संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|ब्रह्मखण्ड|धर्मारण्य खण्डः| अध्याय २९ धर्मारण्य खण्डः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० विषयानुक्रमणिका धर्मारण्य खण्डः - अध्याय २९ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २९ Translation - भाषांतर सूत उवाच ॥अतः परं शृणुध्वं हि लोहासुरविचेष्टितम् ॥बलेः पुत्रशतस्यापि कथयिष्यामि विश्रुतम् ॥१॥यथा तौ भ्रातरौ वृद्धौ प्रापतुः स्थानमुत्तमम्॥तदा प्रभृति वैराग्यं दैत्यो लोहासुरे दधौ ॥२॥किं करोमि क्व गच्छामि तपसे स्थानमुत्तमम् ॥यस्य पारं न जानंति देवता मुनयो नराः ॥३॥को मयाऽऽराध्यतां देवो हृदि चिंतयते भृशम् ॥इति चिंतयतस्तस्य मतिर्जाता महात्मनः ॥४॥दधौ गंगां स्वशीर्षेण पुष्पवंतौ च नेत्रयोः ॥हृदा नारायणं देवं ब्रह्माणं कटिमंडले ॥५॥इंद्राद्या देवताः सर्वे यद्देहे प्रतिबिंबिताः ॥प्रपश्यंति तदात्मानं भास्करः सलिले यथा ॥६॥तमेवाराधयिष्यामि निरंजनमकल्मषः ॥एवं कृत्वा मतिं दैत्य स्तपस्तेपे सुदुष्करम् ॥भीतो जन्मभयाद्घोराद्दुष्करं यन्महात्मभिः ॥७॥अंबुभक्षो वायुभक्षः शीर्णपर्णाशनस्तथा ॥दिव्यं वर्षशतं साग्रं यदा तेपे महत्तपः ॥ततस्तुतोष भगवांस्त्रिशूलवरधारकः ॥८॥॥ ईश्वर उवाच ॥वरं वृणीष्व भद्रं ते मनसा यदभीप्सितम् ॥लोहासुर मया देयं तव नास्ति तपोबलात् ॥९॥इत्युक्तो दानवस्तत्र शंकराग्रे वचोऽब्रवीत् ॥१०॥॥ लोहासुर उवाच ॥यदि तुष्टोसि देवेश वरमेकं वृणोम्यहम् ॥शरीरस्याजरत्वं च मा मृत्योरपि मे भयम् ॥११॥जन्मन्यस्मिन्प्रभो भूयात्स्थातव्यं हृदये मम ॥एवमस्तु शिवः प्राह तत्र तं दानवेश्वरम् ॥१२॥शर्वलब्धवरो दैवात्पुनस्तेपे महत्तपः ॥रम्ये सरस्वतीतीरे तरणाय भवार्णवात् ॥१३॥वत्सराणां सहस्राणि प्रयुतान्यर्बुदानि च ॥शंकते भगवानिंद्रो भीतस्तस्य तपोबलात् ॥१४॥मा मे पदच्युतिर्भूयाद्दैत्यल्लोहासुरात्क्वचित् ॥मघवान्गुप्तरूपेण समेत्याश्रमकाननम् ॥१५॥तपोभंगं प्रकुरुते कंपयित्वा महासुरम् ॥ताडयंति शरीरे तं मुष्टिभिस्तीक्ष्णकर्कशैः ॥१६॥अथ तेन च दैत्येन ध्यानमुत्सृज्य वीक्षितम् ॥इंद्रेण तत्कृतं सर्वं तपोबलविनाशनम् ॥१७॥तस्य तैरभवद्युद्धमिंद्राद्यैरथ कर्क्कशैः ॥एकस्य बहुभिः सार्द्धं देवास्ते तेन संयुगे ॥१८॥रुधिराक्लिन्नदेहा वै प्रहारैर्जर्जरीकृताः ॥केशवं शरणं प्राप्ता त्राहि त्राहीति भाषिणः ॥१९॥॥ सूत उवाच ॥देवानां वाक्यमाकर्ण्य वासुदेवो जनार्दनः ॥युयुधे केशवस्तेन युद्धे वर्षशतं किल ॥२०॥ततो नारायणं तत्र जिगाय स वरोर्जितः ॥अथ नारायणो देवो जितो लोहासुरेण तु ॥२१॥मंत्रयामास रुद्रेण ब्रह्मणा च पुनःपुनः ॥मीमांसित्वा त्रयो देवाः पुनर्युद्धसमुद्यमम् ॥२२॥लोहासुरस्य दैत्यस्य वपुर्दृष्ट्वा पुनर्नवम् ॥महदासीत्पुनर्युद्धं दैत्यकेशवयोस्ततः ॥२३॥न ममार यदा दैत्यो विष्णुना प्रभविष्णुना ॥तरसा तं केशवोऽपि पातयामास भूतले ॥२४॥उत्तानं पतितं दृष्ट्वा पिनाकी परमेश्वरः ॥दधार हृदये तस्य स्वरूपं रूपवर्जितः ॥२५॥कण्ठे तस्थौ ततो ब्रह्मा तस्य लोहासुरस्य च ॥चरणौ पीडयामास स्वस्थित्या पुरुषोत्तमः ॥२६॥अथ दैत्यः समुत्तस्थौ भृशं बद्धोपि भूतले ॥दृष्ट्वोत्थितं ततो दैत्यं पातयंतं सुरोत्तमान् ॥२७॥उवाच दिव्यया वाचा विरंचिः कमलासनः ॥२८॥॥ ब्रह्मोवाच ॥लोहासुर सदा रक्ष वाचोधर्ममभीक्ष्णशः ॥त्वया यत्प्रार्थितं रुद्रात्तदेव समुपस्थितम् ॥२९॥अहं विष्णुश्च रुद्रश्च त्रयोऽमी सुरसत्तमाः ॥त्वद्देहमुपवेक्ष्यामो यावदाभूतसंप्लवम् ॥३०॥दानवेश शिवप्राप्तिर्भावभक्त्यैव जायते ॥शिवं चालयितुं बुद्धिः कथं तव भविष्यति ॥३१॥अचलांश्चालयेद्यस्तु प्रासादान्ब्राह्मणान्पुरान् ॥अचिरेणैव कालेन पातकेनैव लिप्यते ॥३२॥श्मशानवत्परित्याज्यः सत्यधर्मबहिष्कृतः ॥सत्यवागसि भद्रं ते मा विचालय देवताः ॥३३॥येन यातास्तु पितरो येन याताः पितामहाः ॥तेन मार्गेण गंतव्यं न चोल्लंघ्या सतां गतिः ॥३४॥दानवेश पिता ते हि ददौ लोकत्रयं हरेः ॥वाक्पाशबद्धः पाताले राज्यं चक्रे महीपतिः ॥३५॥तथा त्वमसि वाक्पाशाच्छिवभक्तिसमन्वितः ॥भूतले तिष्ठ दैत्येंद्र मा वाग्वैकल्प्यमाप्नुहि ॥३६॥वरांस्ते च प्रदास्यामो मा विचाल्या हि देवताः ॥३७॥॥ व्यास उवाच ॥तच्छ्रुत्वा ब्रह्मणो वाक्यं संतुष्टो दानवेश्वरः ॥प्राह प्रसन्नया वाचा ब्रह्माणं केशवं हरम् ॥३८॥॥ लोहासुर उवाच ॥वाक्पाशबद्धस्तिष्ठामि न पुनर्भवतां बले ॥ब्रह्मा विष्णुश्च रुद्रश्च त्रयोऽमी सुरसत्तमाः ॥३९॥स्थास्यंति चेच्छरीरे मे किं न लब्धं मया ततः ॥इदं कलेवरं मे हि समारूढं त्रिभिः सुरैः ॥४०॥भूम्यां भवतु विख्यातं मत्प्रभावात्सुरोत्तमाः ॥४१॥लोहासुरस्य वाक्येन हर्षिता स्त्रिदशास्त्रयः ॥ददुः प्रत्युत्तरं तस्मै ब्रह्मविष्णुमहेश्वराः ॥४२॥सत्यवाक्पाशतो दैत्यो न सत्याच्चलितो यतः ॥तेन सत्येन संतुष्टा दास्या मस्ते मनीप्सितम् ॥४३॥॥ ब्रह्मोवाच ॥यथा स्नानं ब्रह्मज्ञानं देहत्यागो गयातले ॥धर्मारण्ये तथा दैत्य धर्म्मेश्वरपुरः स्थिते ॥४४॥कूपे तर्प्पणकं श्राद्धं शंसंति पितरो दिवि ॥संतुष्टा पिंडदानेन गयायां पितरो यथा ॥४५॥वांछंति तर्प्पणं कूपे धर्मारण्ये विशुद्धये ॥दानवेन्द्र शरीरं तु तीर्थं तव भविष्यति ॥४६॥एकविंशतिवारांस्तु गयायां तर्प्पणे कृते ॥पितॄणां या परा तृप्तिर्जायते दानवाधिप ॥४७॥धर्मेश्वर पुरस्तात्सा त्वेकदा पितृतर्पणात् ॥स्याद्वै दशगुणा तृप्तिः सत्यमेव न संशयः ॥४८॥पितॄणां पिंडदानेन अक्षय्या तृप्तिरस्त्विह ॥शिवरूपांतराले वै धर्मारण्ये धरातले ॥४९॥श्रद्धयैव हि कर्त्तव्याः श्राद्धपिंडोदकक्रियाः ॥तथांतराले चास्माकं श्राद्धपिंडौ विशेषतः ॥५०॥तथा शरीरे क्वापिस्तांचिंता सत्योऽसि सुव्रत॥त्रिषु लोकेषु दुष्प्रापं सत्यं ते दिवि संस्थितम् ॥५१॥अस्मद्वाक्येन सत्येन तत्तथाऽसुरसत्तम ॥गयासमधिकं तीर्थं तव जातं धरातले ॥५२॥अस्माकं स्थितिरव्यग्रा तव देहे न संशयः ॥सत्यपाशेन बद्धाः स्म दृढमेव त्वयाऽनघ ॥५३॥॥ विष्णुरुवाच ॥गयाप्रयाग कस्याऽपि फलं समधिकं स्मृतम् ॥चतुर्द्दश्याममावास्यां लोहयष्ट्यां पिंडदानतः ॥५४॥बलिपुत्रस्य सत्येन महती तृप्तिरत्र हि ॥मा कुरुष्वात्र संदेहं तव देहे स्थिता स्वयम् ॥५५॥सरस्वती पुण्यतोया ब्रह्मलोकात्प्रयात्युत ॥प्लावयिष्यंति देहांगं मया सह सुसंगता ॥५६॥यथो वै द्वारका वासो देवस्तत्र महेश्वरः ॥विरंचिर्यत्र तीर्थानि त्रीण्येतानि धरातले ॥५७॥भविष्यति च पाताले स्वर्गलोके यमक्षये ॥विख्यातान्यसुरश्रेष्ठ पि तॄणां तृप्तिहेतवे ॥५८॥अथान्यत्संप्रवक्ष्यामि गाथां पितृकृतां पराम् ॥आज्ञारूपां हि पुत्राणां तां शृणुष्व ममानघ ॥५९॥पितर ऊचुः॥शंकरस्याग्रतः स्थानं रुद्रलोकप्रदं नृणाम् ॥पापदेहविशुद्ध्यर्थं पापेनोपहतात्मनाम् ॥६०॥तस्मिंस्तिलोदकेनापि सद्गतिं यांति तर्पिताः ॥पितरो नरकाद्वा पि सुपुत्रेण सुमेधसा ॥६१॥गोप्रदानं प्रशंसंति तत्तत्र पितृमुक्तये ॥पित्रादिकान्समुद्दिश्य दृष्ट्वा रुद्रं च केशवम् ॥६२॥ तिलपिण्याकपिंडेन तृप्तिं यास्यामहे पराम् ॥चतुर्द्दश्याममावास्यां तथा च पितृतर्पणम् ॥६३॥अज्ञातगोत्रजन्मानस्तेभ्यः पिंडांस्तु निर्वपेत् ॥तेऽपि यांति दिवं सर्वे ये दत्त इति श्रुतिः ॥६४॥सर्वकार्याणि संत्यज्य मानवैः पुण्यमीप्सुभिः ॥प्राप्ते भाद्रपदे मासे गंतव्या लोहयिष्टका ॥अज्ञातगोत्रनाम्ना तु पिंड मंत्रमिमं शृणु ॥६५॥पितृवंशे मृता ये च मातृवंशे तथैव च ॥अतीतगोत्रजास्तेभ्यः पिंडोऽयमुपतिष्ठतु ॥६६॥॥ विष्णुरुवाच ॥अनेनैव तु मंत्रेण ममाग्रे सुरसत्तम ॥क्षीणे चंद्रे चतुर्द्दश्यां नभस्ये पिंडमाहरेत् ॥६७॥पितॄणामक्षया तृप्तिर्भविष्यति न संशयः ॥तिलपिण्याकपिंडेन पितरो मोक्षमाप्नुयुः ॥६८॥क्षणत्रयविनिर्मुक्ता मानवा जगतीतले ॥भविष्यंति न संदेहो लोहयष्ट्या तिलतर्पणे ॥६९॥स्नात्वा यः कुरुते चात्र पितृपिंडोदकक्रियाः ॥पितरस्तस्य तृप्यंति यावद्ब्रह्मदिवानिशम् ॥७०॥अमावास्यादिनं प्राप्य मासि भाद्रपदे सरः ॥ब्रह्मणो यष्टिकायां तु यः कुर्यात्पितृतर्पणम् ॥७१॥पितरस्तस्य तृप्ताः स्युर्यावदाभूतसंप्लवम् ॥तेषां प्रसन्नो भगवानादिदेवो महेश्वरः ॥७२॥अस्य तीर्थस्य यात्रायां मतिर्येषां भविष्यति ॥गोक्षीरेण तिलैः श्वेतैः स्नात्वा सारस्वते जले ॥७३॥तर्पयेदक्षया तृप्तिः पितॄणां तस्य जायते ॥श्राद्धं चैव प्रकु र्वीत सक्तुभिः पयसा सह ॥७४॥अमावास्यादिनं प्राप्य पितॄणां मोदमिच्छुकः ॥रुद्रतीर्थे ततो धेनुं दयाद्वस्त्राणि यमतीर्थके ॥७५॥विष्णुतीर्थे हिरण्यं च पितॄणां मोक्षमिच्छुकः ॥विनाक्षतैर्विना दर्भैर्विना चासनमेव च ॥वारिमात्राल्लोहयष्ट्यां गयाश्राद्धफलं लभेत् ॥७६॥॥ सूत उवाच ॥एतद्वः कथितं विप्रा लोहासुरविचेष्टितम् ॥यच्छ्रुत्वा ब्रह्महा गोघ्नो मुच्यते सर्वपातकैः ॥७७॥एकविंशतिवारन्तु गयायां पिंड पातने ॥तत्फलं समवाप्नोति सकृदस्मिञ्छ्रुते सति ॥७८॥चतुःष्कोटि द्विलक्षं च सहस्रं शतमेव च ॥धेनवस्तेन दत्ताः स्युर्माहात्म्यं शृणु यात्तु यः ॥७९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये लोहासुरमाहात्म्यसंपूर्तिर्नामैकोनत्रिंशोऽध्यायः ॥२९॥ N/A References : N/A Last Updated : November 20, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP