुम् अवकाशः एव क्व वर्तते? निद्रानाशेन पीडितैः यथा निद्राप्राप्तिपर्यन्तम् औषधं स्वीक्रियते, तथैव स्वाभाविकसमाधानप्राप्तिपर्यन्तं नामजपः करणीयः । नाम उपाधिरहितं विद्यते अतः उपाधिरहितत्वेन विना नामप्रेम लब्धुं न शक्नुमः । नाम्ना आनन्दमयस्य भगवतः सन्निकर्षेण तस्य कृपा अचिराद् लभ्यते । किं बहुना यस्मिन् भगवत्कृपा विद्यते तस्य एव मुखे नाम वर्तते । नामजपस्य संख्या लेखनीया वा? यदि दिनविषये वा संख्याविषये वा कश्चित् संकल्पः विद्यते तर्हि जपसंख्यालेखनम् अपेक्ष्यते । जपाभ्यासार्थं वा नियतजपेन विना दिनं न गच्छेत् तदर्थं वा जपसंख्यालेखनं करणीयम् । परम् अत्रैकं पथ्यमपेक्ष्यते । अद्यतनसंकल्पपूर्त्यनन्तरं श्वःपर्यन्तं नाम्ना सह मम सम्बन्धः नेति वृत्तिः सम्भवति । अत्र सावधानेन भवितव्यम् । नियतसंख्यापूर्त्यनन्तरमपि जपाभ्यासः यावत् शक्यम् अनुवर्तनीयः ।
सामान्यजनेन बहु विचिकित्साम् अकृत्वा यथोक्तं नामजपः करणीयः । तेन तस्य कल्याणं निश्चयेन भविष्यति ।
जानेवारी ४
नाम कथं जपनीयम्?
‘नाम कथं स्मरणीयम्’ इति पृच्छा इत्युक्ते ‘लड्डुकं कथं खादामि’ इति पृच्छासमं वर्तते । लड्डुकं कथमपि खादामः चेद् मधुरमेव वर्तते । तथैव नाम कथमपि जपामः चेत् कार्यं करोत्येव । येन लड्डुकः खादितः सः तं कथं खादामि इति न पृच्छेत् । तथैव नामजप्ता कथं जपामि इति न पृच्छेत् । क्षेत्रे यदा बीजं वपन्ति तदा तद् उर्ध्वमुखम् वर्तते वा इति न पश्यन्ति । तत् कथमपि भवेत् अङुरः बीजात् क्वापि बहिः आगच्छेत् सः भूमितः एव बहिः आगच्छति । तद्वद् नाम कथमपि स्मरामः चेत् तत् स्मरणं स्मर्तुः सम्यक् विकासं कारयिष्यति, तं सुयोग्यमार्गम् आनेष्यति च । नामस्मरणसमये कथम् उपवेशनं, किम् आसनम् इति एतादृशः प्रश्नः इत्युक्ते श्वासोच्छ्वाससमये कथम् उपविशामः इति प्रश्नः इव । चिन्तयन्तु, कश्चन श्वासरोगेण पीडितः जनः अस्ति । सः कथम् उपविशति? सः एवम् उपविशति, लुण्ठति वा येन श्वासोच्छ्वासः विनाकष्टं भवेत् । श्वासोच्छ्वासः सुखेन प्रवर्तेत इति तस्य ध्येयं वर्तते तदर्थं देहस्थितिः कथमपि भवितुम् अर्हति । यथा श्वासोच्छ्वासः विनाकष्टं भवेदिति तस्य ध्येयं वर्तते तद्वत् नामस्मरणम् अखण्डं भवेत् इति अस्माकं ध्येयं भवेत् । तदर्थम् इदमेव योग्यं यद् नामस्मरणे येन विघ्नं न भवेत् तादृशम् उपवेशनं भवेत् । उपवेशनपद्धतिः अधिकं महत्त्वं न अर्हति । चिन्तयन्तु, पद्मासने अस्माभिः नामस्मरणमम् आरब्धम् । केनचित् समयेन पृष्ठे पीडा आरब्धा । तेन अस्माकम् अवधानं नामस्मरणस्य अपेक्षया देहे एव भवितुम् अर्हति । इत्युक्ते पौनःपुन्येन नामस्मरणेन देहविस्मरणस्य अपेक्षया देहस्मृतिः एव उत्कटा भवितुमर्हति । अतः नामस्मरणे येन अन्तरायः न भवेत् तादृशं प्रकृतिधर्मानुसारं किमपि आसनं भवेत् । भगवतः नाम्नि किमपि शरीरबन्धनं न वर्तते । इदमेव नामसाधनस्य माहात्म्यम् । कस्याम् अपि अवस्थायां भगवत्स्मरणं कर्तुं मनुष्यस्य एकमेव साधनं नाम वर्तते । परं देहबुद्धिः एतादृशी विलक्षणा वर्तते यत् निरुपाधिकाय नाम्ने वयं काम् अपि उपाधिं योजयामः, नामस्मरणम् तेन उपाध्याधारेण कुर्मः । इदं न करणीयम् । अन्ये उपाधयः सुखदुःखानि उत्पादयन्ति, नाम निरुपाधिकम् आनन्दं ददाति ।
शुद्धभावनायां निष्ठायां च अवितथं समाधानं विद्यते । एषा निष्ठा अनुसन्धानेन उत्पद्यते ।
जानेवारी ५
नामस्मरणम् एकाग्रता च ।
नामस्मरणसमये चित्तैकाग्र्यं किमर्थं न भवति? तदर्थं किं करणीयम्? नामस्मरणसमये मनसि सहस्रशः विचाराः आयान्ति । तान् निवारयितुं प्रथमोपायः वर्तते यत् तेषाम् अनुधावनं न करणीयम् । मनसि अन्ये विचाराः आयान्ति इति अस्ति चेत् तेषां मार्गाः निरोद्धव्याः । इत्युक्ते मनोराज्यं न करणीयम् । विचाराः आयान्ति प्रयान्ति च । तत्र न अवधातव्यम् । चित्तैकाग्र्यं कर्तुमेव नामस्मरणम् अपेक्ष्यते । नामस्मरणे चित्तैकाग्रता इति बहु अग्रिमं पदम् । चित्तं तु चञ्चलम् । तत् क्वापि स्थिरं करणीयम् । अतः नाम्नि तद् योजनीयम् । नामस्मरणसमये नाम कर्णेन श्रोतव्यम् । तेन एकाग्रतायाः साधने साहाय्यं भवेत् । एकाग्रतां विना नामस्मरणेन न कोऽपि अर्थः, नामस्मरणं विना एकाग्रता भवितुं नार्हति चेति संशयः मा भवेत् । सरलं सामान्यं च नामस्मरणं करणीयं येन सहजा एकाग्रता सेत्स्यति । अपरं च, यदस्मभ्यं रोचते तस्मिन् वयम् एकाग्रबुद्धयः भवितुं शक्नुमः । विषयाः अस्मभ्यं रोचन्ते अतः विषयसेवने वयम् एकाग्रबुद्धयः भवामः । अथ अतः विषयाणां स्थाने भगवतः रुचिं धरामः चेत् तस्मिन् अपि किमर्थम् एकाग्रबुद्धयः भवितुं न शक्नुमः? अतः अधुना विषये यावती रुचिः वर्तते तावतीं देवप्राप्त्यर्थ्यम् अपि धरामः चेत् तस्मिन् वयम् एकाग्रबुद्धयः भवितुं शक्नुमः । एकाग्रता इत्युक्ते समरसता । लवणं जले योजितं चेत् तज्जलात् भिन्नं वर्तते किम्? योगेन एकाग्रबुद्धयः भवितुं शक्नुमः, परं यावत् समाधिः वर्तते तावत्कालम् एव एकाग्रता भविष्यति । सर्वेषु भूतेषु भगवद्दर्शनम् एव एकाग्रतायाः वास्तवं साधनम् । सर्वत्र सः एव व्यापृतः इति जानीमः चेद् द्वैतं कुत्र वर्तते? यतः द्वैतं निर्गच्छति तत्र एकाग्रता सहजम् आयाति । एषा एकाग्रता एव वास्तवः समाधिः । मनुष्यः पूर्णतः एकाकी एकान्ते वा वर्तते चेदपि स्वकल्पनया सः नैकान् जनान् स्वं परितः संगृह्णाति । विशेषतः विद्वज्जनानां कल्पनाः अधिकाः । कल्पनाः करणीयाः चेद् भगवतः विषये कुर्मः । भगवान् दाता त्राता सुखकर्ता चेति कल्पनां कुर्मः । तत्रैव हितं वर्तते । कल्पनातीतं भगवन्तं कल्पनाम् आनीय सगुणं कुर्मः । तत्रैव चित्तं स्थिरीकर्तुं प्रयतामहे च ।
मनः एकाग्रं न भवति चेदपि नामस्मरणं न त्यक्तव्यम् ।
जानेवारी ६
नामरूपयोः सम्बन्धः ।
नामस्मरणसमये रूपध्यानम् आवश्यकं किम्? वस्तुतः नाम रूपं च भिन्ने न वर्तेते । परं नाम रूपात् प्राग् वर्तते, अनन्तरमपि अवशिष्यते । नाम रूपे व्यापृतं वर्तते । रामजन्मनः प्राग् वाल्मीकिः रामायणं लिखितवान् । अनन्तरं रामेण जनिं लब्ध्वा तत्रस्थवर्णनानुसारम् आचरणं कृतम् । इत्युक्ते रूपात् प्राक् नाम आसीत्, रूपे अतीते अपि नाम वर्तते । देशकालातीतं यत् शाश्वतं तत् सत्यम् । प्रत्यक्षाणां साकाराणां नैकानां रूपाणाम् लोपाद् अनन्तरमपि तेषां नामानि अवशिष्यन्ते । अतः नाम देशकालातीतं वर्तते । अतः तत् रूपात् अपि अधिकं सत्यम् । यत्सत्यं तत् श्रेष्ठम् । अतः नामस्मरणं मुख्यं, तदा रूपमपि ध्यायते चेद् उत्तमम् । तथा न भवति चेदपि नामस्मरणसमये रूपस्मरणमपि सूक्ष्मरूपेण वर्तते एव । चिन्तयन्तु, कस्यचित् गृहस्थस्य गृहे रामः नाम कर्मकरः वर्तते । सः गृहस्थः रामनाम जपति । परं रूपं प्रति तस्य अवधानं न वर्तते । सहसा कश्चन तं पृच्छति, ‘ भवान् कस्य नाम जपति ?’ तदा स वदति, ‘ अर्थात् रामस्य । ’ तदा तस्य मनसि दाशरथिः रामः एव वर्तते, न तु कर्मकरः रामः । अतः नामस्मरणे सति रूपध्यानं सूक्ष्मरूपेण जागर्ति एव । रूपं ध्यानं न आयाति इति मत्वा न स्थातव्यमपि तु नामस्मरणस्य आग्रहः अनुवर्तनीयः । तस्मिन् एव सर्वम् समाविष्टम् । परिचितस्य जनस्य रूपम् आदौ मनः आयाति अनन्तरं नाम आयाति । परं यदि सः अपरिचितः अदृष्टः च तर्हि नाममात्रं मनः आयाति । अधुना भगवतः परिचयः नास्ति । तस्य रूपमपि न जानीमः । केवलं तस्य नाम वयं जप्तुं शक्नुमः । साम्प्रतम् अपि तस्य नामजपनेन तस्य स्मरणमपि वर्तते इति अस्माकम् अनुभवः । भगवतः रूपमपि क्व निश्चितम्? एकः रामः कृष्णः, अपरः गौरकायः । एकः कनीयान् अपरः ज्यायान् । परं सर्वाणि रूपाणि एकस्य रामस्यैव । स्वयं भगवान् अरूपः । यस्मिन् रूपे तं पश्यामः तत् तस्य रूपम् । अतः कस्मिन् अपि रूपे तं ध्यायामः तर्हि अनुमन्यते । नाम्नः अनन्तरूपाणि उत्पद्यन्ते तस्मिन्नेव निलीयन्ते च । अतः भगवन्नाम श्रेष्ठम् । तद् भवन्तः आनन्देन निरन्तरं जपन्तु, आनन्दे भवन्तु च ।
दानेषु दानम् अन्नदानम् । उपासनासु उपासना सगुणोपासना । साधनेषु साधनं नामस्मरणम् ।
जानेवारी ७
नामप्रेमार्थं सत्या आर्तता अपेक्ष्यते ।
नामप्रेम किमर्थं न उत्पद्यते इति बहवः पृच्छन्ति । परम् अल्पेन चिन्तनेन वयम् अवगन्तुं शक्नुमः यत् एषः प्रश्नः एव न योग्यः । वन्ध्यया महिलया कृतेन ‘पुत्रप्रेम कथम् उत्पद्येत’ इति प्रश्नेन समः एषः प्रश्नः । पुत्रेण सहैव प्रेमोत्पद्यते । ‘पुत्रप्रेम कथम् उत्पद्येत’ इति प्रश्नस्य अपेक्षया ‘पुत्रः कथम् उत्पद्येत’ इति अस्य चिन्तनं योग्यम् । अस्माभिः अपि प्रश्नः करणीयः चेत् ‘नामप्रेम कथम् उत्पद्येत’ इति प्रश्नस्य अपेक्षया ‘मुखे नाम कथं भवेत्’ इति पृच्छा करणीया । मुखे नामागमनार्थं कस्य अवरोधः वर्तते? न कस्यापि अन्यस्य, परं स्वस्यैव । वस्तुतः ‘एकवारं नामजपारम्भः निश्चितः चेत् पर्याप्तम् । परं तथा न भवति चेत् दोषः न अन्यस्य, परं स्वस्य एव । अतः नामजपकरणम् अस्माकं कार्यं तस्य अनुगमनं प्रेम्णः धर्मः । पुत्रः प्रेमपानं च मातृदृष्ट्या यथा अभिन्नं वर्तते तथा नाम नामप्रेम च अभिन्ने एव भवतः । एतेन एतत् तु निश्चितं यत् ‘प्रेम किमर्थं नायाति’ इति एतस्य उत्तरम् आत्मनः समीपे एव वर्तते । तत् ‘नाम न जपामः अतः’ इति । अत्र कश्चन पृच्छेत् यत् वयं नामजपं कुर्मः, परं प्रेम कथं न उत्पद्यते? एषः प्रश्नः योग्यः । अधुना यत् नामस्मरणं कुर्मः तद्विषये चिन्तयामः चेत् किं दृश्येत? औरसपुत्रं प्रति या आर्तता मातुः वर्तते, सा नामविषये अस्माकं न वर्तते । सर्वसत्पुरुषैः गुरुणा वा कथितम् अतः वयं नाम जपामः । कदाचित् अन्यत् किमपि कर्तुं न विद्यते अतः नाम जपामः । एतावत् एव । अर्थात् तथा जपामः चेत् अपि अद्य श्वः वा अस्माकं कार्यं भवेत् एव । परं प्रेम किमर्थं न उत्पद्यते इति प्रश्नात् प्राग् वयं नामस्मरणं कियत्या आस्थया कुर्मः इति प्रश्नः आत्मानं प्रति करणीयः । चिरेण प्रसूतायाः सुतविषये यादृशी स्थितिः वर्तते, तादृशी नामस्मरणविषये अस्माकं भवेत् । अस्माकं देहवृद्धिः यथा अज्ञाततया भवति तथा पारमार्थिकी उन्नतिः अपि अज्ञाततया भवतु । सा ज्ञायते चेत् सर्वं व्यर्थं भवितुमर्हति । परमार्थस्य प्राप्तेः अपेक्षया प्राप्तस्य तस्य रक्षणम् इतोऽपि कठिनतरम् । यः ‘अहं किञ्चन विशिष्टं जन्म प्राप्तवान्’ इति मन्यते, तस्य अपि जन्मनि न तथा किमपि वैशिष्ट्यम् । एतेन जनेन आत्मा बहु एव रक्षणीयः ।
पत्ये न रोचते तथापि पत्न्या नामस्मरणं न त्यक्तव्यम् । सा नामस्मरणं करोति चेत् तया धर्मः त्यक्तः इति न भवति अपि तु कौटुम्बिकजीवनं सुखकरं भवति ।
जानेवारी ८
नामप्रेम नाम्ना सह वासेन उत्पद्यते ।
नामप्रेम कथम् उत्पद्यते इति अवगन्तुम् आत्मनः वत्सलां मातरं पश्यन्तु । पुत्रः अल्पेन ज्वरेण पीडितः चेत् मातुः उदरे आतङ्कः उद्भवति । अन्नरुचिः निर्गच्छति । निद्रा नायाति । एतादृश्यः नैकाः पीडाः आरभन्ते । सारांशेन सा सर्वथा अस्वस्था भवति । नामजपे विक्षेपे आगते सति अस्माकम् अवस्था तथा भवति किम्? उत्तरं स्वतः एव लभ्यते । नामजपः मम धर्मः । मम आद्यं कर्तव्यम् । तद्विना जीवनं मृत्युसमानम् । नामजपकरणे मम आत्यन्तिकं हितं वर्तते । किं बहुना, अहं नामार्थम् एव जातः, तद्रूपः भवेयं च - इत्येतादृश्या उत्कटया भावनया नामजपः करणीयः । तेन नामप्रेम न उत्पद्येत इति न भवितुम् अर्हति । प्रेम न उत्पद्यते इति एतस्य एषः एव अर्थः यत् नाम आस्थया न जप्तम् । अत्र एतस्य उपायः विद्यते यत् दृढनिश्चयेन यथाशक्यं नामजपः करणीयः । तन्नामस्मरणम् अस्माकम् एकैकं पदं पुरः सारयेत्, ध्येयं प्रापयेत् च । परिस्थितिः सम्यक् भवति चेत् नामस्मरणं करोमि इति यः वदति सः कदापि नामस्मरणं न करोति । नामजपं मनसि मुखेन उच्चार्य वा कर्तुं शक्यते । नाम्नि वर्तितव्यं तेन अन्तःकरणशुद्धता भवति । शुद्धान्तःकरणे भगवत्प्रेम उत्पद्यते । नामजपः केवलं प्रचुरजपात् विवेकजन्यं प्रेम अपेक्षते । वस्तुतः नामस्मरणे एव नामस्मरणप्रेम वर्तते । तक्रे नवनीतं विद्यते एव । केवलं तत् उपरि न दृश्यते । दधिमन्थनेन तत् उदायाति तथा भगवन्नामस्मरणेन तस्य प्रेम स्वाभाविकतया उदायाति । सामान्यशब्दैः अपि चित्तवृत्तयः परिणमन्ते, शब्दानुकूलाः भावाः उत्पद्यन्ते च । अतः भगवन्नाम्ना भगवत्प्रेम किमर्थं न उत्पद्येत? साम्प्रतं भवन्तः यावन्तं समयं लभन्ते तावन्तं सर्वं भगवन्नामजपे योजयन्तु । दीर्घं कालं यदि एकस्मिन्गृहे निवसामः तर्हि तस्मिन् गृहे वयं प्रीणीमः नु? प्रपञ्चप्रेम तेन सह वासेन उत्पद्यते, तथा एव नामप्रेम तस्य अखण्डं सह वासेन सहजम् उत्पद्येत । उत्थाने, उपवेशने, चलने, भाषणे चानुसन्धानम् अनुवर्तनीयम् । व्यसनं गच्छता कालेन दृढं भवति मनुष्यः तस्य नितराम् अधीनो भवति । अहिफेनं पश्यन्तु । गच्छता कालेन मनुष्यः अधिकाधिकम् अहिफेनम् अपेक्षते । तथैव भगवच्चिन्तनस्य व्यसनम् अस्माभिः लभ्येत । समीचीनविषयप्राप्तिः दुर्लभा । परं स्वल्पश्रमेण प्रचुरं लब्धुं नामजपं विना साधनं न वर्तते । अतः मनसा सदा नामजपः करणीयः ।
नामप्रेम उत्पादयितुं, गुरोः इच्छा इति मत्वा जपः करणीयः, नामजपे कल्याणं वर्तते इति भावनया वा जपः करणीयः ।
जानेवारी ९
नाम तथा विक्षेपाः ।
नामजपसमये मनसि विक्षेपाः उद्भवन्ति । तेन नामजपे निष्ठा क्षीयते । तदर्थं किं करणीयम्? इति आक्षेपं वयं सामान्यतः कुर्मः । परन्तु एतेन एव नामजपस्य महत्त्वं प्रतिष्ठापितं भवति इति विषये अस्माकम् अवधानं न वर्तते । यदा मनुष्यः नामजपम् आरभते तदा विक्षेपाः तं सोढुं न शक्नुवन्ति । ‘अधुना एषः नामजपं करोति, वयं भवितुं नार्हामः’- इत्याकारकेण भयेन तेषाम् आन्दोलनम् आरभते । मनुष्यं नामस्मरणात् विन्मुखं कर्तुं ते प्रयतन्ते । विक्षेपाः सूक्ष्मा भवन्ति । तेषां निराकरणार्थं सूक्ष्मः कश्चन उपायः अपेक्षितः । सः वर्तते नामजपः । बिलं गतं सर्पं तत्र तस्य निवासम् अशक्यं कर्तुं, ततः बहिः निष्कासयितुं च उपायः अपेक्षितः । बाह्यतः कोलाहलं कृत्वा लाभः न भवति । बिले धूमस्य उष्णजलस्य वा पूरणेन सः बहिः आगच्छति । तथा एव नामजपनेन विक्षेपाः उद्भच्छन्ति । इत्युक्ते विकल्पानां मूलस्थानपर्यन्तं नामस्मरणस्य औष्ण्यं प्राप्तम् । अतः नामस्मरणेन विक्षेपाः उद्भवन्ति चेत् अस्वस्थः अभूत्वा तत्सुचिह्नम् इति मत्वा विक्षेपनिराकरणार्थं कुञ्चिका प्राप्ता इति मनसि निधाय अधिकया आस्थया नामजपस्य निश्चयं कुर्यात् । एषः एव तस्य उपायः । नामस्मरणे सर्वेषां वृत्तिः आरम्भे साशङ्का वर्तते । परं सततं नामस्मरणेन विक्षेपाः न्यूनाः भवन्ति । कः अपि विषयः अभ्यासेन सिद्ध्यति । अद्य सत्या भक्तिः नास्ति अतः भगवत्स्मरणं न वर्तते, भगवत्स्मरणाभ्यासेन विना वास्तवा भक्तिः न उत्पद्यते । अतः सुज्ञेन जनेन वृथा विकल्पाः न करणीयाः भगवत्स्मरणारम्भः करणीयः च । विक्षेपाः विलीयन्ते तथा च भगवत्संकल्पाः उद्भवन्ति चेत् अस्माकं कार्यं जातम् । मार्गे गमनसमये अवाञ्छिताः जनाः लभ्यन्ते एव । परमस्माभिः अग्रे गन्तव्यम् एव । तथैव विक्षेपोद्भवे अपि नामस्मरणं न स्थगनीयम् । परं वैचित्र्यं यत् मार्गे लब्धः दुर्जनः अस्माभिः दुर्लक्षितः सन् अपि बुद्ध्या कासते, अस्माकं ध्यानम् आकर्षति च । तदा वयं दृष्ट्वापि दुर्लक्षं कुर्मः । तथैव विक्षेपैः अस्माकं ध्यानम् आकर्षितं चेद् अपि अनिच्छया द्रष्टव्यं परं नामजपः न त्यक्तव्यः । शङ्काः उद्भवन्ति चेदपि नामस्मरणं कुर्वन्तः शङ्कन्ताम् । तत् नामस्मरणमेव शङ्कानां निरसनं कुर्यात् । शनैः शनैः विक्षेपान् अपि परिहरेत् च ।
भृशं कृतमपि शङ्कया व्यर्थं गच्छति । नाम न त्यजामि इति निश्चितं चेद् वृत्तिः निःशङ्का भवति एव ।
जानेवारी ११
नाम्नः सूक्ष्मं स्वरूपम् ।
‘राम राम’ इति उच्चारणमात्रेण रामः कथं मिलेद् इति प्रश्नं जनः सहजं पृच्छति, दृष्टान्तरूपेण वदति च यत् सेवावृत्तिः सेवावृत्तिः इति जपन् कश्चन प्रकोष्ठे उपविशति चेत् कार्यं लभते वा? प्रथमदर्शने एषः दृष्टान्तः सुयोग्यः दृश्यते खलु? परं किञ्चित् चिन्तयामः चेत् सः अत्र सम्यक् न वर्तते इति ज्ञायेत । यः दृष्टान्तः देयः, यस्मिन् विषये देयः तयोः गुणधर्माः समानाः एव भवेयुः । रामनामसेवावृत्त्योः परिणामाः परस्परविरोधिनः । रामनामजपनस्य अन्तः रामप्राप्तौ इत्युक्ते स्वविस्मरणे भवति । देहबुद्धेः देहातीतत्वं, स्थूलात् सूक्ष्मत्वं चेति रामजपस्य परिणामः । परन्तु सेवावृत्तिः पूर्णतः विपरीता । मूलतः सेवाकल्पना सूक्ष्मा वर्तते । अथ तां लब्धुं दशजनाः प्रार्थनीयाः अनन्तरं दाता लभ्यते अनन्तरं अस्माभिः सा सेवावृत्तिः अङ्गीकरणीया । इत्युक्ते सूक्ष्मायाः सेवाकल्पनायाः स्थूलं प्रति गमनम् इति सेवावृत्तेः स्वरूपम् । परं रामनामस्मरणं स्थूलात् सूक्ष्मात् चापि परं वर्तते । एतेन सेवादृष्टान्तः अत्र सम्यक् न भवतीति स्पष्टम् । अपरं च सेवा सेवा इति जपेन सा दुर्लभेति सत्यम्, परं रामरामजपेन रामप्राप्तिः कथं सुकरा, किं बहुना कथं निश्चयेन शक्या इति पश्यन्तु । मूलतः सेवा इति एका कल्पना वर्तते । तां प्रत्यक्षीकर्तुं नैकानां विषयाणां कथं संयोजनं करणीयं भवति इति अस्माभिः इदानीमेव दृष्टम् । तथैव गृहनिर्माणम् एषा कल्पनैव, तां प्रत्यक्षीकृत्य तत् गृहं सर्वथा सुखसौकर्याणाम् आलयः भवेदिति हेतुना सर्वाणि वस्तूनि संगृह्य तत्र संस्थापनीयानि इत्युक्ते कल्पनायाः कृतौ परिवर्तनम् । इदं कियत् कष्टकरम् अनिश्चितं चेति सर्वैः अनुभूतमेव । रामनामोच्चारणस्य हेतुः स्थूलसूक्ष्मातीत्वेन भवितव्यः । इत्युक्ते सर्वथा परिपूर्णं गृहम् एकैकं वस्तु निक्षिप्य रिक्तं करणीयम् इति एतादृशं भवेत् । एतं विषयं कर्तुकामः सहजं कर्तुं शक्नोति । अतः सेवासेवेति भणित्वा सेवाप्राप्तिः यथा दुर्लभा तथा राम राम इति जपेन रामप्राप्तिः निश्चिता । अतः रामरामजपेन रामप्राप्तिः कथं भवेदिति शङ्कां विना रामरामेति जपनीयम् । मनसः सर्वदुःखानां कारणं देहबुद्धिः । तां नाशयितुमेकम् एव उपायः वर्तते । प्रेम्णा भगवन्नामस्मरणं कर्तव्यम् । तेन सर्वः मलः निर्गच्छेत् । नामस्मरणमेव रामस्य मेलनं कारयेत् । चित्ते तथा आर्तता भवेत् । अहंभावं त्यक्त्वा परमात्मनः भवितव्यम् ।
यः नामजपं करोति तस्य देहसुखदुःखयोः भानं न भविष्यति । सः आनन्देन एव तिष्ठेत् ।
जाने १२
नाम तथा च भगवान् ।
रामरामेति जपेन रामः कथं प्राप्येत इति प्रश्नः निरर्थकः । प्रत्युत रामरामेति जपं विना रामप्राप्तिः अशक्या एव इति वक्तुं शक्यते । व्यवहारे अपि अस्माकम् एषः एव अनुभवः । चिन्तयन्तु, कञ्चित् ग्रामं गन्तुकामाः वयं स्थानकं गत्वा गन्तव्यस्थानस्य वर्णने कृते सति अपि अभिधानं वक्तुम् असमर्थाः कथं वा चिटिकां प्राप्नुमः? प्रत्युत ग्रामवार्ताज्ञानाभावे अपि नाममात्रज्ञानेन चिटिकां प्राप्य वयं ग्रामं गन्तुं शक्नुमः । इत्युक्ते स्थानं जानन्तः वयं नाम विस्मृत्य स्थानं न प्राप्नुमः । एतेन एकं स्पष्टं भवति यदन्यत् सर्वं कृतं परं नाम न जपितं तर्हि न लाभाय । अतः नामजपनमेव अनिवार्यम् । नाम्ना भगवत्प्राप्तिः भवेदिति विश्वासः आवश्यकः । भगवन्नाम्नः आवश्यकता प्रकारद्वयेन विद्यते । प्रपञ्चस्वरूपं ज्ञातुं भगवत्प्राप्त्यर्थं च । उदरपूर्णं भोजनं दारपुत्रगृहादि इति एतस्मिन् सर्वस्मिन् सत्यपि चिन्ताकुलता किमर्थं विद्यते इति वयं न जानीमः । एतस्य अर्थः दुःखस्य मूलं क्व वर्तते इति न जानीमः । तद् अवगन्तुं भगवन्नामजपः अपेक्ष्यते । भगवतः सिषाधयिषा भवेत् तावत् नामजपः अपेक्ष्यते । अथ भगवन्तं विना न कः अपि आधारः इति विचिन्त्य नामस्मरणं कर्तव्यम् । अन्ततः भगवद्दर्शनानन्तरं नामजपः अभ्यासेन सहजः भवति । आहत्य आमूलचूलं भगवन्नाम एव अवशिष्यते । नामजपितरि तस्य अनुसन्धानकर्तरि भगवज्जिज्ञासा सहजम् उद्भवेत् । नाम्नः कृते नाम जपन्तु । तेन तस्मिन् रामः वर्तते इति ज्ञायेत । नामस्मरणे यत् भविष्यति तत् समीचीनं कल्याणकरं च इति विश्वसन्तु । भगवन्नाम एव सच्चिदानन्दस्वरूपं सद्वस्तु । भगवन्नाम्नि यः आत्मानं विस्मरति सः जीवन्मुक्तः । यत् साधनीयं तत् एतदेव । अवशिष्टं सर्वं स्वप्नवत् ज्ञायेत । तद् अनुभूयते परं नास्ति । देहेन सह तादात्म्यं विशिष्टेन अभ्यासेन एव जातमस्ति । प्रत्युत स्वाध्यायं कृत्वा भगवच्चिन्तनं कृतं चेद् यथा साम्प्रतं देहेन तादात्म्यं वर्तते तथा भगवता सह तादात्म्यं भविष्यति ।
उषःकाले उत्थानसमये, रात्रौ शयनसमये, भोजनात् प्राक् च नामजपः करणीयः भगवान् स्मरणीयः चेति नियतनीयम् । तद् आयुषि बहु लाभाय भवेत् ।
जानेवारी १3
नाम तथा सत्कर्म ।
नाम सत्कर्मणः अधिष्ठानं शिखरं च । भगवत्स्मरणे कृतं कर्म सत्कर्म वर्तते । भगवन्तं विस्मृत्य कृतं कर्म कदापि सत्कर्म न भवितुमर्हति । चिन्तयन्तु, कश्चन मुखेन नामोच्चारणमात्रं कुर्वन्, मनसा भगवत्स्मरणं न करोति । तथापि तस्य रामोच्चारणक्रिया सत्कर्म भवितुमर्हति किम्? वस्तुतः नाम्नः स्वतःसिद्धत्वात् ज्ञात्वा अज्ञात्वापि तस्य उच्चारणं सत्कर्म वर्तते । यतो हि यत्र मम नाम तत्राहं पुरुषोत्तमः इति प्रभुवचनमेव वर्तते । अतः नामोच्चारणं भगवान् च न भिन्नौ । मुखेन नामोच्चारणकर्तुः अवधानं भगवन्तं प्रति भवेत्, न भवेत् वा, तस्य इदं कृत्यं सत्कर्म एव वर्तते । इतरकर्माणि नामजपनम् च एतयोः एषः एव भेदः यत् इतरकर्मसु पूर्णत्वं सत्यत्वं वा नाम्ना आयाति । प्रत्युत नाम अपूर्णत्वम् एकत्रं न भवितुमर्हतः । अतः नाम भगवत्स्मरणे जपितं वा नेति प्रश्नः एव न उद्भवति । किं बहुना नाम मुखम् आयाति चेत् सत्कर्माणि एव भवन्ति । पुत्रः जातः चेत् स्तन्यस्रवणं पुत्रस्य लालनं तस्मिन् प्रेम च सहजं विना पाठनं भवन्ति । तद्वत् नामजपितुः सत्कर्मविषये स्थितिः भवति । इतः अपि यदि मातरं वदामः यत् पुत्रः भवत्याः समीपे भवतु, परन्तु तस्मिन् न प्रीणातु. तर्हि तस्याः कृते तद् अशक्यं तद्वत् नामजपिता सत्कर्माणि परिहर्तुं न शक्नोति । सत्कर्माणि तदा एव फलन्ति यदा नामोच्चारणम् आरभते । परमात्मना कथितं यद् भवान् मदीयः भवितुम् इच्छति नु? अथातः प्रपञ्चम् अतिदक्षतया करोतु । प्रयत्ने न्यूनता न भवेत् । परं फलदाता ‘अहमेव अस्मि’ इति मनसि निदधातु । प्राप्तायां परिस्थित्यां समाधानं न दूषयतु । मया दत्तम् औषधिं स्वीकरोतु । सः भवन्तं सर्वरोगमुक्तं कुर्यात् । सः औषधिः वर्तते मम नामजपः । तस्य नामजपस्य भवन्तः अभ्यासं कुर्वन्तु । भवन्तः सर्वे निश्चिन्वन्तु यन्नाम विना जीवनं न अर्थपूर्णम् । नाम विना जीवनमेव मास्तु इत्यहं मनसा मन्ये । नामनिष्ठा कथं कार्यं करोतीति निष्ठया नामजपिता एव जानीयात् । नामप्रेम यस्य वर्तते तस्य पृष्ठे परमात्मा वर्तते इति पूर्णसत्यं, सत्यं, त्रिवाण्या सत्यं च कथयामि । प्रेम्णा, मनसा च नामजपं कुर्वन्तु । एकवारं वा तम् आर्ततया ‘हे राम’ इति आह्वयन्तु येन भगवान् भवद्भिः मेलितुमिच्छेत् ।
सत्कर्मान्तः भगवन्नामप्रेमोत्पन्ने वर्तते ।
जानेवारी १४
न नामजपं किमपि अवरुणद्धि ।
वयं पश्यामः यद् नामजपने प्रेमोद्भवार्थम्, एकैकं सत्कर्मकरणं सुकरम् अथ वा सर्वसत्पुरुषाणाम् विमर्शेण, आर्ततया च कथनानुसारं बलेन नामजपनं सुकरम्? चिन्तयन्तु, कस्मिश्चित् यन्त्रे बहूनि चक्राणि सन्ति । यन्त्रचालनम् अभीप्सितम् । एकचक्रचालनेन यन्त्रचालनं न शक्यम् । सर्वचक्रसम्बन्धिनः पिञ्जस्य नोदनेन यन्त्रम् अत्यल्पप्रयासेन विनावरोधं च चलेत् । तद्वत् नामजपेन सर्वसत्कर्मचक्राणि भ्रमेयुः, कार्यं निश्चयेन सहजतया च आरभेत, अतः यः निश्चितं सहजं यशः इच्छति, सः कथमपि नामजपम् आरभेत । एकवारं नामजपस्य निश्चयः भवति चेत् कथमपि तेन नामजपः आरभणीयः । निश्चये सति न कः अपि विघ्नः अवरुणद्धि । व्यवहारे अपि वयं पश्यामः यत् कस्यचित् असमर्थनीयस्य विषयस्य सङ्कल्पः कृतः चेद् मनुष्यः तं करोति एव । अथातः नामजपनिश्चयः किमर्थं कृतिरूपं न भवेत्? किमपि कुर्वन्तु परमन्तः नाम विना न पर्यायः विद्यते । अतः तत् कर्तुं विलम्बः किमर्थम्? अतः सर्वथा निःशङ्कतया नामजपः करणीय़ः । येन केन प्रकारेण नामस्मरणं करणीयम् इति उत्तमम् । अतः वृथा समययापनेन पश्चात्तापः न भवेत् । जगत् नैकैः मोहकवस्तुभिः पूर्णं वर्तते । दृष्टमात्रेण श्रुतमात्रेण अपि तानि वस्तूनि इच्छामः । तानि प्राप्तुं प्रयतामहे । अतः देवं प्रार्थयामहे, ‘ हे देव, मां मोहकवस्तूनि मा दर्शय । यतः हि तानि अहम् इष्यामि, वञ्चितः भवामि च । देव, मम हितकरमेव मया द्रष्टव्यम् । तदेव मया श्रोतव्यं, स्मर्तव्यं च । मह्यं तदेव रोचितव्यम् । ’ प्रह्लादद्रौपद्यादिभिः भक्तैः देवः किं याचितः? तदेव अस्माभिरपि याचनीयम् । तेषां यथा निष्ठा तथा अस्माकमपि भवेत् । तेषां यथा वैराग्यं तथा अस्माभिः अपि प्राप्तुं प्रयतनीयम् । आदौ प्रमादाः भविष्यन्ति, परं तदर्थं पश्चात्तापः भवेत् । ‘देव, मया बहु प्रमादाः कृताः । अहमपराधी । क्षम्यताम् । मां भवतः कृपापात्रं कुरु । ’ अवितथं पश्चात्तापः भवति, चेत् रामः क्षमते एव । मुखेन नाम उच्चारणीयम् । हस्ताभ्यां प्रपञ्चकार्याणि करणीयानि । अन्तःकरणे समाधानं विधातव्यम् ।
नामजपितुः मनसः बहिः धावनं शनैः शनैः मन्दायते ।
जानेवारी १५
नामस्मरणे भूयते चेदेव जागृतावस्था वर्तते ।
मद्यपानां सम्मेलने सर्वे मद्यमत्ता सन्ति । यदि कश्चन मद्यविहिनः तत्र वर्तते, तर्हि तं ते ‘भानरहितः’ इति वदन्ति । वस्तुतः सः एकः एव जागृतः, अन्ये सर्वे भानरहिताः । तद्वद् वयं सर्वे विषयाधीनाः, एनं ‘नामस्मर्तारः एषः भानरहितः’ इति वदामः । वस्तुतः नाम विना जगति न सत्यं वर्तते इति यस्य दृढा भावना सः एव जागृतः । वयं भ्रमे स्मः । एतं भ्रमं नाशयितुं त्रयः उपायाः विद्यन्ते । सद्विचारः सत्सङ्गतिः नामस्मरणं च । भगवद्विचारः एव सद्विचारः । कमपि जनं वयं वदामः यत् त्वम् अवयवान् वर्णं च विना आयाहि तर्हि सः आगन्तुं न शक्नोति । यतो हि यत्र सः वर्तते तत्रैव तस्य अवयवाः वर्णश्च वर्तन्ते । तथैव नाम, सत्पुरुषाः, भगवान् च संलग्नाः सन्ति । तेन यत्र नाम वर्तते तत्र सत्सङ्गः भगवान् च वर्तेते एव । वत्सं नयामः चेत् गौः अन्वायाति तथा भगवान् नामानुवर्तते । ‘साम्प्रतम् एतावन्ति यन्त्राणि गवेषितानि तथा भगवत्प्राप्त्यर्थं सत्पुरुषैः किमपि यन्त्रं न गवेषितं खलु?’ इति कस्यचित् मनसि प्रश्नः आयाति चेत् तस्य उत्तरं सरलम् । एतादृशं यन्त्रं सत्पुरुषैः गवेषितम् । तस्य नाम वर्तते ‘रामनाम’ । इदं यन्त्रं सर्वैः लभ्यते, सर्वे उपयोक्तुम् अर्हन्ति, तन्न कदापि मलिनीभवति । भक्तः भगवान् नाम च त्रयम् एकरूपम् । यत्र नाम तत्र भक्तः, तत्रैव भगवान् । अतः नाम सर्वेभ्यः श्रेष्ठम् । तन्नाम अनन्यत्वेन जपामः । प्रणाले जलं वहति तत् अतिमलिनं वर्तते । तदेव जलं नदीं प्राप्नोति । नदी सागरेण मिलति । सागरः सर्वान् आत्मसात् करोति । तद्वत् कियान्नपि पापी, दोषी, अपराधी वा जनः भवेत् तेन नामनद्याः आश्रयः कृतः चेत् सः रामसागररूपः भवति । भगवत्विस्मरणं महत्तमं पापम् । नाम्ना भगवत्स्मरणं भवति अतः नाम्ना पापं नश्यति । अनाथः इति शब्दः नाथं विना न वर्तते तथैव नाथाय, अनाथं विना नाथत्वं न लभ्यते । रामः सर्वेषां नाथः । तस्य अखण्डस्मरणं वयं कुर्मः । प्रपञ्चः वनवाससमं वर्तते । रामस्मरणे प्रपञ्चापदः दुःखानि च तृणवत् भविष्यन्ति ।
भवन्तः नामस्मरणं कुर्वन्ति चेत् सत्पुरुषान्वेषणं नापेक्षते । सत्पुरुषाः एव भवन्तम् अन्विषन्तः आयान्ति ।
जानेवारी १६
नामस्मरणार्थम् एव नामस्मरणम् ।
नाम निस्सरणीसदृशं वर्तते । निस्सरण्यां तृणं न वर्धते, परं पादं निस्सरति । तद्वद् नाम स्वात्मनि उपाधिं न अनुमन्यते । तत् किमपि साधनं नापेक्षते । रोगी-नीरोगः सुज्ञः-अज्ञः, श्रीमन्-दरिद्रः, कनीयान्-ज्यायान्, स्त्री-पुरुषः, जाति-गोत्रं च इति एतेषु कथमपि भवति चेत् समस्या न वर्तते । नाम विना अन्यसाधनार्थं शक्तिः, बलं, धनं वा किमपि अपेक्ष्यते । एतादृशम् अत्यन्तम् उपाधिरहितं नाम अस्माभिः उपाधिरहिततया जपितं चेत् तस्मिन् प्रेम उत्पद्यते । उपाधिं विना इत्युक्ते नामस्मरणं केवलं नामस्मरणार्थम् एव, स्वकल्याणार्थम् एव, जगति अन्यस्य कस्यापि कृते च न जपनीयम् । सकामबुद्ध्या जपितं चेद् इष्टकार्यमपि न सिद्ध्यति, स्वकल्याणमपि न भवति । सकामनामजपनं कियत् असमीचीनं तत् वक्तुं दुष्करम् । पश्यन्तु, स्त्री पवित्रा यतः हि तस्याः उदरे देवाः सत्पुरुषाः च जनिं लभन्ते । एतादृशीः स्त्रीः बलात् अपहृत्य ताः अनीत्या पीडयित्वा धनार्जनं केचन कुर्वन्ति । कियान् निन्द्यः विषयः एषः । परं सकामनामजपनम् इतोऽपि बहुगुणितं निन्द्यं वर्तते । अतः नाम नाम्नः कृते जपनीयम् । तस्य सम्बन्धः अस्माकम् इच्छाभिः अपेक्षाभिः सह न योजनीयः । नाम नाम्नः कृते जपामः चेद् मनः अन्तर्मुखं भवति । नाम्नः साहाय्येन मनः अन्तर्मुखं कुर्मः चेद् आनन्दः लभ्यते । स्वहृदये एव सः लभ्यते । अस्माभिः त्रिषु विषयेषु सम्यक् अवधातव्यम्, - शुद्धाचरणं, नामस्मरणं, पालनकर्तुः सद्गुरोः सततभानं च । प्रत्येकं जनाय किमपि विशेषत्वेन रोचते । तस्मिन् स्थित्वा बलेन नामजपः करणीयः । आत्मज्ञानं प्राप्तुं तस्य अनुधावनं कुर्मः चेत् तन्न शीघ्रं लभ्यते । भगवन्तं ध्यायामः चेत् तत् सहजं लभ्यते । भगवतः नामस्मरणं ज्ञानस्य एव लक्षणम् । उत्तमं वस्तु स्वल्पमेव वर्तते । श्रीखण्डे जलरहितं दधि शर्करा च बहु वर्तते परं केशरं स्वल्पं वर्तते । तद्वत् नाम अपि प्रतिदिनं स्वल्पं, परं मनःपूर्वकं प्रतिफलापेक्षां विना जपामः चेत् तद् बहु कार्यं कुर्यात् । भगवान् सर्वसत्ताधीशः वर्तते । परम् एकस्मिन् विषये स पङ्गुः भवति, सहजं जाले निपतति च । भृङ्गः यथा काष्ठं कर्तयति, परं कमले आत्मानं बध्नाति तथा नामविषये भगवतः भवति ।
यथा जलं शरीरस्य जीवनं तथा नाम मनसः जीवनम् ।
जानेवारी १७
नाम अन्यसाधनानि च ।
नवविधाभक्त्याः श्रवणं, कीर्तनं, विष्णुस्मरणम् इत्यादिः क्रमः सृष्टिक्रमानुसारं वर्तते । मनुष्यप्राणी जातः चेत् श्रवणेन पठनारम्भं करोति । मूकाः जनाः श्रवणहीनाः स्युः । यतो हि श्रवणहीनत्वेन हि ते वक्तुं न शक्नुवन्ति । मनुष्यः यत्र जनिं प्राप्नोति तत्रस्थां भाषां वदति । अतः श्रवणानन्तरं कीर्तनम् इत्युक्ते भाषणं तथा भाषणानन्तरं कृतिः इत्युक्ते नामस्मरणम् इत्येषः क्रमः विद्यते । नामस्मरणम् आरब्धं चेत् अस्माकं कार्यं जातं यतो हि अग्रिमाः सर्वाः भक्तयः नामस्मरणे विद्यन्ते । तासां कृते भिन्नाः प्रयत्नाः नापेक्षन्ते । कश्चन जनः अन्येन जनेन मेलितुं नवमैलपरिमिते अन्तरे अवस्थितं स्थानं गन्तुं प्रस्थितः । परं त्रिमैलान्तरे एव स मिलितः । अतः कार्यं जातमिति मत्वा सः अग्रे न गच्छेत् । तद्वत् तृतीयां नामस्मरणभक्तिं कृत्वा अग्रिमानां षड्भक्तीनामपि फलं लभ्यते । भगवत्स्मरणे सर्वस्वं वर्तते इति मनसि दृढं भवतु । भगवत्स्मरणं कथं वर्तते? अन्ये सर्वे विषयाः, सर्वाणि सत्कर्माणि, दानधर्मः, तीर्थयात्रा, पारायणम्, इत्यादयः विषयाः इन्द्रियसदृशाः सन्ति । एते यदि इन्द्रियाणि इति मन्यते तर्हि भगवत्स्मरणं प्राणः वर्तते । प्राणं विना इन्द्रियाणां न कः अपि उपयोगः । अतः नामस्मरणं प्राणं मत्वा भवन्तः प्रपञ्चे सुखिनः भवन्तु । कर्तव्यात् मा प्रमत्त । कर्तव्ये भगवन्तं स्मरन्तु । मुखे रामः भवतु । भक्तेन उपाधिः अत्यल्पः, यथावश्यकम् एव रक्षणीयः । भगवदनुसन्धानं न विस्मरेत् तावान् एव उपाधिः भवेत् । तथैव यावत् जीर्येत् तावत् एव इत्युक्ते यावत् आनन्देन भवेत् तावदेव नामस्मरणं कुर्यात् । कष्टेन न कुर्यात् । यतो हि तेन आनन्दः न भवेत् । नामजपे प्रेम आवश्यकम् । अतः नाम अतिप्रेम्णा, तद्विना किमपि न साधनीयम् इति मत्वा जपनीयम् । तेन तस्मिन् प्रेम भवेत् । नामजपे प्रेमोद्भवः इति अत्युच्चावस्था वर्तते । सा सहजं न लभ्यते । अस्मिन् विद्यमानं रहस्यं ज्ञात्वा योग्यपद्धत्या सातत्येन नामस्मरणाभ्यासः करणीयः । ‘भगवन्नाम विना किमपि न जानामि’ इति यस्य भावना तेन सर्वं ज्ञातम् ।
नामस्मरणं कर्तुं बुद्धिः भवति चेत् कार्यं जातम् ।
जानेवारी १८
नामजपः निष्ठया करणीयः ।
नाम श्रद्धया जपनीयम् इत्युक्ते किम्? स्वगुरुणा, पूज्यजनेन वा कथितम्, अतः जपनीयम् । एतया श्रद्धया नामजपितुः मनसि शङ्का न वर्तते । एषा अवस्था भाग्यवती, परं दुर्लभा । निष्ठया नामजपनम् इत्युक्ते शङ्कां विना नामजपनम् । शङ्काः बहुविधाः भवन्ति । नामजपसमये भगवन्तं प्रति ध्यानं न भवति चेत् लाभः भवति वा न, आसनं किं भवेत्, दृष्टिः कथं भवेत्, शुचिर्भूतत्वेन जपः भवेत् वा न, इति एतादृश्यः नैकाः शङ्काः भवन्ति । सारांशेन अस्माभिः जपितं नाम भगवन्तं प्रति प्राप्नोति वा न इति अस्यां शङ्कायां सर्वाः शङ्काः समाविष्टाः भवन्ति । भगवान् तस्य नाम एकरूपमेव वर्तते, अतः तयोः मध्ये किमपि न भवितुम् अर्हति । कस्यचिद् मनुष्यस्य पृष्ठतः अनुधावद्भिः अस्माभिः तस्य नाम उच्चारितं चेत् सः तत्कालं परिवृत्य पश्यति । यदि मनुष्यस्य एषा स्थितिः तर्हि भगवन्नाम तं पर्यन्तं कथं न प्राप्नुयात्? वस्तुतः भगवन्नाम तस्य कृपया एव अस्माकं मुखम् आयाति । इत्युक्ते तस्य नाम सः एव जपति । अतः भगवन्नाम तं पर्यन्तं प्राप्नोति वा न वा इति अस्याः शङ्कायाः कृते कः अवसरः? चिन्तयन्तु, द्वौ जनौ भोजनं कुरुतः । एकस्य मनसि विद्यमानां केषाञ्चन विचाराणां कारणेन भोजने अवधानं न आसीत् । परं हस्तेन एकैकं कवलं मुखे स्थापयन् आसीत् । अपरः ध्यानपूर्वकं भोजनं कृतवान् । भोजनानन्तरं रिक्तोदरः कः? द्वावपि पूर्णोदरौ । तद्वद् नामजपनानन्तरं परिणामः कथं न भवेत्? चिन्तयन्तु, ग्रामान्तरात् कञ्चन अपरिचितं जनं वयं पत्रेण आहूतवन्तः । आगत्य स वदति, ‘भवद्भिः यं प्रति पत्रं लिखितं सः एव अहम् । ’ तस्य वचने विश्वस्य वयं तं स्वीकुर्मः । तथैव ‘यत्र मम नाम तत्र अहं पुरुषोत्तमः । ’ इति एतस्मिन् भगवद्वचने विश्वस्य नामजपनं, तस्मिन्नेव तस्य दर्शनं च किमर्थं कर्तुं न शक्नुमः? एषा एव श्रद्धा । जनकस्य नाम वयं स्वनाम्नि योजयामः तद्वद् भगवद्विषये कुर्मः । तस्य नाम्ना जीवामः । मम सर्वकर्ता रक्षकः एकः एव, तं विना जगति मम न कोऽपि इति अनया भावनया जीवामः । एतादृशः यः भगवतः भूत्वा वर्तते, तस्य महत्त्वं भगवान् स्वापेक्षया वर्धयते ।
नाम्ना भगवत्प्राप्तिः भवेत् इति विश्वासः भवेत् । एतादृशः नामजपः ‘निष्ठापूर्वकं नाम’ इति ख्यातः ।
जानेवारी १९
नाम प्रारब्धभोगाः च ।
नाम्नः प्रारब्धेन कथं सम्बन्धः इति बहवः जनाः पृच्छन्ति । एकया दृष्ट्या एषः प्रश्नः अतिमहत्त्वपूर्णः । सामान्यतः बहवः जनाः प्रारब्धं परिहर्तुं नामजपं कुर्वन्ति । देहस्य सुखदुःखं ममैव सुखदुःखम् इति ते मन्यन्ते । किं बहुना देहः सुखी तर्हि अहं सुखी, देहः दुःखी तर्हि अहं दुःखी इति सामान्यजनः चिन्तयति । अस्तु, प्रारब्धभोगात् न कः अपि मुञ्चति । अतः कथं करणीयम्? अत्र धातव्यं यत् प्रारब्धभोगानां गतिः देहपर्यन्तम् एव भवति । अतः येषां देहबुद्धिः न्यूना जाता, ते देहस्य सुखदुःखैः न पीड्यन्ते । नामजपेन देहबुद्धिः न्यूना भवति । तेन नामस्मर्ता प्रारब्धभोगान् भुञ्जन् अपि आनन्देन जीवति । नामस्मरणानन्दे सः प्रारब्धभोगान् तृणवत् मन्यते । नामजपस्य सामर्थ्यम् अतिविलक्षणम् । अतीतान् अपराधान् नामजपः नाशयति । भ्रष्टजीवान् सः त्रायते । नामजपः सर्वासां प्रार्थनानां, सेवानां, पूजानां च राजा वर्तते । आनन्दमयस्य भगवतः सन्निकर्षः नामजपेन लभ्यते, तस्य कृपा अपि अविलम्बेन लभ्यते च । किं बहुना ये भगवत्कृपां लभन्ते तेषाम् एव मुखेन नामोच्चारणं भवति । सर्वेषु समयेषु, सर्वेषु स्थानेषु, सर्वासु अवस्थासु च केनापि कर्तुं सुलभं नाम एव साधनं वर्तते । अत्यल्पेन उपाधिना, निरुपाधिकेन भगवता सम्बन्धं योजयितुं नामसदृशं साधनं न वर्तते । कियद्भिः प्रकारैः कथयामि खलु? अखण्डनामजपे अवस्थानं मोक्षः एव । अखण्डनामजपे अवस्थानमेव पराभक्तिः । यः नामजपे आसक्तः सः एव सत्पुरुषः । नामजपे प्रेम एव सत्पुरुषलक्षणम् । अतः मम इदमेव श्रुण्वन्तु यत् नामस्मरणं कदापि न विस्मरन्तु । प्रारब्धभोगैः जामिताः न भूत्वा भगवता यस्यां स्थित्यां स्थापिताः तस्यां समाधानं मन्यन्ताम् । परं कदापि नामजपं न विस्मरन्तु । नाम्ना पापिनः पुण्यवन्तः भवन्ति । देहबुद्धिक्षयः एव पुण्यम् । तन्नामजपेन लभ्यते । नामजपेन कलेः प्रभुत्वं नश्यति । विषयवासनाभिः दुर्वासनाभिः वा बुद्धिभ्रष्टत्वं कलेः मुख्यलक्षणम् । नामजपेन तस्य मूलाघातः भवति । अतः नामधारकः कलिना न बाध्यते, प्रारब्धं न गणयति च । नामजपः शरीरं पुण्ययुतं करोति । यस्य अन्तःकरणे नाम वर्तते तत्र भगवदागमनेन शरीरे सत्वगुणः वर्धते, तेन तत् पुण्ययुतं भवति च । देहं प्रारब्धे संस्थाप्य तस्मात् भिन्नं भूत्वा यत् वर्तते तस्मिन् आनन्देन स्थातव्यम् । भोगाः प्रारब्धेन आयान्ति इति न चिन्तयित्वा भगवदिच्छया आयान्ति इति मन्यते चेत् समाधानं लभ्यते ।
भगवन्तं स्मृत्वा यत् योग्यं तत् तस्य इच्छया एव इति मत्वा कार्यं करणीयम् । यः एतादृशं करोति सः समाधानं प्राप्नोति ।
जानेवारी २१
नाम्नः अनुभवः ।
नाम्नः अनुभवः कः? नाम्नः अनुभवः नाम विना अन्यत्र न द्रष्टव्यः । इत्युक्ते नाम विना किमपि प्राप्तव्यम् इति कल्पनापि न भवेत् । नाम मुखम् आयाति इति एव नाम्नः अनुभवः । यावता मानेन नामस्मरणं भवति तावता मानेन नाम अनुभूतम् इति मन्तव्यम् । अखण्डं नामस्मरणं भवति चेत् पूर्णानुभवः प्राप्तः । नामस्मरणं कारं कारं चित्तम् एकाग्रं भवति । देहबुद्धिं विस्मृत्य नामस्मरणम् इत्युक्ते निर्गुणेन भवितव्यम् । ‘कः अहम्’ इति कथं ज्ञातव्यम्? ‘कः अहम्’ इति अवगन्तुं जडेन इत्युक्ते वाण्या नामस्मरणम् आरभणीयम् । अखण्डोच्चारः प्रयतनीयः । अनन्तरं तद् मनसः अन्तः भवति । आरम्भे स्वप्रयत्नेन मनसः नामाभ्यासं न कारयेत् । यतो हि तत् बहु दुष्करम् । नामस्मरणं कुर्वन् देहविस्मरणानन्तरं ‘कः अहं’ ‘कः देवः’ च इति सहजं जानीयात् । भगवन्नाम्नि आसक्तः चेत् दुःखभानं न्यूनायते । दुःखस्य अभाने सति दुःखेन वर्तमानेन अपि किम्? कृष्णरात्रौ यथा यष्टेः आधारः तथा प्रपञ्चे नाम । यष्ट्याधारेण खातगर्ताः परिह्रियन्ते तद्वद् मोहलोभादयः याः प्रापञ्चिकसमस्याः नामजपेन ज्ञायन्ते, परिह्रियन्ते च । अग्निसमीपे घृतं द्रवीभवति तथैव नामचूल्ल्याम् अभिमानः क्षीयते एव । एषः एव नामानुभवः । परं जना नामविषये न श्रुण्वन्ति । ये श्रुण्वन्ति ते दृढं न धारयन्ति । मननं न कुर्वन्ति । मननं कृत्वा ये स्वीकुर्वन्ति ते नामस्मरणं न कुर्वन्ति । समस्याः उद्भवन्ति चेदपि नामस्मरणं शक्यम् । अतः निमित्तानि न कथनीयानि । निमित्तकथनेन धूर्तता उत्पद्यते । धूर्ततया अलसः उद्भवति । अलसेन सर्वनाशः भवति । प्रतिदिनम् जागरणानन्तरं भगवत्स्मरणस्य नियमः करणीयः । स्नानादिं कृत्वा स्मरणं कुर्मः चेत् उत्तमं, परं तदर्थं न स्थातव्यम् । भगवत्स्मरणं मुख्यम् । अखण्डनामस्मऱणार्थं शौचाशौचबन्धनं न वर्तते । अखण्डस्मरणं शौचमेव । कापि उपासना भवेत् नामस्मरणं विना सा न जीर्यते । महत्त्वं नामजपस्य वर्तते । अन्नं भिन्नदेशे भिन्नं भवति परं तत् जरयितुं जलं सर्वत्र समानमेव । जलं विना अन्नं न जीर्यते । तद्वत् उपासनारूपम् अन्नं जरयितुं नामरूपं जलम् अपेक्ष्यते । अतः नाम्ने महत्त्वं दत्त्वा सततं नामजपस्य अभ्यासः करणीयः । कथमपि प्रसङ्गः भवेत् नामस्मरणं न त्यक्तव्यम् । ततः एव परमात्मा हस्तलम्बं करिष्यति ।
नाम जपितुं स्वस्य एव बाधा वर्तते । तां दूरं कुर्मः चेत् नामानुभवः आयाति ।
जानेवारी २२
भवसागरम् उत्तर्तुं नाम एव साधनम् ।
नाम स्वयंसिद्धं वर्तते । अतः तत् अत्यन्तम् उपाधिरहितम् । नामजपसमये वयं बहुवारं तेन उपाधिं योजयामः । उदाहरणार्थम् ऐहिकसुखप्राप्त्यर्थं वयं नामजपं कुर्मः वा ‘अहं नामजपं करोमि’ इति अहंकारं धरामः वा । एतेन उपाधिकारणेन अस्माकं विकासपथे बहवः विघ्नाः आयान्ति । अतः नाम्नः कृते एव नामस्मरणं करणीयम् । तदपि सद्गुरुः एव अस्मत् कारयति इति अनया भावनया करणीयम् । तेन अहंकारनाशेन शरणागतिः लभ्येत । शरणागतेः प्राप्त्यर्थं रामनाम एव उपायः । सः अस्माभिः आचरणीयः । सः उपायः अवश्यम् आचरणीयः । नाममहिम्नः भाषणं वचसा दुष्करम् । परमिदं कथयितुं वक्तव्यं भवति एव । मनुष्यप्राणी भवसागरे निमज्जन् वर्तते । समुद्रात् तरणाय यथा नौका तथा भवसागरात् उत्तरणाय भगवन्नाम साधनं वर्तते । केवलमेका दक्षता आवश्यकी यत् नौकां समुद्रजलं न प्रविशेत्त्, अन्यथा वयं नौकया सह निमज्जेम । तद्वत् संसाररूपसमुद्रजलं नामस्म्ररणरूपां नौकां न प्रविशेत् । इत्युक्ते केनापि प्रापञ्चिकेन विघ्नेन नामजपे विक्षेपः न आगच्छेत् । तथैव नामस्मरणस्य उपयोगः संसारविघ्नान् अपाकर्तुं न करणीयः इति बुद्धिं धृत्वा नामस्मरणार्थमेव नामस्मरणं करणीयम् । तेन नौकायां जलप्रवेशं विना अपरं तटं इत्युक्ते भगवन्तं प्राप्तुं शक्नुमः । कः अपि विषयः अभ्यासेन एव लभ्यते । देहः कदा शान्तः भवेदिति न जानीमः । अतः वृद्धत्वे नामस्मरणं करिष्यामः इति न वक्तव्यम् । श्वः आरभ्य नामस्मरणं करिष्यामि इति वदामः चेत् श्वस्तनस्य कः विश्वासः? आयुः क्षणिकं वर्तते इति प्रत्येकं जनस्य विश्वासः, अतः एव मनुष्यः आयुविर्मां नियोजयति । विवाहमागताः प्राहुणिकाः कार्यसिध्दिर्विषये चिन्तां न कुर्वन्ति । परं गृहजनानां सा चिन्ता वर्तते । अस्माकं प्रपञ्चे वयं प्राहुणिकसदृशाः व्यवहरामः । देहादिकं सर्वं रामाय समर्प्य निश्चिन्ताः भवामः । सुवर्णमौक्तिकाभूषणयुता श्रीमती महिला भवेत्, लघ्वाभूषणधृता मध्यमा स्त्री भवेत् रौप्यपादाङ्गूलीयकमङ्लसूत्रमात्र धरन्ती निर्धना स्त्री वा भवेत्सर्वासां कृते कुङ्कुमं समानम् । तथैव केनापि भेदेन विना नाम सर्वेषां कृते समानमेव साधनं वर्तते । सूर्यः प्रकाशमात्रं ददाति । परं तेन अन्धकारः सहजं नश्यति । तथा एव नाम भगवत्प्रेम वर्धयते । तेन अस्माकं दोषाः सहजं निलीयन्ते । भगवदस्तित्वं यदा मनसा स्वीक्रियते, वा भगवत्कर्तृत्वम् अधिकाधिकम् अनुभूयते च तदा परमार्थे अस्माकं उन्नतिः जाता इति मन्तव्यम् ।
जीवनार्थं यथा श्वासोच्छ्वासः अपेक्ष्यते तथा भगवन्मेलनार्थं प्रत्येकं श्वासोच्छ्वासेन सह नामस्मरणम् अपेक्ष्यते ।
जानेवारी २3
नामस्मरणक्षेत्रस्य निभालनम् ।
नामस्मरणरूपात् क्षेत्रात् उत्तमं सस्यं प्राप्तुम् आदौ सदाचरणम् अपेक्ष्यते । सदाचरणं क्षेत्ररक्षणार्थं वृतिसदृशं वर्तते, अतः तस्य महत्त्वम् । अपरं शुद्धान्तःकरणम् । शुद्धान्तःकरणम् इत्युक्ते उत्तमा कृष्णा भङ्गुरा भूमिः । अश्मनः, निरुपयुक्तान् वनस्पतीन् च निष्कास्य भूमिः स्वच्छा करणीया । इत्युक्ते अन्तःकरणे कस्यापि विषये द्वेषः, मत्सरः इत्यादय़ः न रक्षणीयाः । शुद्धान्तःकरणानन्तरं नामस्मरणस्य महत्त्वं वर्तते । नामस्मरणं भूम्यां वपितुं बीजं वर्तते । बीजं कीटजुष्टं न स्यात् । इत्युक्ते नाम सकामं न भवेत् । उत्तमं बीजम् इत्युक्ते नाम्नः कृते नाम । तदनन्तरं तीर्थयात्रा, सत्पुरुषाणाम् आशीर्वादाः, तेषां कृपादृष्टिः च इति एतेषाम् आवश्यकता वर्तते । एते सर्वे विषयाः कुल्याजलसदृशाः । एतेन सस्यं सम्यक् फलेत् । अन्तिमः महत्त्वपूर्णः विषयः वर्तते भगवत्कृपा । भगवत्कृपा वृष्टिजलसदृशी । कुल्याजलापेक्षया वृष्टिजलं विलक्षणमेव वर्तते । वृष्टिः न अस्माकं हस्ते । कुल्याजलं वापीतः तडागात् नद्याः वा नेतुं शक्यते । परं वृष्टिविषये कः अपि किमपि कर्तुं न शक्नोति । तस्मात् यद्यपि कश्चन क्षेत्रपालनं सम्यक् करोति, उत्तमं बीजं वपति, तथापि वृष्टेः अभावात् सस्यविहीनः भवितुमर्हति । नामस्मरणरूपस्य क्षेत्रस्य एकं वैशिष्ट्यं वर्तते यत् तस्मिन् लोहचुम्बकसमा आकर्षिका शक्तिः वर्तते । अतः इदं क्षेत्रं भगवत्कृपारूपां वृष्टिम् आकृष्य स्वात्मनि सिञ्चति । तेन वृष्टेः अभावात् सस्यं गतम् इति कदापि न भवति । द्वौ कृषीवलौ स्तः । तयोः एकः समयेन स्वक्षेत्रं जोषयति । अपरः अलसः इत्युक्ते क्षेत्रस्य सम्यक् जोषनं न करोति । यदा वृष्टिः भवेत् तदा येन क्षेत्रं सम्यक् निभालितं तस्य सस्यं वर्धेत । परं अपरस्य न । भगवत्कृपया जातायाः वृष्ट्याः लाभः प्रथमस्य कृते भवेत् । न तु अन्यस्य कृते । इत्युक्ते यः नियमः प्रपञ्चे सः एव परमार्थे । भगवत्कृपा सर्वेषु समप्रमाणेन वर्षति । यथा यस्य चित्तशुद्धिः तथा तस्य लाभः । अन्येषां कृते न । भगवान् सत्पुरुषाः च समदर्शिनः । भगवान् निःपक्षपातः । सः भेदं न करोति । वयं सिद्धाः चेत् तस्य कृपा सहजं वर्तते एव । कृपायोग्या भावना अस्माभिः सम्पादनीया । सत्पुरुषाणां कथनमात्रं न पर्याप्तम् । किं करणीयं तत् ज्ञात्वा स्वयं करणीयं भवति । तेषु यदि वयं भेदभावनां पश्यामः तर्हि तस्याः उद्भवः अस्मासु एव वर्तते इति स्पष्टम् ।
शुद्धान्तःकरणेन नामस्मरणं कुर्मः चेत् भगवत्कृपा अनुभूयते ।
जानेवारी २४
नामसाधनं कथं कुर्यात्?
नामजपसाधनं कथं करणीयम्? कस्मिञ्श्चित् पाषाणखण्डे जलम् अर्पितं चेत् जलनिर्गमात् सः शुष्कः भवेत् । परं तदेव जलं बिन्दुबिन्दुरूपेण एकस्मिन्नेव स्थाने निरन्तरं पातितं चेत् पाषाणे अपि छिद्रं भवेत् । कदाचित् पाषाणः भग्नः भवेत् । तद्वत् कादाचित्कप्रदीर्घसाधनस्य अपेक्षया नित्यम्, निश्चितसमये, शक्यते चेत् निश्चिते स्थाने यदि नामसाधनम् अल्पमपि कृतं तर्हि तत्परिणामकारि भवेत् । घरट्टे द्वे चक्रे । एकं स्थिरम् अपरं चलम् । तेन धान्यस्य पिष्टं बहिरायाति । परं यदि द्वे अपि चक्रे भ्रमतः चेत् वृथा भ्रमणं भवति, धान्यं न पिष्टायते । मनुष्यस्य शरीरं मनः च द्वे चक्रे । तयोः मनः स्थिरं शरीरं चलम् । मनः परमेश्वरे स्थिरं, कृत्वा शरीरं प्रपञ्चार्थं भ्रामणीयम् । प्रारब्धं देहपर्यन्तम् एव वर्तते । प्रारब्धदण्डः देहरूपे चक्रे संयुज्य तं भ्रामयति । मनोरूपं चक्रं स्थिरं भवति च । देहः प्रारब्धे परित्यज्य मनः भगवत्स्मरणे स्थिरं करणीयम् । इतः अपि नामसाधनम् अन्यत् किम्? इदं साधनं विशिष्टस्य जनस्य एव सिद्ध्यति इति न, तत् सर्वेषां कृते सिद्ध्यति । दरिद्रस्य दारिद्र्यदुःखकारणात् न सिद्ध्यति, श्रीमतः धनाभिमानलोभयोः कारणेन न सिद्ध्यति । विदुषः विद्याभिमानकारणेन न सिद्ध्यति, अज्ञजनः किं करणीयमिति न जानाति अतः न सिद्ध्यति । साशंकतया कृतेन कियता अपि साधनेन नामस्मरणेन वा कदापि समाधानं न लभ्येत । नीतिधर्मेण आचरणं, शास्त्रशुद्धं वर्तनं, शुद्धान्तःकरणं, भगवत्स्मरणं च इति एते विषयाः भवन्ति चेत् साधकः अन्तपर्यन्तं प्राप्नोति । अन्तपर्यन्तं प्राप्नोति चेद् एव लाभः । गृहं प्राप्य पत्रं लिखतु इति वदन्ति एतस्य एषः एव अर्थः । प्रपञ्चे दुर्विचाराः मनः आयान्ति तथैव परमार्थे अपि दुर्विचाराणाम् आगमनेन न भेतव्यम् । यदा दुर्विचाराः आयान्ति तदा भगवन्नाम जपनीयं तेन तेषां वर्धनं न भवेत् । दृढविश्वासेन नामजपः करणीयः । यत्र कर्तव्यभानं भगवत्स्मृतिः च वर्तते तत्रैव समाधानं लभ्यते । ‘भगवन्, अहं तव एव’ इति अहोरात्रम् उच्चरणेन भगवान् प्रकटीभवति । भगवान् यथा प्रकटीभवति तथा अहंभावस्य भारः न्यूनीभवेत् ।
प्रारब्धस्य ग्रहाणां च गतिः देहपर्यन्तम् एव वर्तते । मनसा भगवद्भजने तेषां प्रत्यवायः न ।
जानेवारी २५
अनुसन्धानार्थं सततं नामस्मरणं करणीयम् ।
नामस्मरणं प्रपञ्चार्थम् इत्युक्ते सः सम्यग् भवेत् तदर्थं न, अपि तु प्रपञ्चासक्तिं न्यूनीकर्तुं वर्तते । तथापि तेन प्रपञ्चः न भज्यते । यत् भविष्यति तत् स्वकल्याणार्थम् इति मत्वा परमात्मनि विश्वस्य भवेम । कश्चन गृहस्थः माम् उक्तवान्. रिक्तसमये अहं नामस्मरणं करोमि । ” तदा अहम् उक्तवान्, आयुषि महत्त्वपूर्णः अर्थपूर्णः च समय एषः । तदर्थं भवान् रिक्तः कथं वदति? स अवदत्, प्रारब्धभोगान् वयं परिहर्तुं न शक्नुमः । ते भोक्तव्याः एव इति सर्वे सत्पुरुषाः कथयन्ति । इदं सत्यं तर्हि प्रारब्धभोगसमये भगवत्स्मरणस्य का आवश्यकता वर्तते?” सत्यः एषः प्रश्नः । स्वकर्मभोगाः अस्माभिः एव भोजनीयाः इदं सत्यम् । परं यदा भोगाः उद्भवन्ति तदा मनः क्षुब्धं भवति । यदि तत् भगवत्स्मरणे योजितं तर्हि समाधानं लभ्येत । साम्प्रतं ‘भगवदिच्छया यथा प्रवर्तते तथा सर्वं भवति’, इति, ‘भगवान् सम्यगेव करिष्यति’ इति वा विश्वासेन सर्वं सरलं भवेत् । अस्मिन् चिन्तने इदं सामान्यं तथापि महद्रहस्यं वर्तते । ‘भगवदिच्छया यथा वर्तते तथा एव वर्तनीयम्’ इति निष्ठोद्भवार्थम् भगवतः अनुसन्धानं सततम् अनुवर्तनीयम् । वर्तमाने समाधानं भगवदनुसन्धानं च इत्येषा सद्गुरोः आज्ञा । कस्यापि पीडनेन अस्माकम् अनुसन्धानं भज्यते चेत् न तस्य, एषः अस्माकं दोषः । विषयः कथं नश्येत्? मनः कथम् एकाग्रं भवेत्? इति यदि न ज्ञायते तर्हि अनुमतम् । त्यक्तव्यविषयाणाम् अभ्यासस्य अपेक्षया ध्यातव्यविषयाणाम् इत्युक्ते भगवतः अनुसन्धानस्य अभ्यासः करणीयः । भगवन्मात्रस्य अनुसन्धानं भवति चेत् सर्वे गुणाः सहजं वर्धन्ते । यथा शरीरावयवाः समप्रमाणेन वर्धन्ते तथा । वृक्षमूले जलं सिञ्चामः चेत् तस्य सर्वभागान् प्राप्नोति तद्वद् भगवत्स्मरणं कुर्मश्चेद् सर्वं सम्यक् प्रवर्तते । ‘अज्ञानान्धकारेण दुःखभोगसमये त्वं मम स्मरणम् अनुसन्धानं च कुरु, येन मार्गः प्रकाशते’ इति साक्षात् श्रीकृष्णः अर्जुनं सूचयति । दीपज्वलनार्थं तस्मिन् सततं तैलं अर्पणीयं तथा भगवदनुसन्धानार्थं सततं तस्य नामस्मरणं करणीयम् । यस्य अनुसन्धानं सततं वर्तते तस्य भोजनं, प्राशनम्, उत्थानम्, उपवेशनम् इत्यादयः सर्वाः क्रियाः भगवत्सेवाभूताः वर्तन्ते ।
भगवदनुसन्धानम् अस्माकं ध्येयम् । तदनुसारेण वयम् अन्यविषयान् कुर्मः ।
जानेवारी २६
अन्तकालं सुन्दरं कर्तुं नामस्मरणम् ।
देहान्ते नामस्मरणं भवति चेत् सः सुन्दरः जातः । तदर्थं पूर्वं नामस्मरणं कर्तव्यम् । देहान्तं सुन्दरं कर्तुं एव जीवेत् । यत्र भगवान् निवसति तदेव अस्माकं वास्तवं गृहम् । साम्प्रतं यस्मिन् वयं निवसामः तद् भाटकगृहम् । भाटकगृहं त्यक्त्वा स्वगृहे निवसितुं गमनसमये यथा आनन्दः भवति तथैव शरीरत्यागसमये भवेत् । भगवद्गृहम् एव अस्माकं स्वगृहम् इति विश्वासः यदा भवेत् तदा तत् शक्यम् । तदर्थं वयं सदा भगवन्नामजपे भवेम । मां भवान् मदीयः इति कथयतु, मम मनः भवतः चरणे समर्पितम् । अधुना मत्तः कापि भवन्तं याच्ञा न भवेत् । ”इति याचनीयम् । परमेश्वरः अस्मान् परितः वर्तते इति सदा मन्तव्यम् । भगवत्स्मरणम् इत्युक्ते अस्माकं यत् वर्तते तत् तस्य इच्छया एव वर्तते इति मननीयम् । प्रपञ्चः देवस्य इति मत्वा अभिमानेन विना कुर्याम इति एव परमार्थः । परमात्मानं विना मदीयः न कः अपि वर्तते इति एतस्य दृढनिश्चयः एव ज्ञानम् । इदं ज्ञानं जीवने तद्रूपं जातं चेत् मनुष्यः वस्तुतः परमात्मप्राप्तिमार्गे लग्नः । एतेन साधनेन परमात्मानं विना मह्यं न किमपि रोचेत । एषा आत्यन्तिकी रुचिः एव भक्तिः । एतस्याः भक्त्याः परिपूर्णता सुन्दरे देहान्ते भवति । तदर्थं सततं नामस्मरणम् अखण्डानुसन्धानं वा इदम् एकमेव साधनं कथितं वर्तते । अन्तसमये येन नामजपः कृतः तस्य विषयवासना मृता इति न, सः सहसा मुक्तः न भवति, परम् अग्रिमे जन्मनि सः सात्विकातिशयेन जनिं प्राप्नोति । सात्विकः इत्युक्ते भगवत्प्राप्तुकामा वृत्तिः यस्य सः । साधनं प्राणेन सह भवेत्, इत्युक्ते यथा प्राणः अभिमानरहितः अखण्डः तथा साधनमपि अभिमानरहितम् अखण्डं भवेत् । तत् न करणीयम् । कर्तृभावेन अभिमानः भवति । प्राणेन सह सहजतया भवति चेत् अखण्डं भवति एव । प्रपञ्चार्थं व्याकुलता न भवेत् । गुर्वाज्ञया वर्तनीयम् । अनन्तजन्मसु देहेन सह वासेन देहे आसक्तिः भवति, तेन देहबुद्धिः भवति । तद्वत् नाम्ना सह वासः सुदीर्घः करणीयः । तेन विषये आसक्तिः न्यूनीभूय नाम्नि प्रेम भवति । योगे बहूनि कष्टानि । अस्मिन् युगे तस्य प्राप्तिः अशक्या इव । कर्मणि तु अभिमानः वर्तते वर्धते च । भक्त्यां कष्टानि न सन्ति, अभिमानः अपि गलति । योगः, कर्म च साधने परमात्मनः दत्तकपुत्रसमं वर्तेते तथा भक्तिसाधनम् औरसपुत्रसमम् । भगवान दृष्ट्याः परे न करणीयः इति एव वास्तवा भक्तिः । इदं वास्तवम् अनुसन्धानम्, एषः एव सत्यः परमार्थः, इदम् एव वस्तुतः अस्माकं सर्वस्वम् ।
केवलं देहस्य तीर्थस्नानेन पूजापाठेन च परमार्थः न भवति । अस्माकं वृत्तिः भगवति योजनीया ।
जानेवारी २७
नाम परमात्मानं गन्तुं राजमार्गः ।
सर्वसाधनेषु श्रेष्ठं साधनं नामस्मरणम् एव, परं तस्य महत्त्वं न ज्ञायते । तदवगन्तुं परमार्थतः भगवत्कृपा अपेक्ष्यते । अस्माकं शरीरे मुख्यं हृदयम् अन्ये अवयवाः गौणाः तद्वत् परमार्थे मुख्यं साधनं नामस्मरणं तथा अन्यसाधनानि गौणानि । नाम मङ्गलेषु मङ्गलम् अत्यन्तं पवित्रं च वर्तते । अस्माकं जीवनं देवस्य हस्ते, देवः नामाधीनः च वर्तते इति दृढं मनसि धरन्तु । योगे योगसाधनाकाले एव समाधानं वर्तते, परं नामस्मरणानुसन्धाने निरन्तरं समाधानं वर्तते । स्वस्य निर्गुणत्वेन विना निर्गुणोपासना न भवति । तेजोदर्शनं, नादश्रवणम् इत्यादयाः विषयाः गुणे एव भवन्ति ननु? निर्गुणत्वेन स्थातुं देहबुद्धिः त्यक्तव्या । सर्वव्यापिनः परमेश्वरस्य सर्वेषु भूतेषु दर्शनं निर्गुणोपासना एव । योगः नामस्मरणार्थं यावत् पोषकः तावदेव करणीयः, प्राधान्येन सः एव न करणीयः । योगः नामस्मरणार्थं पोषकः, परं नामस्मरणं योगातीतं वर्तते । नामस्मरणे योगः निहितः । योगे नामस्मरणं न वर्तते । सर्वसाधनानाम् अन्तः¬ नामस्मरणे वर्तते । नामसाधनं शीघ्रयानसमं वर्तते । वर्णदर्शनं, प्रकाशदर्शनं, ध्वनिश्रवणं, इत्यादीनि मध्यस्थानि स्थानकानि त्यक्त्वा नामस्मरणं भगवन्तं प्रति प्रापयति । इतरेभ्यः साधनेभ्यः शीघ्रम् इष्टप्राप्तिः भासेत, परं सा क्षणिका । नामजपेन कश्चित् विलम्बः भवेत् परं यत् लब्धं तत् चिरकालीनं भवेत् । यतो हि नाम्ना मूलतः परिष्करणं भवति । नामस्मरणं परमात्मनं प्रति गन्तुं राजमार्गः । नाम्नि आनन्दं विहाय किमपि न वर्तते । नामानन्दस्य आवेगेन मनुष्यः आत्मानं विस्मरेत् । तुकाराममहाराजस्य वाणी अनियन्त्रिता जाता । अनवरतं नामोच्चारणम् आरब्धम् । एतस्य अर्थः यत् नामजपः तस्य कल्पनातीतः जातः यथा प्रणतमार्गे यानम् अतिवेगेन धावति अनियन्त्रितं भवति च । अस्माकं शक्त्याः अतीतं कार्यं भवति चेत् सा भगवत्कृपा एव । चत्वारः जना आसन् । ते सर्वे एकेन रोगेन पीडिताः । परं तेषां साम्पत्तिकी स्थितिः भिन्ना । तेषु दरिद्रं जनं वैद्यः तुलसीरसम् औषध्यनुपानरूपेण सूचितवान् । तस्मात् धनिकं मधु सूचितवान् । तस्मादपि धनिकं केशरं सूचितवान् । धनिकतमं कस्तुरीं सूचितवान् । तद्वत् यथा यस्य अधिकारः तथा तेन जपः करणीयः । नाम केवलं मुखेन जपनीयं, श्रद्धया जपनीयं, वृत्तिः रक्षित्वा जपनीयं, नाम विना जगति किमपि सत्यं न इति दृढं मत्वा जपनीयम् । सर्वैः समानमेव फलं लभ्यते ।
सर्वसाधनानामन्तः नामस्मरणे वर्तते ।
जानेवारी २८
अकर्तृत्वभावनया नामजपः करणीय़ः ।
किमपि न करणीयम्, अहं किमपि करोमि, मया किमपि करणीयं वा इति न भावनीयम् इत्येव परमार्थः । परं स्वस्थेन भवितव्यम् इति कारागृहे दण्डनम् इति मन्यन्ते । देहेन मनसा च सततं किमपि चलनवलनं करणीयम् इत्येव अस्माकम् अभ्यासः । स्थिरदेहेन भवितव्यमिति दुष्करं, स्वस्थमनसा भवितव्यमिति ततोऽपि दुष्करम् । स्थिरदेहेन स्वस्थमनसा च भवितव्यमिति इति तु अतीव कठिनम् । वस्तुतः मनः स्वास्थ्यम् अपेक्षते । परं तत् प्राप्तुं साधनम् इत्युक्ते प्रयत्नाः करणीयाः । मनसः स्वास्थ्यं दूषयितुं यानि कारणानि तानि पश्यामः । प्रथमं स्वमनःविरोधि किमपि भवति । द्वितीयम् अस्माकं पूर्वतनदुष्कर्माणां स्मरणम् । तृतीयं श्वस्तनी चिन्ता । प्रत्येकं जनः स्वेच्छानुकूलं भवेत् इति इच्छति । सर्वे भवतः इच्छानुसारं कथं व्यवहरन्ति? भवतः¬ इच्छाविरोधिनः विषयाः भवन्ति एव । अतः स्वास्थ्यदूषणपरिहारस्य अस्माकम् इच्छा एव नाशनीया । किमपि वस्तु मया प्राप्तव्यम् इति बुद्धिः एव न भवेत् । लोभः त्यक्तव्यः । लोकेषणा त्यक्तव्या । अभिमानं त्यक्त्वा कर्म करणीयम् । प्रयत्नं कृत्वा यशः न लभ्यते चेद् दुःखं भवति । स्वास्थ्यं नश्यति । ‘अहं न कृतवान्’ इति यदि भावः तर्हि क्व दुःखम्? प्रयत्नं कृत्वा यद् भवति तद् रामेच्छया भवति इति चिन्तनीयम् । प्रत्येकं विषयं रामः कृतवान् इति मननम् इत्युक्ते भगवदखण्डानुसन्धानेन भवितव्यम् । इदं भावं लब्धुम् अखण्डनामस्मरणं करणीयम् । यद् जातं, यद् भवति, यद् भविष्यति च तत् तद् भगवता अस्माकं हिताय कृतम्, अहं न कर्ता इति मन्तुम् अखण्डभगवन्नामस्मरणम् आवश्यकम् । सारांशेन यद् यद् जातं तद् भगवता मम हिताय कृतम् । श्वस्तनीं चिन्तां भगवान् एव करोति । तेन यद् योग्यम् इति मतं तत् सः करोति । अतः यद् अतीतं तन् न स्मर्तव्यम् । यद् भविष्यति तस्य चिन्ता न करणीया । वर्तमानः क्षणः न वृथा यापनीयः । नामस्मरणं करणीयम् । अखिले प्रपञ्चे या वास्तवा विश्रान्तिः सा नामस्मरणम् एव । विद्यमानायां परिस्थित्याम् असमाधानम् इति यः देहबुद्धेः स्वभावः, तं वयं सर्वत्र योजयामः । सर्वविषयाणां ज्ञानं यावन्न भवति तावत् किमपि न करोमि इति वयं वदामः । सर्वविषयाणां ज्ञानम् आजीवनं न भवति चेद् वयं किमपि न कुर्मः । देहबुद्धिः अस्मान् भगवन्तं विस्मारयति । अस्यां देहबुद्ध्यां नामजपमन्त्रस्य जलं सिञ्चयामः । तेन तस्याः वर्धनं न भवेत् ।
मनः परमेश्वरे स्थिरीकृत्य देहेन प्रपञ्चः करणीयः ।
जानेवारी २९
नामजपे कथं दृढभाव आननीयः?
नामजपे प्रेम नामजपेन एव आगच्छेत् । इदं प्रेम उत्पादयितुं विषयप्रेम नष्टव्यम् । दृढनिष्ठा आवश्यकी । नामजपः एव त्रायेत । नामजपः एव सर्वं कुर्यात् इति दृढभावः आवश्यकः । तं रक्षित्वा व्यवहारे प्रयत्नाः करणीयाः । परं य़शोदाता परमात्मा एवेति भावः आवश्यकः । वैद्यस्य औषधिः सेवकेन आनीतः, परं गुणं सेवकः दत्तवान् इति न वदामः । इतोऽपि अग्रे गत्वा वैद्यस्य औषधिना प्राप्तः गुणः परमात्मना दत्तः इति किमर्थं न मन्यामहे । परमात्मनं शरणगमनम् इत्युक्ते ‘परमात्मा मम विद्यते’, ‘तं विना मम कः अपि नास्ति’, ‘अहं किमपि न करोमि सः एव सर्वं मम हिताय करोति’ च इति दृढः विश्वासः रक्षणीयः । वयं स्वपत्नीपुत्रेषु प्रीणीमः यतो हि ते अस्मदीयाः इति अस्माकं विश्वासः । इत्युक्ते प्रेम ममत्वे वर्तते । अतः परमात्मा अस्मदीयः इति मन्यन्ते चेत् सहजं तस्मिन् किमर्थं प्रेम न भवेत्? द्वितीयं यद् भगवान् अस्माकं जीवलगः सखा । सः सर्वम् अस्माकं हिताय एव करोति इति विश्वसिमः चेत् चिन्तायाः कृते क्व अवकाशः? अस्माकं देहबुद्धिनाशनम् एव अस्माकं हितम् । परमात्मनि आत्मीयत्वम् उत्पादयितुं तस्य नाम्ना सह प्रदीर्घः वास आवश्यकः । सिद्धेः चमत्कारस्य च अनुधावनं न कुर्मः । ते अस्माकं मार्गे विघ्नाः । प्रत्युत तैः अस्माकम् अनुधावनं करणीयम् । कमपि जनं सर्पः दशति, परं तत्र कः विशेषः? सर्पे कस्मिन्नपि वा भगवद्भावः द्रष्टव्यः । तेन कः अपि अस्माकं शत्रुः न भवेत् । अम्बायाः समीपे अस्मि इति कल्पनया शिशुः निर्भयः भवति तद्वत् भगवान् समीपे वर्तते इति भावेन अस्माभिः निर्भयत्वेन भवितव्यम् । यं ग्रामं गन्तुम् इच्छामः तं गन्तुं यानम् आगतं वा इति द्रष्टव्यम् । याने केन मिलति इति एतस्य बहु महत्त्वं न वर्तते । चिन्तयन्तु, याने न केन अपि मिलितः तर्हि वयं सुखेन निद्रां कुर्वन्तः ग्रामं गच्छामः । तद्वद् वयम् अस्माकं साधनं कुर्मः । सृष्टितत्त्वानि कति इत्यादिषु विषयेषु न पतामः । तस्य निर्णयः कदापि न भवेत् । शङ्कानिमिलनेन विना नाम स्थिरं न भवति इति धातव्यम् । देहबुद्धिः यावत् वर्तते, तावत् नाममहत्त्वं न ज्ञायते । अस्माकम् उद्धारम् इच्छामः चेत् नामस्मरणं न त्यक्तव्यम् ।
यथा परमात्मा निरुपाधिकः तथा नाम अपि निरुपाधिकम् ।
जानेवारी 3१
नाम एव भगवतः अवतारः ।
अस्मिन् युगे नाम एव भगवतः अवतारः । ‘साधुरक्षणार्थं दुष्टनिर्दालनार्थं च अहम् अवतरामि’ इति भगवान् गीतायां कथयति । तेन निश्चीयते यत् साधुदुष्टयोः अस्तित्वं वर्तते । दुष्टाः साधून् पीडयन्ति तेन भगवतः अवतारः भवति । साम्प्रतं साधवः दुर्लभाः इति दृश्यते । इत्युक्ते येषां पीडनेन भगवान् अवतरति ते न अवशिष्टाः । अतः भगवान् केषां कृते आगच्छेत्? एतस्य अर्थः भगवतः अवतारः एव न भवेत् इति न परं वस्तुस्थितिम् अवगन्तुम् इदं कथितम् । साम्प्रतिकी परिस्थितिः तथा पूर्वतनी परिस्थितिः इति एतयोः मध्ये भेदः वर्तते । पुरा सद्भावना आसीत् परं तथा आचरणं कठिनम् । साम्प्रतं सद्भावना एव नष्टा । अधिष्ठानम् एव नष्टम् । अतः आचरणस्य प्रश्नः एव न उद्भवति । पुरा सद्भावना सूक्ष्मत्वेन वा जीवन्ती आसीत् परं स्थूला प्रकटकृतिः दुर्लभाः । तदा भगवता स्थूलरूपेण कार्यकरणम् आवश्यकम् जातम् । अतः भगवता सगुणरूपं धृत्वा कार्यं कृतम् । साम्प्रतं दुर्वासनां विलाय्य सद्वासना कथम् उत्पादनीया इति प्रश्नः । इत्युक्ते कार्यं सूक्ष्मत्वे वर्तते । अतः यथा रोगः तथा औषधिः अथ वा कण्टकेन कण्टकः निष्कासनीयः इति एतेन न्यायेन उपायः सूक्ष्मत्वे एव करणीयः । वासनां परिवर्तयितुं वासनसदृशः एव प्रभावी उपायः अपेक्ष्यते । सः वर्तते भगवन्नाम । प्राप्तपरिस्थित्यां संघर्षं कृत्वा मार्गम् अन्वेष्टुं यः अवतारः वर्तते सः भगवन्नाम एव । तदर्थं सर्वैः भगवन्नाम्नः उच्चारवः करणीयः । इदं कार्यं भगवता सगुणरूपं धृत्वा न शक्यम् । यतः कारणं सूक्ष्मं ततः उपायः अपि सूक्ष्मः अपेक्ष्यते । अतः नामावतारस्य आवश्यकता वर्तते । प्रत्येकं नाम्ना सह अवतारः वर्तते । तस्य भक्तिः इत्युक्ते तस्य नामजपः एव अस्माकं मुख्यं कर्तव्यम् । यदि तत् कुर्मः तर्हि नाम स्वावतारकार्यं कृत्वा दर्शयेत् । रामस्य सर्वाः कृतयः आकृतयः च मधुराः । तस्य नाम्नि कियत् मधुरत्वं भवेत् । सर्वरामायणस्य सारं रामनाम्नि वर्तते । वयम् अस्माकं प्रेम प्रपञ्चे योजितवन्तः, तन् नाम्नि योजयामः । तेन नामस्मरणे महान् आनन्दः लभ्येत । मनः रामनाम्नि आसक्तं, रामप्रेमे तल्लीनं चेत् जीवनं सफलं जातम् ।
नाम्ना कलेः शासनं नश्यति । अतः नामधारकं कलिः न बाधते ।