संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|ब्रह्मखण्ड|धर्मारण्य खण्डः| अध्याय ८ धर्मारण्य खण्डः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० विषयानुक्रमणिका धर्मारण्य खण्डः - अध्याय ८ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ८ Translation - भाषांतर ॥ युधिष्ठिर उवाच ॥धर्मारण्यकथां पुण्यां श्रुत्वा तृप्तिर्न मे विभो ॥यदायदा कथयसि तदा प्रोत्सहते मनः ॥अतः परं किमभवत्परं कौतूहलं हि मे ॥१॥॥ व्यास उवाच ॥शृणु पार्थ महापुण्यां कथां स्कंदपुराणजाम् ॥स्थाणुनोक्तां च स्कंदाय धर्मारण्योद्भवां शुभाम् ॥२॥सर्वतीर्थस्य फलदां सर्वोपद्रवनाशिनीम् ॥कैलासशिखरासीनं देवदेवं जगद्गुरुम् ॥पंचवक्त्रं दशभुजं त्रिनेत्रं शूलपाणिनम् ॥३॥कपालखटवांगकरं नागयज्ञोपवीतिनम् ॥गणैः परिवृतं तत्र सुरासुरनमस्कृतम् ॥४॥नानारूपगुणैर्गीतं नारदप्रमुखैर्युतम् ॥गंधर्वैश्चाप्सरोभिश्च सेवितं तमुमापतिम्॥तत्रस्थं च महादेवं प्रणिपत्याब्रवीत्सुतः ॥५॥॥ स्कंद उवाच ॥स्वामिन्निंद्रादयो देवा ब्रह्माद्याश्चैव सर्वशः ॥तव द्वारे समायातान्त्वद्दर्शनैकलालसाः ॥किमाज्ञापयसे देव करवाणि तवाग्रतः ॥६॥॥ व्यास उवाच ॥स्कंदस्य वचनं श्रुत्वा आसनादुत्थितो हरः ॥वृषभं न समारूढो गंतुकामोऽभवत्तदा ॥७॥गतुकामं शिवं दृष्ट्वा स्कंदो वाक्यमथाब्रवीत् ॥८॥॥ स्कंद उवाच ॥किं कार्यं देव देवानां यत्त्वमाहूयसे त्वरम् ॥वृषं त्यक्त्वा कृपासिंधो कृपास्ति यदि मे वद ॥९॥देवदानव युद्धं वा किं कार्यं वा महत्तरम् ॥१०॥॥ शिव उवाच ॥शृणुष्वैकाग्रमनसा येनाहं व्यग्रचेतसः ॥अस्ति स्थानं महापुण्यं धर्म्मारण्यं च भूतले ॥११॥तत्रापि गंतुकामोऽहं देवैः सह षडाननः ॥१२॥॥ स्कंद उवाच ॥तत्र गत्वा महादेव किं करिष्यसि सांप्रतम् ॥तन्मे ब्रूहि जगन्नाथ कृत्यं सर्वमशेषतः ॥१३॥॥ शिव उवाच ॥श्रूयतां वचनं पुत्र मनसोल्हादकारणम् ॥आदितः सर्व्ववृत्तानां सृष्टि स्थितिकरं महत् ॥१४॥परंतु प्रलये जाते सर्वतस्तमसा वृतम्॥आसीदेकं तदा ब्रह्म निर्गुणं बीजमव्ययम् ॥१५॥निर्मितं वै गुणैरादौ मह द्द्रव्यं प्रचक्ष्यते ॥१६॥महाकल्पे च संप्राप्ते चराचरे क्षयं गते ॥जलरूपी जगन्नाथो रममाणस्तु लीलया ॥१७॥चिरकाले गते सोपि पृथिव्यादिसुतत्त्वकैः ॥वृक्षमुत्पादयामासायुतशाखामनोरमम् ॥१८॥फलैर्विशालैराकीर्णं स्कंधकांडादिशोभितम् ॥फलौघाढ्यो जटायुक्तो न्यग्रो धो विटपो महान् ॥१९॥बालभावं ततः कृत्वा वासुदेवो जनार्द्दनः ॥शेतेऽसौ वटपत्रेषु विश्वं निर्मातुमुत्सुकः ॥२०॥सनाभिकमले विष्णो र्जातो ब्रह्मा हि लोककृत् ॥सर्वं जलमयं पश्यन्नानाकारमरूपकम्॥ २१॥तं दृष्ट्वा सहसोद्वेगाद्ब्रह्मा लोकपितामहः ॥इदमाह तदा पुत्र किं करो मीति निश्चितम्॥ २२॥खे जजान ततो वाणी देवात्सा चाशरीरिणी ॥तपस्तप विधे धातर्यथा मे दर्शनं भवेत् ॥२३॥तच्छ्रुत्वा वचनं तत्र ब्रह्मा लोकपितामहः ॥प्रातप्यत तपो घोरं परमं दुष्करं महत् ॥२४॥प्रहसन्स तदा बालरूपेण कमलापतिः ॥उवाच मधुरां वाचं कृपालुर्बाल लीलया ॥२५॥॥ श्रीविष्णुरुवाच ॥पुत्र त्वं विधिना चाद्य कुरु ब्रह्मांडगोलके ॥पातालं भूतलं चैव सिंधुसागरकाननम् ॥२६॥वृक्षाश्च गिरयो द्विपदाः पशवस्तथा ॥पक्षिणश्चैव गंधर्वाः सिद्धा यक्षाश्च राक्षसाः ॥२७॥श्वापदाद्याश्च ये जीवाश्चतुराशीतियोनयः ॥उद्भिज्जाः स्वेदजाश्चैव जरायुजास्तथांडजाः ॥२८॥एकविंशतिलक्षाणि एकैकस्य च योनयः ॥कुरु त्वं सकलं चाशु इत्युक्त्वांतरधीयत ॥ब्रह्मणा निर्मितं सर्वं ब्रह्मांडं च यथोदितम् ॥२९॥यस्मिन्पितामहो जज्ञे प्रभुरेकः प्रजापतिः ॥स्थाणुः सुरगुरुर्भानुः प्रचेताः परमेष्ठिनः ॥३०॥यथा दक्षो दक्षपुत्रा स्तथा सप्तर्षयश्च ये ॥ततः प्रजानां पतयः प्राभवन्नेकविंशतिः ॥३१॥पुरुषश्चाप्रमेयश्च एवं वंश्यर्षयो विदुः ॥विश्वेदेवास्तथादित्या वसव श्चाश्विनावपि ॥३२॥यक्षाः पिशाचाः साध्याश्च पितरो गुह्यकास्तथा ॥ततः प्रसूता विद्वांसो ह्यष्टौ ब्रह्मर्षयोऽमलाः ॥३३॥राजर्षयश्च बहवः सर्वे समुदिता गुणैः ॥द्यौरापः पृथिवी वायुरंतरिक्षं दिशस्तथा ॥३४॥संवत्सरार्तवो मासाः पक्षाहोरात्रयः क्रमात् ॥कलाकाष्ठामुहूर्तादि निमे षादि लवास्तथा ॥३५॥ग्रहचक्रं सनक्षत्रं युगा मन्वन्तरादयः ॥यच्चान्यदपि तत्सर्वं संभूतं लोकसाक्षिकम् ॥३६॥यदिदं दृश्यते चक्रं किंचि त्स्थावरजंगमम्॥पुनः संक्षिप्यते पुत्र जगत्प्राप्ते युगक्षये ॥३७॥यथर्तावृतुलिंगानि नामरूपाणि पर्यये ॥दृश्यन्ते तानि तान्येव तथा वत्स युगादिकम् ॥३८॥॥ शिव उवाच ॥अतः परं प्रवक्ष्यामि कथां पौराणिकीं शुभाम् ॥ब्रह्मणश्च तथा पुत्र वंशस्यैवानुकीर्तनम् ॥३९॥ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः ॥मरीचिरत्र्यंगिरसौ पुलस्त्यः पुलहः क्रतुः ॥४०॥मरीचेः कश्यपः पुत्रः कश्यपाच्चरमाः प्रजाः ॥प्रजज्ञिरे महाभागा दक्षकन्यास्त्रयोदश ॥४१॥अदितिर्दितिर्दनुः काला दनायुः सिंहिका तथा ॥क्रोधा प्रोवा वसिष्ठा च विनता कपिला तथा ॥४२॥कण्डूश्चैव सुनेत्रा च कश्यपाय ददौ तदा ॥अदित्यां द्वादशादित्याः संजाता हि शुभाननाः ॥४३॥सूर्याद्वै धर्मराड् जज्ञे ते नेदं निर्मितं पुरा ॥धर्मेण निर्मितं दृष्ट्वा धर्मारण्यमनुत्तमम् ॥धर्मारण्यमिति प्रोक्तं यन्मया स्कन्द पुण्यदम् ॥४४॥॥ स्कन्द उवाच ॥धर्मारण्यस्य चाख्यानं परमं पावनं तथा ॥श्रोतुमिच्छामि तत्सर्वं कथयस्व महेश्वर ॥४५॥॥ ईश्वर उवाच ॥इन्द्राद्याः सकला देवा अन्वयुर्ब्रह्मणा सह ॥अहं वै तत्र यास्यामि क्षेत्रं पापनिषूदनम् ॥४६॥॥ स्कन्द उवाच ॥अहमप्यागमिष्यामि तं द्रष्टुं शशिशे खर ॥४७॥॥ सूत उवाच ॥ततः स्कन्दस्तथा रुद्रः सूर्यश्चैवानिलोऽनलः ॥सिद्धाश्चैव सगन्धर्वास्तथैवाप्सरसः शुभाः ॥४८॥पिशाचा गुह्यकाः सर्व इन्द्रो वरुण एव च ॥नागाः सर्वाः समाजग्मुः शुक्रो वाचस्पतिस्तथा ॥४९॥ग्रहाः सर्वे सनक्षत्रा वसवोऽष्टौ ध्रुवा दयः ॥अंतरिक्षचराः सर्वे ये चान्ये नगवासिनः ॥५०॥ब्रह्मादयः सुराः सर्वे वैकुण्ठं परया मुदा ॥मन्त्रणार्थं तदा ब्रह्मा विष्णवेऽमितते जसे ॥५१॥गत्वा तस्मिंश्च वैकुण्ठे ब्रह्मा लोकपितामहः ॥ध्यात्वा मुहूर्तमाचष्ट विष्णुं प्रति सुहर्षितः ॥५२॥॥ ब्रह्मोवाच ॥कृष्ण कृष्ण महाबाहो कृपालो परमेश्वर ॥स्रष्टा त्वं चैव हर्ता त्वं त्वमेव जगतः पिता ॥५३॥नमस्ते विष्णवे सौम्य नमस्ते गरुडध्वज ॥नमस्ते कम लाकांत नमस्तेब्रह्मरूपिणे ॥५४॥नमस्ते मत्स्यरूपाय विश्वरूपाय वै नमः ॥नमस्ते दैत्यनाशाय भक्तानामभयाय च ॥५५॥कंसघ्नाय नमस्तेस्तु बलदैत्यजिते नमः ॥ब्रह्मणैवं स्तुतश्चासीत्प्रत्यक्षोऽसौ जनार्द्दनः ॥५६॥पीतांबरो घनश्यामो नागारिकृतवाहनः ॥चतुर्भुजो महा तेजाः शंखचक्रगदाधरः ॥५७॥स्तूयमानः सुरैः सर्वैः स देवोऽमितविक्रमः ॥विद्याधरैस्तथा नागैः स्तूयमानश्च सर्वशः ॥५८॥उत्तस्थौ स तदा देवो भास्करामितदीप्तिमान् ॥कोटिरत्नप्रभाभास्वन्मुकुटादिविभूषितः ॥५९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये विष्णुसमागमोनामाष्टमोऽध्यायः ॥८॥ N/A References : N/A Last Updated : November 18, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP