संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|ब्रह्मखण्ड|धर्मारण्य खण्डः| अध्याय १ धर्मारण्य खण्डः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० विषयानुक्रमणिका धर्मारण्य खण्डः - अध्याय १ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय १ Translation - भाषांतर ॥ श्रीगणेशाय नमः॥॥तर्तुं संहृतिवारिधिं त्रिजगतां नौर्नाम यस्य प्रभोर्येनेदं सकलं विभाति सततं जातं स्थितं संसृतम्॥यश्चैतन्यघनप्रमाण विधुरो वेदांतवेद्यो विभुस्तं वन्दे सहजप्रकाशममलं श्रीरामचन्द्रं परम् ( ॥१॥ )दाराः पुत्रा धनं वा परिजनसहितो बंधुवर्गः प्रियो वा माता भ्राता पिता वा श्वशुरकुलजना भृत्यऐश्वर्य्यवित्ते॥विद्या रूपं विमलभवनं यौवनं यौवतं वा सर्वे व्यर्थं मरणसमये धर्म एकः सहायः (॥२॥)नैमिषे निमिषक्षेत्रे ऋषयः शौनकादयः॥सत्रं स्वर्गाय लोकाय सहस्रसममासत ॥१॥एकदा सूतमायांतं दृष्ट्वा तं शौनकादयः ॥परं हर्षं समाविष्टाः पपुर्नेत्रैः सुचेतसा॥चित्राः श्रोतुं कथास्तत्र परिवव्रुस्तपस्विनः ॥२॥अथ तेषूपविष्टेषु तपस्विषु महात्मसु॥निर्दिष्टमासनं भेजे विनयाल्लोमहर्षणिः ॥३॥सुखासीनं च तं दृष्ट्वा विघ्नांतमुपलक्ष्य च ॥अथापृच्छंस्त ऋषयः काश्चित्प्रास्ताविकीः कथाः ॥४॥पुराणमखिलं तात पुरा तेऽधीतवान्पिता ॥कच्चित्त्वयापि तत्सर्वमधीतं लोमहर्षणे॥ ५॥कथयस्व कथां सूत पुण्यां पापनिषूदिनीम्॥श्रुत्वा यां याति विलयं पापं जन्मशतोद्भवम् ॥६॥॥ सूत उवाच ॥श्रीभारत्यंघ्रियुगलं गणनाथपदद्वयम् ॥सर्वेषां चैव देवानां नमस्कृत्य वदाम्यहम् ॥७॥शक्तींश्चैव वसूंश्चैव ग्रहान्यज्ञादिदेवताः ॥नमस्कृत्य शुभान्विप्रान्कविमुख्यांश्च सर्वशः ॥८॥अभीष्टदेवताश्चैव प्रणम्य गुरुसत्तमम् ॥नमस्कृत्य शुभान्देवान्रामादींश्च विशेषतः ॥९॥| यान्स्मृत्वा विविधैः पापैर्मुच्यते नात्र संशयः ॥तेषां प्रसादाद्वक्ष्येऽहं तीर्थानां फलमुत्तमम् ॥सर्वेषां च नियंतारं धर्मात्मानं प्रणम्य च ॥१०॥धर्म्मारण्यपतिस्त्रिविष्टपपतिर्नित्यं भवानीपतिः पापाद्वः स्थिरभोगयोगसुलभो देवः स धर्मेश्वरः ॥सर्वेषां हृदयानि जीवकलया व्याप्य स्थितः सर्वदा ध्यात्वा यं न पुनर्विशंति मनुजाः संसारकारागृहम्॥ ११॥॥ सूत उवाच ॥एकदा तु स धर्म्मो वै जगाम ब्रह्मसंसदि ॥तां सभां स समालोक्य ज्ञाननिष्ठोऽभवत्तदा॥ १२॥देवैर्मुनिवरैः क्रांतां सभामालोक्य विस्मितः ॥देवैर्यक्षैस्तथा नागैः पन्नगैश्च तथाऽसुरैः। ॥१३॥ऋषिभिः सिद्धगंधर्वैः समाक्रांतोचितासना ॥ससुखा सा सभा ब्रह्मन्न शीता न च घर्म्मदा ॥१४॥न क्षुधं न पिपासां च न ग्लानिं प्राप्नुवन्त्युत॥नानारूपैरिव कृता मणिभिः सा सभा वरैः ॥१९॥स्तंभैश्च विधृता सा तु शाश्वती न च सक्षया ॥दिव्यैर्नानाविधैर्भावैर्भासद्भिरमितप्रभा ॥१६॥अति चन्द्रं च सूर्य्यं च शिखिनं च स्वयंप्रभा ॥दीप्यते नाकपृष्ठस्था भर्त्सयंतीव भास्करम् ॥१७॥तस्याँ स भगवाञ्छास्ति विविधान्देवमानुषान् ॥स्वयमेकोऽनिशं ब्रह्मा सर्वलोकपितामहः ॥१८॥उपतिष्ठंति चाप्येनं प्रजानां पतयः प्रभुम्॥दक्षः प्रचेताः पुलहो मरीचिः कश्यपः प्रभुः ॥१९॥भृगुरत्रिर्वसिष्ठश्च गौतमोऽथ तथांगिराः ॥पुलस्त्यश्च क्रतुश्चैव प्रह्लादः कर्द्दमस्तथा ॥२०॥अथर्वांगिरसश्चैव वालखिल्या मरीचिपाः ॥ मनोंऽतरिक्षं विद्याश्व वायुस्तेजो जलं मही ॥२१॥शब्दस्पर्शौ तथा रूपं रसो गंधस्तथैव च ॥प्रकृतिश्च विकारश्च सदसत्कारणं तथा ॥२२॥अगस्त्यश्च महातेजा मार्कंडेयश्च वीर्यवान् ॥जमदग्निर्भरद्वाजः संवर्तश्च्यवनस्तथा ॥२३॥दुर्वासाश्च महाभाग ऋष्यश्रृंगश्च धार्मिकः।सनत्कुमारो भगवान्योगाचार्य्यो महातपाः ॥२४॥असितो देवलश्चैव जैगीषव्यश्च तत्त्ववित्॥आयुर्वेदस्तथाष्टांगो गान्धर्वश्चैव तत्र हि ॥२९॥चंद्रमाः सह् नक्षत्रैरादित्यश्च गभस्तिमान् ॥वायवस्तंतवश्चैव संकल्पः प्राण एव च ॥२६॥मूर्तिमंतो महात्मानो महाव्रतपरायणाः ॥एते चान्ये च बहवो ब्रह्माणं समुपासिरे ॥२७॥अर्थो धर्मश्च कामश्च हर्षो द्वेषस्तमो दमः ॥आयांति तस्यां सहिता गंधर्वाप्सरसां गणाः ॥२८॥शुक्राद्याश्व ग्रहाश्चैव ये चान्ये तत्समीपगाः ॥मंत्रा रथंतरं चैव हरिमान्वसुमानपि ॥२९॥महितो विश्वकर्मा च वसवश्चैव सर्वशः ॥तथा पितृगणाः सर्वे सर्वाणि च हवींष्यथ ॥३०॥ऋग्वेदः सामवेदश्च यजुर्वेदस्तथैव च ॥अथर्ववेदश्च तथा सर्वशास्त्राणि चैव ह ॥३१॥इतिहासोपवेदाश्च वेदांगानि च सर्वशः॥मेधा धृतिः स्मृतिश्चैव प्रज्ञा बुद्धिर्यशः समाः ॥३२॥कालचक्रं च तद्दिव्यं नित्यमक्षयमव्ययम् ॥यावन्त्यो देवपत्न्यश्च सर्वा एव मनोजवाः ॥३३॥गार्हपत्या नाकचराः पितरो लोकविश्रुताः ॥सोमपा एकशृंगाश्च तथा सर्वे तपस्विनः ॥३१ ।नागाः सुपर्णाः पशवः पितामहमुपासते ।स्थावरा जंगमाश्चापि महाभूतास्तथा परे ॥३९॥पुरंदरश्च देवेंद्रो वरुणो धनदस्तथा॥महादेवः सहोमोऽत्र सदा गच्छति सर्वदः ॥३६॥गच्छंति सर्वदा देवा नारायणस्तथर्षयः॥ऋषयो वालखिल्याश्च योनिजायोनिजास्तथा। ॥३७॥यत्किंचित्रिषु लोकेषु दृश्यते स्थाणु जंगमम् ॥तस्यां सहोपविष्टायां तत्र ज्ञात्वा स धर्मवित् ॥३८॥देवैर्मुनिवरैः क्रांतां समालोक्यातिविस्मितः॥हर्षेण महता युक्तो रोमांचिततनूरुहः ॥३९॥तत्र धर्मो महातेजाः कथां पापप्रणाशिनीम् ॥वाच्यमानां तु शुश्राव व्यासेनामिततेजसा ॥४०॥धर्मारण्यकथां दिव्यां तथैव सुमनोहराम् ॥धर्मार्थकाममोक्षाणां फलदात्रीं तथैव च ॥४१ ।पुत्रपौत्रप्रपौत्रादि फलदात्रीं तथैव च ॥धारणाच्छ्रवणाच्चापि पठनाच्चावलोकनात् ॥४२॥तां निशम्य सुविस्तीर्णां कथां ब्रह्मांडसंभवाम् ॥प्रमोदोत्फुल्लनयनो ब्रह्माणमनुमत्य च ॥४३॥कृतकार्योपि धर्मात्मा गंतुकामस्तदाभवत् ॥नमस्कृत्य तदा धर्मो ब्रह्माणं स पितामहम् ॥४४॥अनुज्ञातस्तदा तेन गतोऽसौ यमशासनम् ॥पितामहप्रसादाच्च श्रुत्वा पुण्यप्रदायिनीम् ॥४५॥धर्मारण्यकथां दिव्यां पवित्रां पापनाशिनीम् ॥स गतोऽनुचरैः सार्द्धं ततः संयमिनीं प्रति ॥४६॥अमात्यानुचरैः सार्धं प्रविष्टः स्वपुरं यमः ॥तत्रांतरे महातेजा नारदो मुनिपुंगवः ॥४७॥दुर्निरीक्ष्यः कृपायुक्तः समदर्शी तपोनिधिः ॥तपसा दग्धदेहोपि विष्णुभक्तिपरायणः ॥४८॥सर्वगः सर्वविच्चैव नारदः सर्वदा शुचिः ॥वेदाध्ययनशीलश्च त्वागत स्तत्र संसदि ॥४९॥ तं दृष्ट्वा सहसा धर्मो भार्यया सेवकैः सह ॥संमुखो हर्षसंयुक्तो गच्छन्नेव स सत्वरः ॥५०॥अद्य मे सफलं जन्म अद्य मे सफलं कुलम्॥अद्य मे सफलो धर्मस्त्वय्यायाते तपोधने ॥५१॥अर्घ्यपाद्यादिविधिना पूजां कृत्वा विधानतः ॥दंडवत्तं प्रणम्याथ विधिना चोपवेशितः ॥५२॥आसने स्वे महादिव्ये रत्नकांचनभूषिते ॥चित्रार्पिता सभा सर्वा दीपा निर्वातगा इव ॥५३॥विधाय कुशलप्रश्नं स्वागतेनाभिनंद्य तम् ॥प्रहर्षमतुलं लेभे धर्मारण्यकथां स्मरन् ॥५४॥नारदं पूजयित्वा तु प्रहृष्टेनांतरात्मना ॥हर्षितं तु यमं दृष्ट्वा नारदो विस्मिताननः ॥५५॥चिंतयामास मनसा किमिदं हर्षितो हरिः ॥अतिहर्षं च तं दृष्ट्वा यमराजस्वरूपिणम् ॥आश्चर्यमनसं चैव नारदः पृष्टवांस्तदा ॥५६॥॥ नारद उवाच ॥किं दृष्टं भवताश्चर्य्यं किं वा लब्धं महत्पदम्॥दुष्टस्त्वं दुष्टकर्मा च दुष्टात्मा क्रोधरूपधृक् ॥५७॥पापिनां यमनं चैवमेतद्रूपं महत्तरम्॥सौम्यरूपं कथं जातमेतन्मे संशयः प्रभो ॥५८॥अद्य त्वं हर्षसंयुक्तो दृश्यसे केन हेतुना ॥कथयस्व महाकाय हर्षस्यैव हि कारणम्॥ ५९॥॥ धर्मराज उवाच ॥श्रूयतां ब्रह्मपुत्रैतत्कथयामि न संशयः ॥पुराहं ब्रह्मसदनं गतवानभिवंदितुम् ॥६०॥तत्रासीनः सभामध्ये सर्वलोकैकपूजिते।॥नानाकथाः श्रुतास्तत्र धर्म्मवर्गसमन्विताः ॥६१॥कथाः पुण्या धर्मयुता रम्या व्यासमुखाच्छ्रुताः ॥धर्मकामार्थसंयुक्ताः सर्वाघौघविनाशिनीः ॥६२॥याः श्रुत्वा सर्वपापेभ्यो मुच्यंते ब्रह्महत्यया ।तारयंति पितृगणाञ्छतमेकोत्तरं मुने ॥६३॥॥ नारद उवाच ॥कीदृशी तत्कथा मे तां प्रशंस भवता श्रुताम्॥कथां यम महाबाहो श्रोतुकामोस्म्यहं च ताम् ॥६४॥॥ यम उवाच ॥एकदा ब्रह्मलोकेऽहं नमस्कर्तुं पितामहम् ॥गतवानस्मि तं देशं कार्याकार्यविचारणे ॥६५॥मया तत्राद्भुतं दृष्टं श्रुतं च मुनिसत्तम ॥धर्म्मारण्यकथां दिव्यां कृष्णद्वैपायनेरिताम् ॥६६॥श्रुत्वा कथां महापुण्यां ब्रह्मन्ब्रह्मांडगां शुभाम् ॥गुणपूर्णां सत्ययुक्तां तेन हर्षेण हर्षितः ॥६७॥अन्यच्चैव मुनिश्रेष्ठ तवागमनकारणम्॥शुभाय च सुखायैव क्षेमाय च जयाय हि ॥६८॥आद्यास्मि कृतकृत्योऽहमद्याहं सुकृती मुने।धर्मोनामाद्य जातोऽहं तव पद्युग्मदर्शनात् ॥६९ ।पूज्योऽहं च कृतार्थोहं धन्योहं चाद्य नारद॥युष्मत्पादप्रसादाच्च पूज्योऽहं भुवनत्रये ॥७०॥॥ सूत उवाच ॥एवंविधैर्वचोभिश्च तोषितो मुनिसत्तमः।पप्रच्छ परया भक्त्या धर्मारण्यकथां शुभाम् ॥७१॥॥ नारद उवाच ॥श्रुता व्यासमुखाद्धर्म्म धर्मारण्यकथा शुभा॥तत्सर्वं हि कथय मे विस्तीर्णं च यथातथम् ॥७२॥॥ यम उवाच।॥व्यग्रोऽहं सततं ब्रह्मन्प्राणिनां सुखदुःखिनाम् ॥तत्तत्कर्मानुसारेण गतिं दातुं सुखेतराम् ॥७३॥तथापि साधुसंगो हि धर्मायैव प्रजायते ॥इह लोके परत्रापि क्षेमाय च सुखाय च ॥७४॥ब्रह्मणः सन्निधौ यञ्च श्रुतं व्यासमुखेरितम्॥तत्सर्वं कथयिष्यामि मानुषाणां हिताय वै॥ ७९॥॥ सूत उवाच ॥यमेन कथितं सर्वं यच्छ्रुतं ब्रह्मसंसदि ॥आदिमध्यावसानं च सर्वं नैवात्र संशयः ॥७६॥कलिद्वापरयोर्मध्ये धर्मपुत्रं युधिष्ठिरम् ॥गतोऽसौ नारदो मर्त्ये राज्यं धर्मसुतस्य वै ॥७७॥आगतः श्रीहरेरंशो नारदः प्रत्यदृश्यत ॥ज्वलिताग्निप्रतीकाशो बालार्कसदृशेक्षणः ॥७८॥सव्यापवृत्तं विपुलं जटामंडलमुद्वहन् ॥चंद्रांशुशुक्ले वसने वसानो रुक्मभूषणः ॥७९॥वीणां गृहीत्वा महतीं कक्षासक्तां सखीमिव ॥कृष्णाजिनोत्तरासंगो हेमयज्ञोपवीतवान्॥८०॥दण्डी कमंडलुकरः साक्षाद्वह्निरिवापरः ॥भेत्ता जगति गुह्यानां विग्रहाणां गुहोपमः ॥८१॥महर्षिगणसंसिद्धो विद्वान्गांधर्ववेदवित्॥वैरकेलिकलो विप्रो ब्राह्मः कलिरिवापरः ॥८२॥देवगंधर्वलोकानामादिवक्ता सुनिग्रहः॥गाता चतुर्णां वेदानामुद्गाता हरिसद्गुणान् ॥८३॥स नारदोऽथ विप्रर्षिर्ब्रह्मलोकचरोऽव्ययः॥आगतोऽथ पुरीं हर्षाद्धर्मराजेन पालिताम् ॥८४॥|अथ तत्रोपविष्टेषु राजन्येषु महात्मसु ॥महत्सु चोपविष्टेषु गंधर्वेषु च तत्र वै ॥८९॥लोकाननुचरन्सर्वानागतः स महर्षिराट् ॥नारदः सुमहातेजा ऋषिभिः सहितस्तदा ॥८६॥तमागतमृषिं दृष्ट्वा नारदं सर्वधर्मवित् ॥सिंहासनात्समुत्थाय प्रययौ सन्मुखस्तदा॥८७॥अभ्यवादयतं प्रीत्या विनयाव नतस्तदा ॥तदर्हमासनं तस्मै संप्रदाय यथाविधि ॥८८॥गां चैवं मधुपर्कं च संप्रदायार्धमेव च ॥अर्चयामास रत्नैश्च सर्वकामैश्च धर्मवित्॥८९॥तुतोष च यथावञ्च पूजां प्राप्य च धर्मवित् ॥कुशली त्वं महाभाग तपसः कुशलं तव ॥९०॥न कश्चिद्बाधते दुष्टो दैत्यो हि स्वर्गभूपतिम् ॥मुने कल्याणरूपस्त्वं नमस्कृतः सुरासुरैः ॥सर्व्वगः सर्ववेत्ता च ब्रह्मपुत्र कृपानिधे ॥९१॥॥ नारद उवाच ॥सर्वतः कुशलं मेद्य प्रसादाद्ब्रह्मणः सदा ॥कुशली त्वं महाभाग धर्मपुत्र युधिष्ठिर ॥९२॥भ्रातृभिः सह राजेंद्र धर्मेषु रमते मनः ॥दारैः पुत्रैश्च भृत्यैश्च कुशलैर्गजवाजिभिः ॥९३॥औरसानिव पुत्रांश्च प्रजा धर्मेण धर्मज ॥पालयसि किमाश्चर्यं त्वया धन्या हि सा प्रजा ॥९४॥पालनात्पोषणान्नॄणां धर्मो भवति वै ध्रुवम्॥तत्तद्धर्मस्य भोक्ता त्वमित्येवं मनुरब्रवीत् ॥९९॥॥ युधिष्ठिर उवाच ॥कुशलं मम राष्ट्रं च भवतामंघ्रिस्पर्शनात्॥दर्शनेन महाभाग जातोऽहं गतकिल्बिषः॥९६॥धन्योऽहं कृतकृत्योऽहं सभाग्योऽहं धरातले॥अद्याहं सुकृती जातो ह्मपुत्रे गृहागते ॥९७ ।कुत आगमनं ब्रह्मन्नद्य ते मुनिसत्तम ॥अनुग्रहार्थं साधूनां किं वा कार्येण केन च ॥९८॥॥ नारद उवाच ॥आगतोऽहं नृपश्रेष्ठ सकाशाच्छमनस्य च ॥व्यासेनोक्तां ब्रह्मणोग्रे कथां पौराणिकीं शुभाम् ॥९९॥धर्मारण्याश्रितां दिव्यां सर्वसंतापहारिणीम्॥यां श्रुत्वा सर्वपापेभ्यो मुच्यते ब्रह्महत्यया ॥१००॥हत्यायुतप्रशमनीं तापत्रयविनाशिनीम् ॥यां वै श्रुत्वातिभक्त्या च कठिनो मृदुतां भजेत् ॥१०१ ।धर्मराजेन तां श्रुत्वा ममाग्रे च निवेदिताम् ।तमपृच्छ्दमेयात्मा कथां धर्मविनोदिनीम्॥ २॥॥ युधिष्ठिर उवाच ॥धर्मारण्याश्रितां पुण्यां कथां मे द्विजसत्तम ॥कथयस्व प्रसादेन लोकानां हितकाम्यया ॥३॥॥ नारद् उवाच ॥स्नानकालोयमस्माकं न कथावसरो मम ॥परंतु श्रूयतां राजन्नुपदेशं ददाम्यहम् ॥४॥मासानामुत्तमो माघः स्नानदानादिके तथा ॥तस्मिन्माघे च यः स्नाति सर्वपापैः प्रमुच्यते ॥५॥स्नानार्थं याहि शीघ्रं त्वं गंगायां नृपतेऽधुना॥व्यासस्यागमनं चाद्य भविष्यति नृपोत्तम ॥६॥तं पृच्छस्व महाभाग श्रावयिष्यति ते शुभम् ॥तीर्थानां चैव सर्वेषां फलं पुण्यं यदद्भुतम् ॥७॥भूतं भव्यं भविष्यं च उत्तमाधममध्यमाः ॥वाचयिष्यति तत्सर्वमितिहाससमुद्भवम् ॥८॥धर्मारण्यस्य सकलं वृत्तं यद्यत्पुरातनम् ॥व्यासः सत्यवतीपुत्रो वदिष्यति च तेऽखिलम् ॥९॥॥ सूत उवाच ॥एवमुक्त्वा विधेः पुत्रस्तत्रैवांतरधीयत ।तस्मिन्गते स नृपतिः क्रीडते सचिवैः सह ॥११०॥एतस्मिन्नंतरे तत्र प्राप्तः सत्यवतीसुतः ॥विज्ञापयामास तदा विदुरः पांडवस्य हि ॥११॥॥ सूत उवाच ॥आगतं तु मुनिं श्रुत्वा सर्वे हर्षसमाकुलाः ॥समुत्तस्थुर्हि भीमाद्याः सह् धर्मेण सर्वशः ॥१२॥तदा हि सन्मुखो भूत्वा मुमुदे नतकन्धरः ॥दंडवत्तं प्रणम्याथ भ्रातृभिः सहितस्तदा ॥१३॥मधुपर्केण विधिना पूजां कृत्वा सुशोभनाम्॥सिंहासने समावेश्य पप्रच्छानामयं तदा ॥११॥ततः पुण्यां कथां दिव्यां श्रावयामास धर्मवित्॥कथांते मुनिशार्दूलं वचनं चेदमब्रवीत् ॥१५॥.॥ युधिष्ठिर उवाच ॥त्वत्प्रसादान्मया ब्रह्मञ्छ्रुतास्तु प्रवराः कथाः ॥आपद्धर्म्मा राजधर्मा मोक्षधर्म्मा ह्यनेकशः॥ १६॥पुराणानां च धर्माश्च व्रतानि बहुशस्तथा ॥तीर्थान्यनेकरूपाणि सर्वाण्यायतनानि च ॥१७॥इदानीं श्रोतुमिच्छामि धर्मारण्यकथां शुभाम् ॥श्रुत्वा यां हि विनश्येत पापं ब्रह्मवधादिकम्॥ १८॥धर्म्मारण्यस्थतीर्थानां श्रोतुमिच्छामि तत्त्वतः ॥कस्येदं स्थापितं स्थानं कस्मादेतद्विनिर्मितम् ॥१९॥रक्षितं पालितं केन कस्मिन्कालेऽथ निर्मितम् ॥किंकिं त्वत्राभवत्पूर्वं शंशैतत्पृच्छतो मम ॥१२०॥भूतं भव्यं भविष्यञ्च तस्मिन्स्थाने च यद्भवेत्॥तत्सर्वं कथयस्वाद्य तीर्थानां च यथा स्थितिः॥ १२१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्व भागे धर्मारण्यमाहात्म्ये युधिष्ठिरप्रश्नवर्णनंनाम प्रथमोऽध्यायः ॥१॥ N/A References : N/A Last Updated : November 14, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP