संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|ब्रह्मखण्ड|धर्मारण्य खण्डः| अध्याय ४ धर्मारण्य खण्डः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० विषयानुक्रमणिका धर्मारण्य खण्डः - अध्याय ४ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ४ Translation - भाषांतर ॥ व्यास उवाच ॥अतः परं प्रवक्ष्यामि धर्मराजस्य चेष्टितम् ॥यच्छ्रुत्वा यमदूतानां न भयं विद्यते क्वचित् ॥१॥धर्मराजेन सा दृष्टा वर्द्धनी च वराप्सरा ॥महत्यरण्ये का ह्येषा सुन्दरांग्यतिसुन्दरी ॥२॥निर्मानुषवनं चेदं सिंहव्याघ्रभयानकम् ॥आश्चर्यं परमं ज्ञात्वा धर्मराजोऽब्रवीदिदम् ॥३॥॥ धर्मराज उवाच ॥कस्मात्त्वं मानिनि ह्येका वने चरसि निर्जने ॥कस्मात्स्थानात्समायाता कस्य पत्नी सुशोभने ॥४॥सुता त्वं कस्य वामोरु अतिरूपवती शुभा ॥मानुषी वाथ गंधर्वी अमरी वाथ किंनरी ॥५॥अप्सरा पक्षिणी वाथ अथवा वनदेवता ॥राक्षसी वा खेचरी वा कस्य भार्या च तद्वद ॥६॥सत्यं च वद मे सुभ्रूरित्याहार्कसुतस्तदा ॥किमिच्छसि त्वया भद्रे किं कार्यं वा वदात्र वै ॥७॥यदिच्छसि त्वं वामोरु ददामि तव वांछितम् ॥८॥॥ वर्द्धन्युवाच ॥धर्मे तिष्ठति सर्वं वै स्थावरं जंगमं विभो ॥स धर्मो दुष्करं कर्म कस्मात्त्वं कुरुषेऽनघ ॥९॥॥ यम उवाच ॥ईशानस्य च यद्रूपं द्रष्टुमिच्छामि भामिनि ॥तेनाहं तपसा युक्तः शिवया सह शंकरम् ॥१०॥यशः प्राप्स्ये सुखं प्राप्स्ये करोमि च सुदुष्करम् ॥युगेयुगे मम ख्यातिर्भवेदिति मतिर्मम ॥११॥कल्पे कल्पे महाकल्पे भूयः ख्यातिर्भवेदिति ॥एतस्मात्कारणात्सुभ्रूस्तप्यते परमं तपः ॥१२॥कस्मात्त्वमागता भद्रे कथयस्व यथातथा ॥किं कार्यं कस्य हेतुश्च सत्यमाख्यातुमर्हसि ॥१३॥॥ वर्द्धन्युवाच ॥तपसैव त्वया धर्म भयभीतो दिवस्पतिः ॥तेनाहं नोदिता चात्र तपोवि घ्नस्य कांक्षया ॥१४॥इन्द्रासनभयाद्भीता हरिणा हरिसन्निधौ ॥प्रेषिताहं महाभाग सत्यं हि प्रवदाम्यहम् ॥१५॥॥ सूत उवाच ॥सत्यवाक्येन च तदा तोषितो रविनंदनः ॥उवाचैनां महाभाग्यो वरदोहं प्रयच्छ मे ॥१६॥यमोऽहं सर्वभूतानां दुष्टानां कर्मकारिणाम् ॥धर्म रूपो हि सर्वेषां मनुजानां जितात्मनाम् ॥१७॥स धर्मोऽहं वरारोहे ददामि तव दुर्लभम् ॥तत्सर्वं प्रार्थय त्वं मे शीघ्रं चाप्सरसां वरे ॥१८॥॥ वर्द्धन्युवाच ॥इन्द्रस्थाने सदा रम्ये सुस्थिरत्वं प्रयच्छ मे ॥स्वामिन्धर्मभृतां श्रेष्ठ लोकानां च हिताय वै ॥१९॥॥ यम उवाच ॥एवमस्त्विति तां प्राह चान्यं वरय सत्वरम् ॥ददामि वरमुत्कृष्टं गानेन तोषितोस्म्यहम् ॥२०॥॥ वर्द्धन्युवाच ॥अस्मिन्स्थाने महाक्षेत्रे मम तीर्थं महामते ॥भूयाच्च सर्वपापघ्नं मन्नाम्नेति च विश्रुतम् ॥२१॥तत्र दत्तं हुतं तप्तं पठितं वाऽक्षयं भवेत् ॥पञ्चरात्रं निषेवेत वर्द्धमानं सरोवर म् ॥२२॥पूर्वजास्तस्य तुष्येरंस्तर्प्यमाणा दिनेदिने ॥तथेत्युक्त्वा तु तां धर्मो मौनमाचष्ट संस्थितः॥त्रिःपरिक्रम्य तं धर्मं नमस्कृत्य दिवं ययौ ॥२३॥॥ वर्द्धन्युवाच ॥मा भयं कुरु देवेश यमस्यार्कसुतस्य च ॥अयं स्वार्थपरो धर्म यशसे च समाचरेत् ॥२४॥॥ व्यास उवाच ॥वर्द्धनी पूजिता तेन शक्रेण च शुभानना ॥साधुसाधु महाभागे देवकार्य कृतं त्वया ॥२५॥निर्भयत्वं वरागेहे सुखवासश्च ते सदा ॥यशः सौख्यं श्रियं रम्यां प्राप्स्यसि त्वं शुभानने ॥२६॥तथेति देवास्तामूचुर्निर्भयानंदचेतसा ॥नमस्कृत्य च शक्रं सा गता स्थानं स्वकं शुभम् ॥२७॥॥ सूत उवाच ॥गतेप्सरसि राजेन्द्र धर्मस्तस्थौ यथाविधि ॥तपस्तेपे महाघोरं विश्वस्योद्वेगदायकम् ॥२८॥पंचाग्निसा धनं शुक्रे मासि सूर्येण तापिते ॥चक्रे सुदुःसहं राजन्देवैरपि दुरासदम् ॥२९॥ततो वर्षशते पूर्णे अन्तको मौनमास्थितः॥काष्ठभूत इभवातस्थौ वल्मीकशतसंवृतः ॥३०॥नानापक्षिगणैस्तत्र कृतनीडैः स धर्मराट् ॥उपविष्टे व्रतं राजन्दृश्यते नैव कुत्रचित् ॥३१॥संस्मरंतोऽथ देवेश मुमापतिमनिंदितम् ॥ततो देवाः सगन्धर्वा यक्षाश्चोद्विग्नमानसाः ॥कैलासशिखरं भूय आजग्मुः शिवसन्निधौ ॥३२॥॥ देवा ऊचुः ॥त्राहित्राहि महादेव श्रीकण्ठ जगतः पते ॥त्राहि नो भूतभव्येश त्राहि नो वृषभध्वज ॥दयालुस्त्वं कृपानाथ निर्विघ्नं कुरु शंकर ॥३३॥॥ ईश्वर उवाच ॥केनापराधिता देवाः केन वा मानमर्द्दिताः ॥मर्त्ये स्वर्गेऽथवा नागे शीघ्रं कथय ताचिरम् ॥३४॥अनेनैव त्रिशूलेन खट्वांगेनाथवा पुनः ॥अथ पाशुपतेनैव निहनिष्यामि तं रणे ॥शीघ्रं वै वदतास्माक मत्रागमनकारणम् ॥३५॥॥ देवा ऊचुः ॥कृपासिन्धो हि देवेश जगदानन्दकारक ॥न भयं मानुषादद्य न ना गाद्देवदानवात् ॥३६॥मर्त्यलोके महादेव प्रेतनाथो महाकृतिः ॥आत्मकार्यं महाघोरं क्लेशयेदिति निश्चयः ॥३७॥उग्रेण तपसा कृत्वा क्लिश्यदात्मानमात्मना ॥तेनात्र वयमुद्विग्ना देवाः सर्वे सदाशिव ॥शरणं त्वामनुप्राप्ता यदिच्छसि कुरुष्व तत् ॥३८॥॥ सूत उवाच ॥देवानां वचनं श्रुत्वा वृषारूढो वृषध्वजः ॥आयुधान्परिसंगृह्य कवचं सुमनोहरम् ॥गतवानथ तं देशं यत्र धर्मो व्यवस्थितः ॥३९॥॥ ईश्वर उवाच ॥अनेन तपसा धर्म संतुष्टं मम मानसम् ॥वरं ब्रूहि वरं ब्रूहि वरं ब्रूहीत्युवाच ह ॥४०॥इच्छसे त्वं यथा कामा न्यथा ते मनसि स्थितान् ॥यंयं प्रार्थयसे भद्र ददामि तव सांप्रतम् ॥४१॥॥ सूत उवाच ॥एवं संभाषमाणं तु दृष्ट्वा देवं महेश्वरम् ॥वल्मीकादुत्थितो राजन्गृहीत्वा करसंपुटम् ॥तुष्टाव वचनैः शुद्धैर्लोकनाथमरिंदम् ॥४२॥॥ धर्म उवाच ॥ईश्वराय नमस्तुभ्यं नमस्ते योगरूपिणे ॥नमस्ते तेजोरूपाय नीलकंठ नमोऽस्तु ते ॥४३॥ध्यातॄणामनुरूपाय भक्तिगम्याय ते नमः ॥नमस्ते ब्रह्मरूपाय विष्णुरूप नमोऽ स्तु ते ॥४४॥नमः स्थूलाय सूक्ष्माय अणुरूपाय वै नमः ॥नमस्ते कामरूपाय सृष्टिस्थित्यंतकारिणे ॥४५॥नमो नित्याय सौम्याय मृडाय हरये नमः ॥आतपाय नमस्तुभ्यं नमः शीतकराय च ॥४६॥सृष्टिरूप नमस्तुभ्यं लोकपाल नमोऽस्तु ते ॥नम उग्राय भीमाय शांत रूपाय ते नमः ॥४७॥नमश्चानंतरूपाय विश्वरूपाय ते नमः ॥नमो भस्मांगलिप्ताय नमस्ते चंद्रशेखर ॥नमोऽस्तु पंचवक्त्राय त्रिनेत्राय नमोऽस्तु ते ॥४८॥नमस्ते व्यालभूषाय कक्षापटधराय च ॥नमोंऽधकविनाशाय दक्षपापापहारिणे ॥कामनिर्द्दाहिने तुभ्यं त्रिपुरारे नमोऽस्तु ते ॥४९॥चत्वारिंशच्च नामानि मयोक्तानि च यः पठेत् ॥शुचिर्भूत्वा त्रिकालं तु पठेद्वा शृणुयादपि ॥५०॥गोघ्नश्चैव कृतघ्नश्च सुरापो गुरुत ल्पगः ॥ब्रह्महा हेमहारी च ह्यथवा वृषलीपतिः ॥५१॥स्त्रीबालघातकश्चैव पापी चानृतभाषणः ॥अनाचारी तथा स्तेयी परदाराभिगस्तथा ॥अकार्यकारी कृत्यघ्नो ब्रह्मद्विड्वाडवाधमः॥ ५३॥॥सूत उवाच॥इत्येवं बहुभिर्वाक्यैर्धर्मराजेन वै मुहुः॥ईडितोऽपि महद्भक्त्या प्रणम्य शिरसा स्वयम् ॥५४॥तुष्टः शंभुस्तदा तस्मा उवाचेदं वचः शुभम् ॥वरं वृणु महाभाग यत्ते मनसि वर्त्तते ॥५५॥॥ यम उवाच ॥यदि तुष्टोऽसि देवेश दयां कृत्वा ममोपरि॥तं कुरुष्व महाभाग त्रैलोक्यं सचराचरम् ॥५६॥मन्नाम्ना स्थानमेतद्धि ख्यातं लोके भवेदिति ॥अच्छेद्यं चाप्यभेद्यं च पुण्यं पापप्रणाशनम् ॥५७॥स्थानं कुरु महादेव यदि तुष्टोऽसि मे भव ॥शिवेन स्थानकं दत्तं काशीतुल्यं तदा नृप ॥तद्दत्त्वा च पुनः प्राह अन्यं वरय सत्तम ॥५८॥॥ धर्म उवाच ॥यदि तुष्टोऽसि देवेश दयां कृत्वा ममोपरि ॥तं कुरुष्व महाभाग त्रैलोक्यं सचराचरम् ॥वरेणैवं यथा ख्यातिं गमिष्यामि युगेयुगे ॥५९॥॥ ईश्वर उवाच ॥ब्रूहि कीनाश तत्सर्वं प्रकरोमि तवेप्सितम् ॥तपसा तोषितोऽहं वै ददामि वरमीप्सितम् ॥६०॥॥ यम उवाच ॥यदि मे वांछितं देव ददासि तर्हि शंकर ॥अस्मिन्स्थाने महाक्षेत्रे मन्नामा भव सर्वदा ॥६१॥धर्मारण्यमिति ख्यातिस्त्रैलोक्ये सचराचरे ॥यथा संजायते देव तथा कुरु महेश्वर ॥६२॥॥ ईश्वर उवाच ॥धर्मारण्यमिदं ख्यातं सदा भूयाद्युगेयुगे ॥त्वन्नाम्ना स्थापितं देव ख्यातिमेतद्गमिष्यति ॥अथान्यदपि यत्किंचित्करोम्येष वदस्व तत ॥६३॥॥ यम उवाच ॥योजनद्वयविस्तीर्णं मन्नाम्ना तीर्थमुत्तमम् ॥मुक्तेश्च शाश्वतं स्थानं पावनं सर्वदेहिनाम् ॥६४॥मक्षिकाः कीटकाश्चैव पशुपक्षिमृगादयः ॥पतंगा भूतवेताला पिशाचोरगराक्षसाः ॥६५॥नारी वाथ नरो वाथ मत्क्षेत्रे धर्मसंज्ञके ॥त्यजते यः प्रियान्प्राणान्मुक्तिर्भवतु शाश्वती ॥६६॥एवमस्त्विति सर्वोपि देवा ब्रह्मादयस्तथा ॥पुष्पवृष्टिं प्रकुर्वाणाः परं हर्षमवा्प्नुयुः ॥६७॥देवदुंदुभयो नेदुर्गंधर्वपतयो जगुः॥ववुः पुण्यास्तथा वाता ननृतुश्चाप्सरो गणाः ॥६८॥॥सूत उवाच॥॥यमेन तपसा भक्त्या तोषितो हि सदाशिवः ॥उवाच वचनं देवं रम्यं साधुमनोरमम् ॥६९॥अनुज्ञां देहि मे तात यथा गच्छामि सत्वरम् ॥कैलासं पर्वतश्रेष्ठं देवानां हितकाम्यया ॥७०॥॥ यम उवाच ॥न मे स्थानं परित्यक्तुं त्वया युक्तं महेश्वर ॥कैलासादधिकं देव जायते वचनादिदम् ॥७१॥॥ शिव उवाच ॥साधु प्रोक्तं त्वया युक्तमेकांशेनात्र मे स्थितिः ॥न मया त्यजितं साधु स्थानं तव सुनिर्मलम् ॥७२॥विश्वेश्वरं महालिंगं मन्नाम्नात्र भविष्यति ॥एवमुक्त्वा महादेवस्तत्रैवांतरधीयत ॥७३॥शिवस्य वचनात्तत्र तदा लिंगं तदद्भुतम् ॥तं दृष्ट्वा च सुरैस्तत्र यथानामानुकीर्त्तनम् ॥७४॥स्वंस्वं लिंगं तदा सृष्टं धर्मारण्ये सुरोत्तमैः ॥यस्य देवस्य यल्लिंगं तन्नाम्ना परिकीर्तितम् ॥७५॥॥ सूत उवाच ॥धर्मेण स्थापितं लिंगं धर्मेश्वरमुपस्थितम् ॥स्मरणात्पूजनात्तस्य सर्वपापैः प्रमुच्यते ॥७६॥यद्ब्रह्म योगिनां गम्यं सर्वेषां हृदये स्थितम् ॥तिष्ठते यस्य लिंगं तु स्वयंभुवमिति स्थितम् ॥७७॥भूतनाथं च संपूज्य व्याधिभिर्मुच्यते जनः ॥धर्मवापीं ततश्चैव चक्रे तत्र मनोरमाम् ॥७८॥आहत्य कोटितीर्थानां जलं वाप्यां मुमोच ह ॥यमतीर्थस्वरूपं च स्नानं कृत्वा मनोरमम् ॥७९॥स्नानार्थं देवतानां च ऋषीणां भावितात्मनाम् ॥तत्र स्नात्वा च पीत्वा च सर्वपापैः प्रमुच्यते ॥८०॥धर्मवाप्यां नरः स्नात्वा दृष्ट्वा धर्मेश्वरं शिवम् ॥मुच्यते सर्वपापेभ्यो न मातुर्गर्भमाविशेत् ॥८१॥तत्र स्नात्वा नरो यस्तु करोति यमतर्पणम् ॥व्याधिदोषविनाशार्थं क्लेशदोषोप शांतये ॥यमाय धर्मराजाय मृत्यवे चांतकाय च ॥वैवस्वताय कालाय दध्नाय परमेष्ठिने ॥८२॥वृकोदराय वृकाय दक्षिणेशाय ते नमः ॥नीलाय चित्रगुप्ताय चित्र वैचित्र ते नमः ॥८३॥यमार्थं तर्पणं यो वै धर्मवाप्यां करिष्यति ॥साक्षतैर्नामभिश्चैतैस्तस्य नोपद्रवो भवेत्॥ ८४॥एकांतरस्तृतीयस्तु ज्वरश्चातुर्थिकस्तथा ॥वेलायां जायते यस्तु ज्वरः शीतज्वरस्तथा ॥८५॥पीडयन्ति न चैतस्य यस्यैवो मतिरीदृशी ॥रेवत्यादिग्रहा दोषा डाकिनी शाकिनी तथा ॥६६॥धनधान्यसमृद्धिः स्यात्संततिर्वर्धते सदा ॥भूतेश्वरं तु संपूज्य सुस्नातो विजितेंद्रियः ॥८७॥सांगं रुद्रजपं कृत्वा व्याधिदोषात्प्रमुच्यते॥अमावास्यां सोमदिने व्यतीपाते च वैधृतौ॥संक्रांतौ ग्रहणे चैव तत्र श्राद्धं स्मृतं नृणाम्॥८८॥श्राद्धं कृतं तेन समाः सहस्रं निरस्य चैतत्पितरस्त्वदंति॥पानीयमेवापि तिलैर्विमिश्रितं ददाति यो वै प्रथितो मनुष्यः॥८९॥एकविंशतिवारैस्तु गयायां पिंडदानतः ॥धर्मेश्वरे सकृद्दत्तं पितॄणां चाक्षयं भवेत् ॥९०॥धर्मेशात्पश्चिमे भागे विश्वेश्वरांतरेपि वा ॥धर्मवापीति विख्याता स्वर्गसोपानदायिनी ॥९१॥धर्मेण निर्मिता पूर्वं शिवार्थं धर्मबुद्धिना ॥तत्र स्नात्वा च पीत्वा च तर्पिताः पितृदेवताः ॥९२॥शमीपत्रप्रमाणं तु पिंडं दद्याच्च यो नरः ॥धर्मवाप्यां महापुण्यां गर्भवासं न चाप्नुयात् ॥९३॥कुम्भीपाकान्महारौद्राद्रौरवान्नरकात्पुनः ॥अंधतामिस्रकाद्राजन्मुच्यते नात्र संशयः ॥९४॥॥ सूत उवाच ॥एकवर्षं तर्पणीयं धर्मवाप्यां नरोत्तमः ॥ऋतौ मासे च पक्षे च विपरीतं च जायते ॥९५॥बर्हिषदोऽग्निष्वात्ताश्च आज्यपाः सोमपास्तथा ॥तृप्तिं प्रयांति परमां वाप्यां वै तर्पणेन तु ॥९६॥कुरुक्षेत्रादि क्षेत्राणि अयोध्यादिपुरस्तथा ॥पुष्कराद्यानि सर्वाणि मुक्तिनामानि संति वै ॥९७॥तानि सर्वाणि तुल्यानि धर्मकूपोऽधिको भवेत् ॥मन्त्रो वेदास्तथा यज्ञा दानानि च व्रतानि च ॥९८॥अक्षयाणि प्रजायंते दत्त्वा जप्त्वा नरेश्वर ॥अभिचाराश्च ये चान्ये सुसिद्धाथर्ववेदजाः ॥९९॥ते सर्वे सिद्धिमायांति तस्मिन्स्थाने कृता अपि ॥आदितीर्थं नृपश्रेष्ठ काजेशैरुपसेवितम् ॥१००॥सिद्धिस्थानं सुसौम्यं च ब्रह्माद्यैरपि सेवि तम् ॥कृते तु युगपर्यंतं त्रेतायां लक्षपञ्चकम् ॥१॥द्वापरे लक्षमेकं तु दिनैकेन फलं कलौ ॥एतदुक्तं मया ब्रह्मन्धर्मारण्यस्य वर्णनम् ॥फलं चैवात्र सर्वं हि उक्तं द्वैपायनेन तु ॥२॥॥ सूत उवाच ॥अतः परं प्रवक्ष्यामि धर्मवाक्यं मनोरमम् ॥देवानां हितकामाय आज्ञाप्य च यदुक्तवान् ॥३॥॥ धर्म उवाच ॥अस्मिन्क्षेत्रे प्रकुर्वंति विष्णुमायाविमोहिताः ॥पारदार्यं महादुष्टं स्वर्णस्तेयादिकं तथा ॥४॥अन्यच्च विकृतं सर्वं कुर्वाणो नरकं व्रजेत् ॥अन्यक्षेत्रे कृतं पापं धर्मारण्ये विनश्यति ॥५॥धर्मारण्ये कृतं पापं वज्रलेपो भविष्यति ॥यथा पुण्यं तथा पापं यत्किंचिच्च शुभाशुभम् ॥६॥तत्सर्वं वर्द्धते नित्यं वर्षाणि शतमित्युत ॥कामिनां कामदं पुण्य योगिनां मुक्तिदायकम् ॥७॥सिद्धानां सिद्धिदं प्रोक्तं धर्मारण्यं तु सर्वदा ॥अपुत्रो लभते पुत्रान्निर्धनो धनवान्भवेत् ॥८॥एतदाख्यानकं पुण्यं धर्मेण कथितं पुरा ॥यः शृणोति नरो भक्त्या नारी वा श्रावयेत्तु यः ॥गोसहस्रफलं तस्य अंते हरिपुरं ब्रजेत् ॥१०९॥ इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये क्षेत्रस्थापनंनाम चतुर्थोऽध्यायः ॥४॥ N/A References : N/A Last Updated : November 18, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP