संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|अनेकार्थसङ्ग्रहः| परिशिष्टकाण्डः अनेकार्थसङ्ग्रहः विषयानुक्रमणिकाः प्राक्कथनम् एकस्वरकाण्डः द्विस्वरकाण्डः त्रिस्वरकाण्डः चतुःस्वरकाण्डः पञ्चस्वरकाण्डः षट्स्वरकाण्डः परिशिष्टकाण्डः अनेकार्थसङ्ग्रहः - परिशिष्टकाण्डः आचार्यश्रीहेमचन्द्रेण विरचितः अनेकार्थसङ्ग्रहो नाम कोशः Tags : anekarthahem chandrensanskritअनेकार्थसङ्ग्रहआचार्य श्रीहेमचन्द्रेणसंस्कृत परिशिष्टकाण्डः Translation - भाषांतर परिशिष्टः काण्डःएकस्वराव्ययानिअथाऽव्ययानि वक्ष्यानि वक्ष्यन्ते प्राग्वदेव स्वरक्रमात् ।अ स्यादभावे स्वल्पार्थे विष्णावेष त्वनव्ययम् ॥१॥आङीषदर्थेऽभिव्याप्तौ क्रियायोगेऽवधावपि ।आं स्याद्वाक्येऽवस्मरणे स्यादा वेधस्यनव्ययम् ॥२॥आ स्यादवधृतिस्मृत्योराः सन्तापप्रकोपयोः ।इ स्यात्खेदे प्रकोपोक्तौ कामदेवे त्वनव्ययम् ॥३॥ई दुःखभावने क्रोध ईर्लक्ष्म्यां तु च नाव्ययम् ।उ सम्बुद्धौ रुषोक्तौ च शिववाची त्वनव्ययम् ॥४॥उत् प्राधान्ये प्रकाशे च प्रबल्यास्वस्थ्यक्तिषु ।विभागे बन्धने मोक्षे भावे लाभोर्ध्वकर्म्मणोः ॥५॥उं प्रश्नेऽङ्गीकृतौ रोषेऽप्यूं प्रश्वे रोषवाचि च ।ऊ रक्षणे रक्षके च सूच्यां स्यूतावनव्ययम् ॥६॥ऋ कुत्सायां च वाक्ये च देवमातर्यनव्ययम् ।ॠ वाक्यकुत्सयोर्दैत्यजनन्यामप्यनव्ययम् ॥७॥लृ कुत्सायां विस्मये च लॄशब्दोऽपि तदर्थकः ।देवमातरि वाराह्यां क्रमात्तावप्यनव्ययौ ॥८॥एऐशब्दौ तु हेहैव स्मृत्यामन्त्रणहूतिषु ।क्रमाच्चतुर्भुजे शम्भावेऐशब्दावनव्ययौ ॥९॥ओमित्यनुमतौ प्रोक्तं प्रणवे चाप्युपक्रमे ।ओऔशब्दौ तु होहौव सम्बुद्ध्याह्वानयोर्मतौ ॥१०॥विधातरि क्रमाद्विष्णावोऔशब्दावनव्ययौ ।कु पापीयसि निन्दायामीषदर्थे निवारणे ॥११॥कं सुखे वारिशिरसोः किं प्रश्रे कुत्सनेऽपि च ।चाऽन्योन्यार्थसमाहारान्वाचयेषु समुच्चये ॥१२॥हेतौ पक्षान्तरे तुल्ययोगिताविनियोगयोः ।पादपूरणेऽवधृतौ तु विशेषेऽवधारणे ॥१३॥समुच्चये पादपूर्तौ धिक् निर्भर्त्सनिन्दयोः ।नि स्यात्क्षेपे भृशार्थे च नित्यार्थे दानकर्मणि ॥१४॥संनिधानोपरमयोः संशयाश्रयराशिषु ।मोक्षेऽन्तर्भावेऽधोभावे बन्धने कौशलेऽपि च ॥१५॥नु प्रश्नेऽनुनयेऽतीतार्थे विकल्पवितर्कयोः ।नञीषदर्थे सादृश्ये तद्विरुद्धतदन्ययोः ॥१६॥व्यतिक्रमे स्वरूपार्थे निषेधाभावयोरपि ।निर्निश्चये क्रान्ताद्यर्थे निःशेषप्रतिषेधयोः ॥१७॥प्राक् पूर्वस्मिन् प्रभाते दिग्देशकालेष्वनन्तरे ।अतीतेऽग्रेऽप्यथ प्र स्याद्गताद्यर्थप्रर्षयोः ॥१८॥वा समुच्चय एवार्थ उपमानविकल्पयोः ।वितर्के पादपूर्तौ च विश्रम्भातीतयोरपि ॥१९॥वि श्रेष्ठेऽतीते नानार्थे पक्षिवाचि त्वनव्ययम् ।वै पादपूरणे हैतौ सम्बुद्ध्यनुनयेऽपि च ॥२०॥शं कल्याणे सुखेऽथ स्वित्परिप्रश्नवितर्कयोः ।सं सङ्गार्थे प्रकृष्टार्थे शोभनार्थसमार्थयोः ॥२१॥सु पूजायां भृशार्थानुमतिकृच्छ्रसमृद्धिषु ।स्माऽतीते पादपूर्तौ ह सम्बुद्धौ पादपूरणे ॥२२॥हा शुग्दुःखविषादेषु हि हेताववधारणे ।विशेषे पादपूर्तौ च ही विस्मयविषादयोः ॥२३॥दुःखहेतौ च हं रोषभाषणेऽनुनयेऽपि च ।हुं वितर्के परिप्रश्ने हुं लज्जायां निवारणे ॥२४॥भयादौ भर्त्सने कोपेऽप्यनिच्छायां च कुत्सने ।इत्येकस्वराव्ययानि ।द्विस्वराऽव्ययानिमनागल्पे च मन्दे चाऽङ्ग सम्बोधनहर्षयोः ॥२५॥पुनरर्थे चाऽथ किञ्च साकल्यारम्भयोर्मतम् ।तिर्यक् तिरोऽर्थे वक्रे च विहगादौ त्वनव्ययम् ॥२६॥हिरुक् मध्ये विनार्थेऽति प्रकर्षे लङ्घने भृशे ।स्तुतावसम्प्रति क्षेपेऽप्यस्तु पीडानिषेधयोः ॥२७॥असूयायामनुज्ञायामाराद् दूरसमीपयोः ।इति स्वरूपे सांनिध्ये विवक्षानियमेऽपि च ॥२८॥हेतौ प्रकारप्रत्यक्षप्रकाशेष्ववधारणे ।एवमर्थे समाप्तौ स्यादुत प्रश्नवितर्कयोः ॥२९॥समुच्चये विकल्पे च तावद्यावदिवाऽवधौ ।कार्त्स्न्येऽवधारणे माने प्रतीत्थंभूतभागयोः ॥३०॥प्रतिदाने प्रतिनिधौ वीप्सालक्षणयोरपि ।पश्चात्प्रतीच्यां चरमे बताऽऽमन्त्रणखेदयोः ॥३१॥धृत्याश्चर्यानुकम्पासु यद्वत् प्रश्नवितर्कयोः ।शश्वत् सह पुनर्नित्ये सकृत्सहैकवारयोः ॥३२॥स्वस्त्याशीःक्षेमपुण्यादौ साक्षात् प्रत्यक्षतुल्ययोः ।हन्त दानेऽनुकम्पायां वाक्यारम्भविषादयोः ॥३३॥निश्चये च प्रमोदे चाप्यथो अथ समुच्चये ।मङ्गले संशयारम्भाधिकारानन्तरेषु च ॥३४॥अन्वादेशे प्रतिज्ञायां प्रश्नसाकल्ययोरपि ।तथा स्यान्निश्चये पृष्टप्रतिवाक्ये समुच्चये ॥३५॥यथा निदर्शने द्वौ तूद्देशे निर्देशसाम्ययोः ।हेतूपपत्तौ च वृथा त्वपिधौ स्यादनर्थके ॥३६॥अनु लक्षणवीप्सेत्थम्भूतभागेषु संनिधौ ।सादृश्यायामहीनेषु पश्चादर्थसहर्थयोः ॥३७॥नन्वाक्षेपे परिप्रश्ने प्रत्युक्ताववधारणे ।वाक्यारम्भेऽप्यनुनयामन्त्रणानुज्ञयोरपि ॥३८॥नाना विनोभयानेकार्थेषु स्थाने तु कारणे ।युक्ते साम्येऽप्यवस्तेयेऽप कृष्टे वर्जने मुदि ॥३९॥विपर्यये वियोगे च निर्देशे विकृतावपि ।अपि संभावनाशङ्कागर्हणासु समुच्चये ॥४०॥प्रश्ने युक्तपदार्थेषु कामचारक्रियासु च ।उपाऽऽसन्नेऽधिके हीने सादृश्यप्रतियत्नयोः ॥४१॥उद्योगव्याप्तिपूजासु शक्तावारम्भदानयोः ।दाक्षिण्याचार्यकरणदोषाख्यानात्ययेषु च ॥४२॥अभि वीप्सालक्षणयोरित्थम्भूताभिमुख्ययोः ।स्यादमा संनिधानार्थे सहार्थेऽलं निरर्थके ॥४३॥अलङ्करणसामर्थ्यपर्याप्तिषु च वारणे ।एवं प्रकारोमपयोरङ्गीकारेऽवधारणे ॥४४॥कथं प्रश्ने प्रकारार्थे सम्भ्रमे सम्भवेऽपि च ।कामं प्रकामेऽनुमतावसूयानुगमेऽपि च ॥४५॥किमु संभावनायां च मर्शे जोषं सुखे स्तुतौ ।मौनलङ्घनयोश्चापि नाम प्राकाश्यकुत्सयोः ॥४६॥सम्भाव्याभ्युपगमयोरलीके विस्मये क्रुधि ।नूनं तर्के निश्चिते च प्राध्वं नर्मानुकूलयोः ॥४७॥भृशं प्रकर्षेऽत्यर्थे च सामि त्वर्धे जुगुप्सिते ।अयि प्रश्नानुनययोरये क्रोधविषादयोः ॥४८॥सम्भ्रमे स्मरणे चान्तरन्ते स्वीकारमध्ययोः ।ऊरर्यूरी चोररी च विस्तारेऽङ्गीकृतावपि ॥४९॥पराभिमुख्ये प्राधान्ये विमोक्षप्रतिलोम्ययोः ।गतिहर्षणहिंसासु भृशार्थे विक्रमेऽपि च ॥५०॥परि व्याधानुपरमे वर्जने लक्षणादिषु ।आलिङ्गने च शोके च पूजायां दोषकीर्तने ॥५१॥भूषणे सर्वतोभावे व्याप्तौ निवसनेऽपि च ।पुरा भविष्यदासन्ने चिरातीतप्रबन्धयोः ॥५२॥पुनरप्रथमे भेदे किल सम्भाव्यवार्तयोः ।हेत्वरुच्योरलीके च खलु वीप्सानिषेधयोः ॥५३॥जिज्ञासायामनुनये वाक्यालङ्करणेऽपि च ।अवाऽऽलम्बनविज्ञानवियोगव्याप्तिशुद्धिषु ॥५४॥एवौपम्ये परिभव ईषदर्थेऽवधारणे ।उषा रात्रौ तदन्ते च दोषा निशि निशामुखे ॥५५॥मङ्क्षु शीघ्रे भृषे तत्त्वे ऽतो हेतोरपदेशवत् ।निर्देशे पञ्चम्यर्थे चेतो यतश्च विभागवत् ॥५६॥पञ्चम्यर्थे नियमे च तत आदौ कथान्तरे ।पञ्चम्यर्थे परिप्रश्ने तिरोऽन्तर्धौ तिरश्चि च ॥५७॥नीचैः स्वैराल्पनीचेषु प्रादुर्नामप्रकाशयोः ।पुरोऽग्रे प्रथमे च स्यात् मिथोऽन्योन्यं रहस्यपि ॥५८॥शनैः शनैश्चरे स्वैरे सहस्साहसतेजसोः ।अहो धिगर्थे शोके च करुणार्थविषादयोः ॥५९॥अह क्षेपे नियोगे चाप्याहो प्रश्नविचारयोः ।सह सम्बन्धसादृश्ययौगपद्यसमृद्धिषु ॥६०॥साकल्ये विद्यमाने च हीही विस्मयहास्ययोः ।इति द्विस्वराव्ययानि ।त्रिस्वराव्ययानिननुच प्रश्ने दुष्टोक्तौ सम्यग्वादे स्तुतावपि ॥६१॥अपष्ठु चारौ निर्दोषे किमुत प्रश्नवादयोः ।विकल्पेऽतिशये चापि पुरस्तात्प्रथमेऽग्रतः ॥६२॥पूर्वस्यां च पुरार्थे चाऽभीक्ष्णं शीघ्रप्रकर्षयोः ।पौनःपुन्ये सन्तते चाऽवश्यं निश्चयनित्ययोः ॥६३॥इदानीं साम्प्रतं वाक्यालङ्कारे तद्दिनं पुनः ।दिनमध्ये प्रतिदिने साम्प्रतं तूचितेऽधुना ॥६४॥समयानिकषे चान्तर्निकटे चान्तरा पुनः ।विनार्थे संनिधौ मध्येऽभितोऽभिमुखकात्र्स्नयोः ॥६५॥सभीपोभयतःशीघ्रेष्वग्रतः प्रथमाग्रयोः ।अन्ततोऽवयवोत्प्रेक्षापञ्चम्यर्थषु शासने ॥६६॥पुरतोऽग्राद्ययोः पूर्वेद्युः पूर्वाह्णप्रभातयोः ।अहहेत्यद्भुते खेदे-इति त्रिस्वराव्ययानि ।चतुःस्वराव्ययानिअन्तरेणाऽन्तर्विनार्थयोः ॥६७॥अहोबताऽनुकम्पायां खेदामन्त्रणयोरपि ।इति चतुःस्वराव्ययानि ।पञ्चस्वराव्ययानिअनपयति प्रभाते क्षणंक्षणं क्षणार्थके ॥६८॥इति पञ्चस्वराव्ययानि ।इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसङ्ग्रहे एकादिपञ्चास्वराव्ययाऽभिधः परिशिष्टः काण्डः ।समाप्तश्चाऽयं ग्रन्थः । N/A References : N/A Last Updated : November 07, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP