संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|अनेकार्थसङ्ग्रहः| चतुःस्वरकाण्डः अनेकार्थसङ्ग्रहः विषयानुक्रमणिकाः प्राक्कथनम् एकस्वरकाण्डः द्विस्वरकाण्डः त्रिस्वरकाण्डः चतुःस्वरकाण्डः पञ्चस्वरकाण्डः षट्स्वरकाण्डः परिशिष्टकाण्डः अनेकार्थसङ्ग्रहः - चतुःस्वरकाण्डः आचार्यश्रीहेमचन्द्रेण विरचितः अनेकार्थसङ्ग्रहो नाम कोशः Tags : anekarthahem chandrensanskritअनेकार्थसङ्ग्रहआचार्य श्रीहेमचन्द्रेणसंस्कृत चतुःस्वरकाण्डः Translation - भाषांतर अथ चतुर्थः काण्डः ।चतुःस्वरकान्ताःअङ्गारकस्तूल्मुकांशे महीपुत्रे कुरुण्टके ।अङ्गारिका त्विक्षुकाण्डे किंशुकस्य च कोरके ॥१॥अलिपिकः पिके भृङ्गेऽलिमकः पद्मकेसरे ।मधूके कोकिले भेकेऽश्मन्तकं मल्लिकाच्छदे ॥२॥चुल्यां चाऽऽक्षेपको व्याधे निन्दके वातरुज्यपि ।आकल्पकस्तमोमोहग्रन्थावुत्कलिकामुदोः ॥३॥आखनिकस्त्वाखुरिव किरावुन्दुरुचौरयोः ।उत्कलिका तु हेलायां तरङ्गोत्कण्ठयोरपि ॥४॥एडमूकोऽनेडमूक इवावाक्श्रुरुतिके शठे ।कठिल्लकस्तु वर्षाभ्वां पर्णासे कारवेल्लके ॥५॥कर्क्कोटकोऽहौ बिल्वे च कनीनिकाऽक्षितारके ।स्यात्कनिष्ठाङ्गुलिरपि काकरूको दिगम्बरे ॥६॥उलूके स्त्रीजिते दम्भे भीरुके निर्द्धनेऽपि च ।कुरुबकः शोणाम्लानेऽरुणा पीता च झिण्टिका ॥७॥कृकवाकुस्ताम्रचूडे मयूरकृकलासयोः ।कोशातकः कचे कोशातकी ज्योत्स्नी पटोलिका ॥८॥घाषकेऽथ कौलेयकः सारमेयकुलीनयोः ।कौक्कुटिको दाम्भिके स्याददूरेरितलोचने ॥९॥गुणनिका तु शून्याङ्के नर्तने पाठनिश्चये ।गोमेदकं पीतरत्ने काकोले पत्रकेऽपि च ॥१०॥गोककण्टको गोक्षुरके गोखुरे स्थपुटीकृते ।गोकुलिकः केकरे स्यात्पङ्कस्थगव्युपेक्षके ॥११॥घर्घरिका भ्रष्टधान्ये किङ्किण्यां सरिदन्तरे ।वादित्रस्य च दण्डेऽपि चाण्डालिकौषधीभिदि ॥१२॥किन्नरायामुमायां च जर्जरीकं जरातुरे ।बहुच्छिद्रेऽप्यथ जैवातृकः स्याद्रजनीकरे ॥१३॥कृशायुष्मद्भेषजेषु तर्तरीकं वहित्रके ।पारगे त्रिवर्णकस्तु गोक्षुरेऽथ त्रिवर्णकम् ॥१४॥त्र्यूषणं त्रफला तिक्तशाकस्तु पथि सुन्दरे ।वरुणे खदिरे दन्दशूकस्तु फणिरक्षसोः ॥१५॥दलाढकोऽरण्यतिले गैरिके नागकेसरे ।कुन्दे महत्तरे फेने करिकर्णशिरीषयोः ॥१६॥वात्यायां खातके पृश्न्यां दासेरकस्तु धीवरे ।दासीपुत्रे च करभे नियामको नियन्तरि ॥१७॥पोतवाहे कर्णधारे निश्चारकः समीरणे ।पुरीषस्य क्षये स्वैरे प्रचलाको भुजङ्गमे ॥१८॥शराघाते शिखण्डे च प्रकीर्णकं तुरङ्गमे ।चामरे विस्तरे ग्रन्थभेदे पिप्पलकं पुनः ॥१९॥चूचुके सीवनसूत्रे पिण्डीतकः फणिज्जके ।तगरे मदनेऽद्रौ च पुण्डरीकं सिताम्बुजे ॥२०॥सितच्छत्रे भेषजे च पुण्डरीकोऽग्निदिग्गजे ।सहकारे गणधरे राजिलाहौ गजज्वरे ॥२१॥कोषकारान्तरे व्याघ्रे पुष्कलकस्तु कीलके ।क्षपणे गन्धहरिणे स्यात्पूर्णानकमानके ॥२२॥पात्रे च पूर्णपात्रे च फर्फरीकं तु मार्दवे ।फर्फरीकश्चपेटायां बलाहकोऽम्बुदे गिरौ ॥२३॥दैत्ये नागे बर्बरीकः केशविन्यासकर्मणि ।शाकभेदे महाकाले वकेरुका बलाकिका ॥२४॥वातावर्जितशाखा च भ्रमरको मधुव्रते ।गिरिके चूर्णकेशे च भयानकः सभीषणे ॥२५॥व्याघ्रे राहौ रसे भट्टारको राज्ञि मुनौ सुरे ।भार्याटिको मृगभेदे भार्यया च विनिर्जिते ॥२६॥मरुबकः पुष्पभेदे मदनद्रौ फणिज्जके ।मयूरकस्त्वपामार्गे मयूरकं तु तुत्थके ॥२७॥मण्डोदकं तु चित्तस्य राग आतर्पणेऽपि च ।माणवकः कुपुंसि स्याद्बालहारभिदोरपि ॥२८॥मृष्टेरुकः स्यान्मिष्टाशे दानशौण्डेऽतिथिद्विषि ।रतर्द्धिकं तु दिवसे सुखस्नानेऽष्टमङ्गले ॥२९॥राधरङ्कुः सुनासीरे शीकरे जलदोपले ।लालाटिकः स्यादाश्लेषभेदे कार्याक्षमेऽपि च ॥३०॥प्रभोर्भालदर्शिनि च लेखनिकस्तु तत्र यः ।स्वहस्तपरहस्तेन लिखितेषु विलेखयेत् ॥३१॥लेखहारे वर्त्तरूकः काकनीडे जलावटे ।वराटकः पद्मबीजकोशे रज्जौ कपर्दके ॥३२॥वरण्डकस्तु मातङ्गवेद्यां यौवनकण्टके ।संवर्तुले कचे भित्तौ विनायको गणाधिपे ॥३३॥बुद्धे तार्क्ष्ये गुरौ विघ्ने वितुन्नकं तु धान्यके ।झाटामलौषधौ चापि विदूषकोऽन्यनिन्दके ॥३४॥क्रीडानायकपात्रे च विशेषकस्तु पुण्ड्रके ।विशेषाधायके वापि वृन्दारको मनोरमे ॥३५॥सुरे श्रेष्ठे बृहतिका स्यादूरुवस्त्रभेदयोः ।वैतानिकः खड्गताले मङ्गलपाठकेऽपि च ॥३६॥वैनाशिकः स्यात्क्षणिके परायत्तोर्णनाभयोः ।वैदेहको वणिजके वैश्यापुत्रे च शूद्रतः ॥३७॥शतानीको मुनौ वृद्धे शालावृको वलीमुखे ।सारमेये श्रृङ्गाले च शिलाटकः शिलाट्टयोः ॥३८॥श्रृङ्गाटकं पथां श्लेषे पानीयकण्टकेऽपि च ।श्रृगालिका शिवायां स्यात्त्रासादपि पलायने ॥३९॥सङ्घाटिका तु कुट्टिन्यां घ्राणे युग्मेऽम्बुकण्टके ।सन्तानिका क्षीरसारे मर्कटस्य च जालके ॥४०॥सुप्रतीकः स्यादीशानदिग्गजे शोभनाङ्गके ।सैकतिकं पुनर्मातृयात्रामङ्गलसूत्रयोः ॥४१॥सैकतिकः क्षपमके संन्यस्ते भ्रान्तिजीविनि ।सोमवल्कः कट्फले स्याद्वलक्षखदिरद्रुमे ॥४२॥सौगन्धिको गन्धवणिक् सौगन्धिकं तु कत्तृणे ।गन्धोपले पद्मरागे कह्लारे -इति चतुःस्वरकान्ताः ।चतुःस्वरखान्ताःअग्निमुखो द्विजे ॥४३॥भल्लाते चित्रके देवेऽप्यग्निशिखं तु कुङ्कुमे ।अग्निशिखा लाङ्गलिक्यामिन्दुलेखेन्दुखण्डके ॥४४॥गुडूचीसोमलतयोः पञ्चनखस्तु कच्छपे ।गजे बद्धशिखो बाले बद्धशिखोश्चटौषधौ ॥४५॥महाशङ्खो निधिभेदे संख्याभेदे नरास्थिनि ।व्याघ्रनखस्तु कन्दे स्याद्गन्धद्रव्यान्तरेऽपि च ॥४६॥शशिलेखा वृत्तभेदे वाकूचीन्द्रलेखयोः ।शिलीमुखोऽलौ बाणे च-इति चतुःस्वरखान्ताः ।चतुःस्वरगान्ताःअपवर्गस्त्यागमोक्षयोः ॥४७॥क्रियावसानसाफल्येऽप्यभिषङ्गः पराभवे ।आक्रोशे शपथे चेहामृगः स्याद्रूपकान्तरे ॥४८॥वृके जन्तौ चोपरागो राहुग्रस्तार्कचन्द्रयोः ।विगाने दुर्नये राहावुपसर्ग उपद्रवे ॥४९॥प्रादौ रोगप्रभेदे च कटभङ्गो नृपात्यये ।हस्तच्छेदे च सस्यानां छत्रभङ्गो नृपक्षये ॥५०॥स्वातन्त्र्ये विधवत्त्वे च दीर्घाध्वगः क्रमेलके ।लेखहारे मल्लनागो वात्स्यायनसुरेभयोः ॥५१॥समायोगस्तु संयोगे समवाये प्रयोजने ।सम्प्रयोगो निधुवने सम्बन्धे कार्मणेऽपि च ॥५२॥इति चतुःस्वरगान्ताः ।चतुःस्वरचान्ताःजलसूचिः शिशुमारे त्रोटिमत्स्ये जलौकसि ।कङ्कश्रृङ्गाटयोश्चापि मलिम्लुचस्तु तस्करे ॥५३॥वाते-इति चतुःस्वरचान्ताः ।चतुःस्वरजान्ताःकाश्मीरजं कुष्टे कुङ्कुमे पुष्करेऽपि च ।काश्मीरजाऽतिविषायां क्षीराब्धिजं तु मौक्तिके ॥५४॥वशिरे क्षीराब्धिजस्तु चन्द्रे क्षीराब्धिजा श्रियाम् ।ग्रहराजः शशिन्यर्के जघन्यजोऽनुजन्मनि ॥५५॥शूद्रे च द्विजराजस्तु शेषे तार्क्ष्ये निशाकरे ।धर्मराजस्तु सुगते श्राद्धदेवे युधिष्ठिरे ॥५६॥भरद्वाजः पक्षिभेदे बृहस्पतिसुतेऽपि च ।भारद्वाजो मुनौ भारद्वाजी वनपिचुद्रुमे ॥५७॥भृङ्गराजो मधुकरे मार्कवे विहगान्तरे ।राजराजो नृपेशेन्द्वोः कुबेरेऽथ सकृत्प्रजः ॥५८॥द्विके सिंहे-इति चतुःस्वरजान्ताः ।चतुःस्वरटान्ताःअथोच्चिङ्गटः कोपने मीनभिद्यपि ।करहाटः पद्मकन्दे पुष्पद्रुमविशेषयोः ॥५९॥कार्यपुटोऽनर्थकरे कृपणोन्मत्तयोरपि ।कामकूटौ वेश्याविभ्रमेष्ठावथ कुटन्नटः ॥६०॥शोणके कैवर्तीमुस्ते कुण्डकीटस्तु जारतः ।विप्रापुत्रे धवे दास्याश्चार्वाकोक्तिविशारदे ॥६१॥खञ्जरीटस्तु फलकेऽसिधाराव्रतचारिणि ।गन्धकुटी मदिरायां बुद्धाद्यायतनेऽपि च ॥६२॥गाढमुष्टिस्तु कृपणे कृपाणप्रभृतावपि ।चक्रवाटस्तु पर्यन्ते क्रियारोहे शिखातरौ ॥६३॥चतुःषष्टिश्चतुःषष्टिकलासु च हवेऽपि च ।तुलाकोटिर्मानभेदेऽर्बुदे स्यान्नूपुरेऽपि च ॥६४॥नारकीटः स्वदत्ताशाविहन्तर्यश्मकीटके ।प्रतिकृष्टं तु गुह्ये स्याद्द्विरावृत्त्या च कर्षिते ॥६५॥प्रतिसृष्टः पुनः प्रत्याख्याते च प्रेषितेऽपि च ।परपुष्टः कलकण्ठे परपुष्टा पणाङ्गना ॥६६॥वर्कराटस्तु तरुणादित्यरोचिःकटाक्षयोः ।स्त्रीणां पयोधरोत्सेधकान्तदत्तनखेऽपि च ॥६७॥शिपिविष्टस्तु खल्वाटे दुश्चर्मणि पिनाकिनि ।श्रुतिकटः प्राञ्चलोहे प्रायश्चित्तभुजङ्गयोः ॥६८॥इति चतुःस्वरटान्ताः ।चतुःस्वरठान्ताःकलकण्ठः पिके पारावते हंसे कलघ्वनौ ।कालकण्ठनीलकण्ठौ पीतसारे महेश्वरे ॥६९॥दात्यूहे ग्रामचटके खञ्जरीटे शिखावले ।कालपृष्ठं तु कोदण्डमात्रके कर्णधन्वनि ॥७०॥कालपृष्ठो मृगभेदे कङ्के दन्तशठः पुनः ।जम्बीरे नागारङ्गे च कर्मकारकपित्थयोः ॥७१॥पूतिकाष्ठं तु सरले देवदारुद्रुमेऽपि च ।सूत्रकण्ठः खञ्जरीटे द्विजन्मनि कपोतके ॥७२॥हारिकण्ठो हारयुक्तकण्ठे परभृतेऽपि च ।इति चतुःस्वरठान्ताः ।चतुःस्वरडान्ताःअपोगण्डोऽतिभीरौ स्याच्छिशुके विकलाङ्गके ॥७३॥चक्रवाडं गणे चक्रवाडोऽद्रौ चक्रवालवत् ।जलरुण्डः पयोरेणौ जलावर्त्ते भुजङ्गमे ॥७४॥देवताडो घोषकेऽग्रौ राहौ वातखुडा पुनः ।वात्यायां पिच्छिले स्फोटे वामायां वातशोणिते ॥७५॥इति चतुःस्वरडान्ताः ।चतुःस्वरढान्ताःअध्यारूढः समारूढेऽप्यधिकेऽप्यभिधेयवत् ।इति चतुःस्वरढान्ताः ।चतुःस्वरणान्ताःअङ्गारिणी हसन्त्यां स्याद्भास्करत्यक्तदिश्यपि ॥७६॥आथर्वणोऽथर्वविदि ब्रह्मणे च पुरोधसि ।आरोहणं समारोहे सोपाने च प्ररोहणे ॥७७॥आतर्पणं तु सौहित्ये विद्यादालिम्पनेऽपि च ।उत्क्षेपणा तु व्यजने धान्यमर्दनवस्तुनि ॥७८॥उदञ्चने चोद्धरणं स्यादुन्मूलन उन्नये ।वान्तान्ने च कामगुणो विषयाभोगयो रतौ ॥७९॥कार्षापणः कार्षिके स्यात् पणे षोडशकेऽपि च ।चीर्णपर्णस्तु निम्बे स्यात् खर्जूरीभूरुहेऽपि च ॥८०॥चूडामणिः काकचिञ्चाफले मूर्द्धमणावपि ।जुहुवाणोऽध्वर्युवह्न्योस्तण्डुरीणस्तु बर्बरे ॥८१॥तण्डुलाम्बुनि कीटे च तैलपर्णी तु सिह्लके ।श्रीवासे चन्दने दाक्षायण्युमायां च भेषु च ॥८२॥रोहिण्यां च देवमणिर्विष्णुवक्षोमणौ हरौ ।अश्वस्य कण्ठावर्त्ते च नारायणस्तु केशवे ॥८३॥नारायणी शतावर्युमा श्रीर्निःसरणं मृतौ ।उपाये गेहादिमुखे निर्वाणे निर्गमेऽपि च ॥८४॥निस्तरणं तु निस्तारे तरणोपाययोरपि ।निरूपणं विचारे स्यादालोके च निदर्शने ॥८५॥निगरणं भोजने स्यात् निगरणः पुनर्गले ।प्रवारणं काभ्यदाने निषेधेऽथ परीरणः ॥८६॥दण्डे कूर्मे पट्टशाटे पर्परीणं तचु पर्वणि ।पर्णवृन्तरसे पर्णशिरायां द्यूतकम्बले ॥८७॥परायणं स्यादभीष्टे तत्पराश्रययोरपि ।परवाणिर्धर्माध्यक्षे वर्षे पारायणं पुनः ॥८८॥कार्त्स्न्ये पारगतौ सङ्गे पीलुपर्ण्यौषधीभिदि ।मूर्वायां बिम्बिकायां च पुष्करिणी जलाश्रये ॥८९॥हस्तिन्यां कमलिन्यां च मीनाम्रीणस्तु खञ्जने ।दर्दुराम्रे रक्तरेणुः पलाशकलिकोद्गमे ॥९०॥सिन्दूरे रागचूर्णस्तु खदिरे मकरध्वजे ।रेरिहाणोऽम्बरे रुद्रे लम्बकर्णः पुनश्छगे ॥९१॥अङ्कोटे वारबाणस्तु कूर्पासे कवचेऽपि च ।विदारणं भेदने स्यात्सम्परायविडम्बने ॥९२॥वैतरणी प्रेतनद्यां जनन्याममपि रक्षसाम् ।शरवाणिः शरमुखे पदातौ शरजीविनि ॥९३॥शिखरिणी वृत्तभेदे रोमालीपेयभेदयोः ।स्त्रीरत्ने मल्लिकायां च समीरणः फणिज्जके ॥९४॥पान्थे वायौ संसरणं त्वसम्बाधचमूगतौ ।संसारे समरारम्भे नगरस्योपनिर्गमे ॥९५॥हस्तिकर्णः स्यादेरण्डे पलाशगणभेदयोः ।इति चतुःस्वरणान्ताः ।चतुःस्वरतान्ताःअवदातं तु विमलं मनोज्ञे सितपीतयोः ॥९६॥अपवृतोऽपरायत्ते पिहितेऽवसितं गतौ ।बद्धे ज्ञातेऽवसाने चाप्यऽवगीतं विगर्हिते ॥९७॥मुहुर्दृष्टेऽपवादे वाऽत्याहितं तु महाभये ।जीवनिरपेक्षकर्मण्यभिजातः कुलोद्भवे ॥९८॥न्याये प्राज्ञेऽभिनीतस्तु न्यायेऽमर्षिणि संस्कृते ।अभियुक्तः परिरुद्धे तत्परेऽन्तर्गतं पुनः ॥९९॥मध्यप्राप्तविस्मृतयोरङ्गारितं तु भस्मिते ।पलाशकलिकोद्भेदे चातिमुक्तः सुनिष्कले ॥१००॥वासन्तिकायां तिनिशेऽप्यवध्वस्तोऽवचूर्णिते ।त्यक्तनिद्रितयोश्चाऽधिक्षिप्तौ निहितभर्त्सितौ ॥१०१॥अपचितिर्व्यये हानौ पूजायां निष्कृतावपि ।अनुमतिः स्यादनुज्ञापूर्णमासीविशेषयोः ॥१०२॥अभिशस्तिः पुनर्लोकापवादे प्रार्थितेऽपि च ।उदास्थितश्चरे द्वाःस्थेऽध्यक्षे चोपाहितः पुनः ॥१०३॥आरोपितेऽनलोत्पातेऽप्युपाकृत उपद्रुते ।मन्त्रेण प्रोक्षितपशावुल्लिखितं तनूकृते ॥१०४॥उत्कीर्णे चोपरक्तस्तु स्वर्भानौ व्यसनातुरे ।राहुग्रस्तार्कशशिनोरुपचितः समाहिते ॥१०५॥ऋद्धे दिग्धेऽथोज्जृम्भितमुत्फुल्ले चेष्टितेऽपि च ।उद्ग्राहितमुपन्यस्ते बद्धग्राहितयोरपि ॥१०६॥उपसत्तिः सङ्गमात्रे प्रतिपादनसेवयोः ।ऋष्यप्रोक्ता शूकशिम्ब्यां शतावर्यां बलाभिदि ॥१०७॥ऐरावतोऽहौ नारङ्गे लकुचे त्रिदशद्विपे ।ऐरावतं तु शक्रस्य ऋजुदीर्घशरासने ॥१०८॥ऐरावती सरिद्विद्युद्भिदोः शतह्रदा यथा ।कलधौतं रूप्यहेम्नोः कलधौतः कलध्वनौ ॥१०९॥कुहरितं तु रटिते पिकालापे रतस्वने ।कुमुद्वती कैरविण्यां दयितायां कुशस्य च ॥११०॥कृष्णवृन्ता माषपर्ण्यां पाटलाख्यद्रुमेऽपि च ।गन्धवती मुरापुर्योः पृथ्वीयोजनगन्धयोः ॥१११॥गृहपतिर्गृही सत्री चन्द्रकान्तं तु कैरवे ।चन्द्रकान्तो रत्नभेदे चर्मण्वती नदीभिदि ॥११२॥कदल्यां चित्रगुप्तस्तु कृतान्ते तस्य लेखके ।दिवाभीतः काकरिपौ कुम्भिले कुमुदाकरे ॥११३॥दिवाकीर्तिर्नापिते स्यादुलूकेऽन्त्यावसायिनि ।धूमकेतू वह्न्युत्पातौ नन्द्यावर्तो गृहान्तरे ॥११४॥तगरेऽथ नदीकान्तो निर्गुण्डीनिचुलाब्धिषु ।नदीकान्ता लताजम्ब्वोः काकजङ्घौषधेऽपि च ॥११५॥नागदन्तो हस्तिदन्ते गृहान्निःसृतदारुणि ।नागदन्ती श्रीहस्तिन्यां कुम्भख्यभेषजेऽपि च ॥११६॥निस्तुषितं वर्जिते स्याद्गतत्वचि लघूकृते ।निराकृतिरस्वाध्याये निराकारनिषेधयोः ॥११७॥प्रतिहतस्तु विद्विष्टे प्रतिस्खलितरुद्धयोः ।प्रणिहितं तु सम्प्राप्तनिहितयोः समाहिते ॥११८॥प्रतिक्षिप्तं प्रतिहते निषिद्धे प्रेषितेऽपि च ।प्रधूपिता क्लेशितायां रविगन्तव्यदिश्यपि ॥११९॥प्रव्रजिता तु मुण्डीर्यां तापस्यां मासिकौषधौ ।प्रजापतिर्ब्रह्मराज्ञोर्जामातरि दिवाकरे ॥१२०॥वह्नौ त्वष्टरि दक्षादौ प्रतिकृतिस्तु पूजने ।प्रतिमायां प्रतीकारे प्रतिपत्तिस्तु गौरवे ॥१२१॥प्राप्तौ प्रवृत्तौ प्रागल्भ्ये बोधे परिगतं गते ।प्राप्तवेष्टितयोर्ज्ञाते पल्लवितं सपल्लवे ॥१२२॥लाक्षारक्ते तते पञ्चगुप्तश्चार्वाकदर्शने ।कमठे परिवर्तस्तु कूर्मराजे पलायने ॥१२३॥युगान्ते विनिमये च परिघातस्तु घातने ।अस्त्रान्तरे पशुपतिः पिनाकिनि हुताशने ॥१२४॥पाशुपतः शिवमल्ल्यां पशुपत्यभिदैवते ।पारिजातस्तु मन्दरे पारिभद्रे सुरद्रुमे ॥१२५॥पारावतः कलरवे गिरौ मर्कटतिन्दुके ।पारावती तु लवलीफलगोपालगीतयोः ॥१२६॥पुष्पदन्तस्तु दिङ्नागे जिनभेदे गणान्तरे ।पुष्पवन्तौ च चन्द्रार्कावेकोक्त्याऽथ पुरस्कृतम् ॥१२७॥पूजिते स्वीकृते सिक्तेऽभिशस्तेऽप्रकृतेऽपि च ।भोगवती च सर्पाणां नगरे सरिदन्तरे ॥१२८॥रङ्गमाता जतुचेद्योर्लक्ष्मीपतिर्जनार्दने ।पूगे लवङ्गवृक्षे च व्यतीपात उपद्रवे ॥१२९॥योगभेदेऽपयाने च वनस्पतिर्द्रुमात्रके ।विनापुष्पफलिद्रौ च विनिपातस्तु दैवतः ॥१३०॥व्यसनं चावपाते च वैजयन्तो गुहे ध्वजे ।इन्द्रालये वैजयन्ती त्वग्निमन्थपताकयोः ॥१३१॥जयन्त्यां च शुभ्रदन्ती पुष्षदन्तगजस्त्रियाम् ।सुदत्यां च समाघातस्त्वाहवे घातनेऽपि च ॥१३२॥समाहितः समाधिस्थे संश्रुतेऽथ समुद्धतः ।अविनीते समुद्गीर्णे समुद्रान्ता दुरालभा ॥१३३॥कर्पासिका च सृक्का च सदागतिः सदीश्वरे ।निर्वाणे पवमाने च सरस्वती सरिद्भिदि ॥१३४॥वाच्यापगायां स्त्रीरत्ने गोवाग्देवतयोरपि ।सूर्यभक्तो बन्धुजीवे भास्करस्य च पूजके ॥१३५॥सेनापतिर्गुहेऽध्यक्षे हिमारातिः खगेऽनले ।हैमवत्यद्रिजा स्वर्णक्षीरी शुक्लवचाऽभाया ॥१३६॥इति चतुःस्वरतान्ताः ।चतुःस्वरथान्ताःअनीकस्थो रक्षिवर्गे युत्खले वीरमर्दले ।चिह्ने गजशिक्षके चेतिकथा व्यर्थभाषणे ॥१३७॥अश्रद्धेये नष्टधर्मेऽप्युदरथिर्वियन्मणौ ।अब्धौ चित्ररथौ विद्याधरे गन्धर्वसूर्ययोः ॥१३८॥चतुष्पथश्चतुर्मार्गसङ्गमे ब्राह्मणेऽपि च ।दशमीस्थोऽतिवृद्धे स्यात्क्षीणरागे मृताशने ॥१३९॥वानप्रस्थो मधूकद्रौ किंशुकाश्रमभेदयोः ।इति चतुःस्वरथान्ताः ।चतुःस्वरदान्ताःअष्टापदश्चन्द्रमाल्यां लूतायां शरभे गिरौ ॥१४०॥कनके शारिफलकेऽभिमर्दो मन्थयुद्धयोः ।स्यादभिष्यन्द आश्रावनेत्ररोगातिवृद्धिषु ॥१४१॥अपवादस्तु निर्देशे निन्दाविस्रम्भयोरपि ।उपनिषत्तु वेदान्ते रहस्यधर्मयोरपि ॥१४२॥एकपदं तु तत्काले स्यादेकपदी तु वर्त्मनि ।कटुकन्दः श्रृङ्गवेरे शोभाञ्जनरसोनयोः ॥१४३॥कुरुविन्दः पद्मरागे मुकुरव्रीहिभेदयोः ।कुल्माषे हिङ्गुले मुस्ते कोकनदं तु रक्तयोः ॥१४४॥अम्भोजन्मकुमुदयोश्चतुष्पदं गवादिषु ।स्त्रीणां करमभेदे च रक्तपादो(?) मतङ्गजे ॥१४५॥स्यन्दने च जनपदः स्यात्पुनर्जनदेशयोः ।परिवादस्तु निन्दायां वीणावादनवस्तुनि ॥१४६॥प्रियंवदः प्रियवादिनभश्चरविशेषयोः ।पीठमर्दोऽतिधृष्टे स्यान्नाट्योक्त्या नायकप्रिये ॥१४७॥पुटभेदस्तु नगरातोद्ययोस्तटिनीमुखे ।महानादो वर्षुकाब्दे महाध्वाने शयानके ॥१४८॥गजे च मुचुकुन्दस्तु द्रुभेदे मुनिदैत्ययोः ।मेघनादोऽम्बुदध्वाने वरुणे रावमात्मजे ॥१४९॥विशारदो बुधे धृष्टे विष्णुपदं नभोब्जयोः ।विष्णुपदस्तु क्षीरोदे विष्णुपदी सुरापगा ॥१५०॥सङ्क्रान्तिर्द्वारका चापि शतह्रदा तु विद्युति ।वज्रेऽपि च समर्यादा मर्यादासहितेऽन्तिके ॥१५१॥इति चतुःस्वरदान्ताः ।चतुःस्वरधान्ताःअनुबन्धोऽप्रयोगे स्याच्छिशौ मुख्यानुयायिनि ।प्रकृतस्यानुवर्ते च दोषस्यापादनेऽपि च ॥१५२॥अनुबन्धी तृषा हिक्काऽवरोधस्तु नृपौकसि ।शुद्धान्ते च तिरोधाने गर्तादौ रोधनेऽपि च ॥१५३॥अवष्टब्धमदूरे स्यात्समाक्रान्तेऽवलम्बिनि ।अनिरुद्धश्चरे पुष्पायुधसूनावनर्गले ॥१५४॥आशाबन्धः समाश्वासे मर्कटस्य च जालके ।इष्टगन्धः सुगन्धि स्यादिष्टगन्धं तु वालुके ॥१५५॥इक्षुगन्धा काशक्रोष्ट्रीकोकिलाक्षेषु गोक्षुरे ।उग्रगन्धा वचाक्षेत्रयवान्योश्छिक्किकौषधौ ॥१५६॥उपलब्धिर्मतौ प्राप्तौ कालस्कन्धस्तु तिन्दुके ।तमाले जीवकद्रौ च तीक्ष्णगन्धा वचौषधे ॥१५७॥शोभाञ्जने राजिकायां परिव्याधो द्रुमोत्पले ।वेतसे महौषधं तु विषाशुण्ठ्योः रसोनके ॥१५८॥ब्रह्मबन्धुर्निन्द्यविप्रे ब्राह्मणस्य च बान्धवे ।समुन्नद्धस्तूर्द्ध्वबद्धे पण्डितंमन्यदृप्तयोः ॥१५९॥इति चतुःस्वरधान्ताः ।चतुःस्वरनान्ताःअपाचीनं विपर्यस्ते पामर्थेऽभिजनः कुले ।कुलध्वजे जन्मभूम्यामभिमानस्त्वहङ्कृतौ ॥१६०॥हिंसायां प्रणये ज्ञानेऽवलग्नो मध्यलग्नयोः ।अवदानमतिवृत्ते खण्डने शुद्धकर्मणि ॥१६१॥अधिष्ठानं प्रभावेऽध्यासने नगरचक्रयोः ।अनूचानः साङ्गवेदकोविदे विनयान्विते ॥१६२॥अन्वासनं स्नेहवस्तौ सेवायामनुशोचने ।अग्रजन्माऽग्रजे विप्रेऽन्तेवासी पुनरन्त्यजे ॥१६३॥शिष्यप्रान्तगयोश्चाप्यायोधनं समरे वधे ।आराधनं पाकप्राप्त्योः साधने तोषणेऽपि च ॥१६४॥आच्छादनं तु वासेन संपिधानेऽपवारणे ।आकलनं परिसंख्याकांक्षयोर्बन्धनेऽपि च ॥१६५॥आतञ्चनं स्याज्जवेन प्रीणनप्रतिवापयोः ।आवेशनं भूतावेशे प्रवेशे शिल्पवेश्मनि ॥१६६॥आस्कन्दनं तिरस्कारे संशोषणसमीकयोः ।आत्माधीनः सुते प्रामाधारे श्याले विदूषके ॥१६७॥आत्मयोनिः स्मरे वेधस्युद्वर्तनं विलेपने ।अपावृत्तावुत्पतने स्यादुपासनमासने ॥१६८॥शुश्रूषायां शराभ्यासेऽप्युषधानं तु गेन्दुके ।व्रते विशेषे प्रणये स्यादुत्पतनमुत्प्लुतौ ॥१६९॥उत्पत्तावुदयनस्तु वत्सराजे घटोद्भवे ।उत्सादनं समुल्लेखोद्वर्तनोद्वाहनेषु च ॥१७०॥उद्वाहनं द्विसीत्ये स्यादुद्वाहनी वराटके ।कपीतना गर्दभाण्डशिरीषाम्रातपिप्पलाः ॥१७१॥कलध्वनिः परभृते पारावतकलापिनोः ।कात्यायनो वररुचौ कात्यायनी तु पार्वती ॥१७२॥काषायवस्त्रविधवाऽर्द्धवृद्धा महिलाऽपि च ।कामचारी कलविङ्के स्वेच्छाचारिणि कामुके ॥१७३॥कारन्धमी धातुवादनिरते कांस्यकारिणि ।किष्कुपर्वा पोटगले स्यादिक्षुत्वचिसारयोः ॥१७४॥कुचन्दनं वृक्षभेदे पत्राङ्गे रक्तचन्दने ।कुम्भयोनिर्द्रोणेऽगस्त्ये कृष्णवर्त्मा विधुन्तुदे ॥१७५॥दुराचारे हुताशे च गवादनीन्द्रवारुणी ।घासस्थानं गवादीनां गदयित्नुः शरासने ॥१७६॥जल्पाके पुष्पचापे च घनाघनो निरन्तरे ।वासवे घातुके मत्तगजे वर्षुकवारिदे ॥१७७॥घोषयित्नुः पिके विप्रे चिरजीवी तु वायसे ।अजे च चित्रभानुस्तु हुताशनदिनेशयोः ॥१७८॥जलाटनः कङ्कखगे जलाटनी जलौकसि ।तपोधना तु मुण्डीर्यां तपोधनस्तपस्विनि ॥१७९॥तपस्विनी पुनर्मांसी कटुरोहिणिकापि च ।तिक्तपर्वा हिलमोची गुडूची मधुयष्टिका ॥१८०॥देवसेनेन्द्रकन्यायां सैन्ये दिविषदामपि ।नागाञ्जना नागयष्टौ द्विरदस्य च मुद्गरे ॥१८१॥निर्यातनं वैरशुद्धौ दाने न्याससमर्पणे ।निधुवनं रते कम्पे निर्वासनं तु मारणे ॥१८२॥पुरादेश्च बहिष्कारे निरसनं निषूदने ।निष्ठीवने निरासे च निशमनं निशामनम् ॥१८३॥निरीक्षणश्रवणयोर्निर्भर्त्स्ननमलक्तके ।खलीकारे प्रजननं प्रगमे योनिजन्मनोः ॥१८४॥प्रणिधानमभियोगे समाधानप्रवेशयोः ।प्रयोजनं कार्यहेत्वोः स्यात् प्रवचनमागमे ॥१८५॥प्रकृष्टवचने प्रस्फोटनं शूर्पे प्रकाशने ।ताडने प्रतिपन्नस्तु विज्ञातेऽङ्गीकृतेऽपि च ॥१८६॥प्रतियत्नः संस्कारे स्यादुपग्रहणलिप्स्योः ।प्रहसनं च प्रहसाक्षेपयोः रूपकान्तरे ॥१८७॥प्रतिमानं प्रतिबम्बे गजदन्तद्वयान्तरे ।प्रसाधनी कङ्कतिकासिद्ध्योः प्रसाधनं पुनः ॥१८८॥वेषे प्रचलाकी सर्पे मयूरेऽथ पयस्विनी ।विभावर्यां गोधेन्वां च पुण्यजनस्तु सज्जने ॥१८९॥गुह्यके यातुधाने च पृथग्जनोऽधमे जडे ।पृष्ठश्रृङ्गी भीमसेने षण्डसेरिभयोरपि ॥१९०॥महाधनं महामूल्ये सिह्लके चारुवाससि ।महासेनो महासैन्ये स्कन्देऽप्यथ महामुनिः ॥१९१॥अगस्तिकुस्तुम्बुरुणोर्मालुधानी लताभिदि ।मालुधाना मातुलाहौ मातुलानी पुनः शणे ॥१९२॥कलापे मातुलपत्न्यां रसायनो विहङ्गमे ।पक्षीन्द्रे रसायनं तु जराव्याधिजिदौषधे ॥१९३॥राजादनः पियालद्रौ क्षीरिकायां त्रिपत्रके ।रोचमानो दीप्ययाने कण्ठावर्त्ते च वाजिनः ॥१९४॥वर्द्धमानो वीरजिने स्वस्तिकैरण्डविष्णुषु ।प्रश्नभेदे शरावे च विरोचनोऽग्निसूर्ययोः ॥१९५॥प्रह्लादानन्दने चन्द्रे विहेठनं विडम्बने ।हिसायां मर्दने विस्मापना स्यात्कुहके स्मरे ॥१९६॥गन्धर्वनगरे चापि विष्पक्सेनो जनार्दने ।विष्वक्सेना तु फलिनी विश्राणनं विहापिते ॥१९७॥संप्रेषणे परित्यागे विहननं तु पिञ्जने ।वधेऽथ विश्वकर्मार्के मुनिभिद्देवशिल्पिनोः ॥१९८॥विघ्नकारी विघातस्य कारके घोरदर्शने ।विलेपनी स्याद्यवाग्वां चारुवेषस्त्रियामपि ॥१९९॥वृक्षादनो मधुच्छत्रे चलपत्रकुठारयोः ।वृक्षादनी तु वन्दायां विदारीगन्धिकौषधे ॥२००॥वृषपर्वा तु श्रृङ्गारिहरदैत्यकसेरुषु ।वैरोचनो रविसुते सुगते बलिदानवे ॥२०१॥श्वेतधामा घनसारे कलानाथाब्धिफेनयोः ।श्लेष्मघना तु केतक्यां मल्यामथ समापनम् ॥२०२॥परिच्छेदे समाधाने समाप्तिवधयोरपि ।संमूर्छनमभिव्याप्तौ मोहे सनातनोऽच्युते ॥२०३॥पितॄणामतिथौ रुद्रवेधसोः शाश्वते स्थिरे ।सदादानो गन्धगजे हेरम्बेऽभ्रमतङ्गजे ॥२०४॥संयमनं व्रते बन्धे संयमनी यमस्य पूः ।समादानं समीचीनग्रहणे नित्यकर्मणि ॥२०५॥समापन्नं वधे क्लिष्टे समाप्तप्राप्तयोरपि ।संवदनं च संवादे समालोचे वशीकृतौ ॥२०६॥समुत्थानं निदानेऽभियोगे संवाहनं पुनः ।वाहनेऽङ्गमर्दने च संप्रयोगी तु कामुके ॥२०७॥कलाकेलौ सुप्रयोगे सरोजिनी सरोरुहे ।सरोरुहिण्यां कासारे स्तनयित्नुः पयोमुचि ॥२०८॥मृत्यौ स्तनिते रोगे च सारसनमुरश्छदे ।काञ्च्यां च सामयोनिस्तु सामोत्थे द्रुहिणे गजे ॥२०९॥सामिधेनी समिदृचोः सुधामुनो जनार्दने ।प्रासादे वत्सराजेऽद्रिभेदे वाऽथ सुदर्शनम् ॥२१०॥विष्णोश्चक्रे सुदर्शन्यमरवत्यां सुदर्शना ।आज्ञायामौषधीभेदे मरुजम्ब्वां पुरीभिदि ॥२११॥सौदामिनी तडिद्भेदतडितोरप्सरोभिदि ।हर्षयित्नुः सुते स्वर्णे-इति चतुःस्वरनान्ताः ।चतुःस्वरपान्ताःअवलेपो गर्वलेपयोः ॥२१२॥दूषणेऽप्यपलापस्तु प्रेमापह्नवयोरपि ।उपतापो गदे तापे जलकूप्यन्धुगर्भके ॥२१३॥सरस्यां जीवपुष्पं तु दमनके फणिज्जके ।नागपुष्पस्तु पुन्नागे चम्पके नागकेसरे ॥२१४॥परिवापो जलस्थाने पर्युप्तिपरिवारयोः ।परिकम्पो भये कम्पे प्राप्तरूपोऽज्ञरम्ययोः ॥२१५॥पिण्डपुष्पं जवायां स्यादशोके सरसीरुहे ।बहुरूपः स्मरे विष्णौ सरटे धूणके शिवे ॥२१६॥मेघपुष्पं तु नादेये पिण्डाभ्रे सलिलेऽपि च ।विप्रलापो विरुद्धोक्तावनर्थकवचस्यपि ॥२१७॥वृगधूपो वृक्षधूपे सिह्लकेऽथ वृषाकपिः ।वासुदेवे शिवेऽग्नौ च हेमपुष्पं तु चम्पके ॥२१८॥अशोकद्रौ जपापुष्पे -इति चतुःस्वरपान्ताः ।चतुःस्वरबान्ताःराजजम्बूस्तु जम्बुभित् ।पिण्डखर्जूरवृक्षश्चाऽपि-इति चतुःस्वरबान्ताः ।चतुःस्वरभान्ताःअवष्टम्भस्तु काञ्चने ॥२१९॥सरम्भारम्भयोः स्तम्भे शातकुम्भोऽश्वमारके ।शातकुम्भं तु कनके -इति चतुःस्वरभान्ता ।चतुःस्वरमान्ताःअभ्यागमः समरेऽन्तिके ॥२२०॥घाते रोधेऽभ्युपगमेऽनुपमस्तु मनोरमे ।अनुपमा सुप्रतीकस्त्रियामुपगमः पुनः ॥२२१॥अङ्गीकारेऽन्तिकगतावुपक्रमस्तु विक्रमे ।उपधायां तदाद्याचिख्यासाचिकित्सयोरपि ॥२२२॥आरम्भेऽथ जलगुल्मो जलावर्तेऽम्बुचत्वरे ।कमठे दण्डयामस्तु दिवसे कुम्भजे यमे ॥२२३॥प्लवङ्गमः कपौ भेके पराक्रमस्तु विक्रमे ।सामर्थ्ये चाऽभियोगे च महापद्मः पुनर्निधौ ॥२२४॥नागसंख्याभिदोर्यातयामो भुक्तसमुज्झिते ।जीर्णे च सार्वभौमस्तु दिग्गजे चक्रवर्तिनि ॥२२५॥इति चतुःस्वरमान्ताः ।चतुःस्वरयान्ताःअनुशयः पश्चात्तापे दीर्घद्वेषानुबन्धयोः ।अन्वाहार्यममावास्याश्राद्धमिष्टेश्च दक्षिणा ॥२२६॥अवसायोपयुक्तान्ये(?) समाप्तौ निश्चयेऽपि च ।अवश्यायो हिमे दर्पेऽप्यपसव्यं तु दक्षिणे ॥२२७॥प्रतिकूलेऽन्तशय्या भूशय्या पितृवनं मृतिः ।उपकार्या राजगेहमुपकारोचितापि च ॥२२८॥चन्द्रोदयौ शश्युदयोल्लोचौ चन्द्रोदयौषधौ ।जलाशयमुशीरे स्याज्जलाशयो जलाश्रये ॥२२९॥तण्डुलीयः शाकभेदे विडङ्गतरुताप्ययोः ।तृणशून्यं मल्लिकायां केतकीशाखिनः फले ॥२३०॥धनञ्जयो नागभेदे ककुभे देहमारुते ।पार्थेऽग्नौ निरामयस्तु स्यादिडिक्के गतामये ॥२३१॥प्रतिभयं भये भीष्मे प्रतिश्रयः सभौकसोः ।परिधायः परिकरे जलस्थाननितम्बयोः ॥२३२॥पाञ्चजन्यः पोटगले शङ्खे दामोदरस्य च ।पौरुषेयं पुरुषेण कृतेऽप्यवहिते वधे ॥२३३॥समूहे च विकारे च फलोदयो द्युलाभयोः ।बिलेशयो मूषिकेऽहौ भागधेयः पुनः करे ॥२३४॥दायादे भागधेयं तु भाग्ये महालयः पुनः ।तीर्थे विहारपरमात्मनोर्महोदयं पुरे ॥२३५॥महोदयः स्वाम्यमुक्त्योर्महामूल्यं महार्घके ।पद्मरागमणौ मार्जालीयः शूद्रबिडालयोः ॥२३६॥शरीरशोधने रौहिणेयो वत्से बुधे बले ।वैनतेयस्तु गरुडे स्याच्चण्डांशोश्च सारथौ ॥२३७॥समुच्छ्रयो वैरोन्नत्योः समुदायो गमे रणे ।समुदयस्तूद्गमेऽपि सम्परायस्तु संयुगे ॥२३८॥आपद्युत्तरकाले च स्यात्समाह्वय आहवे ।पशुभिः पक्षिभिर्द्यूते स्थूलोच्चयो वरण्डके ॥२३९॥गजानां मध्यमगते गण्डाश्माकार्त्स्न्ययोरपि ।हिरण्मयो लोकधातौ सौवर्णे-इति चतुःस्वरयान्ताः ।चतुःस्वररान्ताःअभिमरो वधे ॥२४०॥स्वबलात्साध्वसे युद्धेऽवसरो वत्सरे क्षणे ।अरुष्करं व्रणकरे भल्लातकफलेऽपि च ॥२४१॥अश्वतरो नागभेदे वेसरेऽनुत्तरः पुनः ।निरुत्तरे च श्रेष्ठे चाऽवस्करो गूथगुह्ययोः ॥२४२॥अभिहारः संनहने चौरिकोद्यमयोरपि ।अवहारस्तु युद्धादिविश्रान्तौ ग्राहचौरयोः ॥२४३॥निमन्त्रणोपनेतव्येऽलङ्कारः कङ्कणादिषु ।उपमादावकूपारः कूर्मराजसमुद्रयोः ॥२४४॥अवतारस्तु नद्यादितीर्थेऽवतरणेऽपि च ।अग्निहोत्रोऽनले हव्येऽसिपत्रो नरकान्तरे ॥२४५॥कोशकारेऽर्धचन्द्रस्तु गलहस्तेन्दुखण्डयोः ।चन्द्रके बाणभेदे चाऽर्धचन्द्रा त्रिवृताभिदि ॥२४६॥आत्मवीरो बलवति श्यालपुत्रे विदूषके ।आडम्बरः क्षमारम्भे बृंहिते तूर्य्यनिस्वने ॥२४७॥इन्दीवरं नीलोत्पलमिन्दीवरी शतावरी ।उपकारस्तूपकृतौ विकीर्णकुसुमादिषु ॥२४८॥उपचारस्तु लञ्चायां व्यवहारोपचर्ययोः ।उदुम्बरः कुष्ठभेदे देहल्यां व्यवहारोपचर्ययोः ॥२४९॥उदुम्बरं ताम्र उपह्वरं रहसि सन्निधौ ।उद्दन्तुरः कराले स्यादुत्तुङ्गोत्कटदन्तयोः ॥२५०॥औदुम्बरो यमे रोगभेदे कर्मकरोऽन्तके ।भृतिजीविनि भृत्ये च कर्मकरी तु बिम्बिका ॥२५१॥मूर्वा च कर्णिकारस्तु कृतमाले द्रुमोत्पले ।करवीरो हयमारे कृपाणे दैत्यभिद्यपि ॥२५२॥करवीरी पुत्रवत्यां सद्गव्यामदितावपि ।कलिकारस्तु धूम्याटे पीतमुण्डकरञ्जयोः ॥२५३॥कर्णपूरः स्याच्छिरीषे नीलोत्पलवतंसयोः ।कटम्भरा प्रसारण्यां गोलायां गजयोषिति ॥२५४॥कलम्बिकायां रोहिण्यां वर्षाभूमूर्वयोरपि ।कालञ्जरो भैरवाद्योर्योगिचक्रस्य मेलके ॥२५५॥कादम्बरं दधिसारे सीधुमद्यप्रभेदयोः ।कादम्बरी कोकिलायां वाणीशारिकयोरपि ॥२५६॥कुम्भकारः कुलाले स्यात्कुम्भकारी कुलत्थिका ।कृष्णसारः शिंशापायां मृगभेदे स्नुहीतरौ ॥२५७॥गिरिसारः पुनर्लोहे लिङ्गे मलयपर्वते ।घनसारस्तु कर्पूरे दक्षिणावर्तपारदे ॥२५८॥चर्मकारः पादूकृति चर्मकार्योषधीभिदि ।चक्रधरो विष्णुसर्पचक्रिषु ग्रामजालिनि ॥२५९॥चराचरं जङ्गमे स्यादिङ्गविष्टपयोरपि ।चित्राटीरो घण्टाकर्णबलिच्छागास्त्रबिन्दुभिः ॥२६०॥अङ्कितभाले चन्द्रे च तालपत्रं तु कुण्डले ।स्यात्तालपत्री रण्डायां तुङ्गभद्रो मदोत्कटे ॥२६१॥तुङ्गभद्रा नदीभेदे तुलाधारस्तुलागुणे ।वाणिजे तुण्डिकेरी तु कार्पासी बिम्बिकाऽपि च ॥२६२॥तोयधारो जलधरे सुनिषण्णाख्यभेषजे ।दशपुरं पत्तने स्यान्मुस्तायां नीवृदन्तरे ॥२६३॥दण्डधारो यमे राज्ञि दम्डयात्रा तु दिग्जये ।संयाने वरयात्रायां दिगम्बरस्तु शङ्करे ॥२६४॥अन्धकारे क्षपमके स्याद्वस्त्ररहितेऽपि च ।दुरोदरः पुनर्द्यूते द्यूतकारे पणेऽपि च ॥२६५॥देहयात्रा यमपुरीगमने भोजनेऽपि च ।द्वैमातुरो जरासन्धे हेरम्बेऽथ धराधरः ॥२६६॥कृष्णेऽद्रौ धाराधरस्तु पयोदकरवालयोः ।धाराङ्कुरः शीकरे स्यान्नासीरे जलदोपले ॥२६७॥धार्तराष्ट्रः कौरवेऽहौ कृष्णास्याङ्घ्रिसितच्छदे ।धुन्धुमारो गृहधूमे नृपभेदेन्द्रगोपयोः ॥२६८॥पदालिकोऽप्यथ धुरन्धरो धुर्ये धवद्रुमे ।धृतराष्ट्रः खगे सर्पे सुराज्ञि क्षत्रियान्तरे ॥२६९॥धृतराष्ट्री हंसपद्यां नभश्चरः खगेऽम्बुदे ।विद्याधरे समीरे च निशाचरस्तु राक्षसे ॥२७०॥सर्पे घूके शृगाले च निशाचरी तु पांसुला ।निषद्वरः स्मरे पङ्के निषद्वरी पुनर्निशि ॥२७१॥नीलाम्बरो बलभद्रे राक्षसे क्रूरलोचने ।प्रतीहारो द्वारि द्वास्थे प्रतीकारः समे भटे ॥२७२॥प्रतिसरश्चमूपृष्ठे नियोज्यकरसूत्रयोः ।मन्त्रभेदे व्रणशुद्धावारक्षे मण्डने स्रजि ॥२७३॥कङ्कणेऽथ परिकरः पर्यङ्कपरिवारयोः ।प्रगाढगात्रिकाबन्धे विवेकारम्भयोर्गणे ॥२७४॥परिवारः परिजनेऽसिकोशेऽथ परम्परः ।मृगभेदे प्रपौत्रादौ परम्पराऽन्वये वधे ॥२७५॥परिपाट्यां परिसरः प्रान्तभूदैवयोर्मृतौ ।पक्षचरो यूथभ्रष्टपृथक्चरिगजे विधौ ॥२७६॥पयोधरः कुचे मेघे कोशकारे कशेरुणि ।नालिकेरे पात्रटीरस्त्वपव्यापारमन्त्रिणि ॥२७७॥लोहकांस्ये जरत्पात्रे पिङ्गाणकहुताशयोः ।पारावारः पयोराशौ पारावारं तटद्वये ॥२७८॥पारिभद्रस्तु मन्दारे निम्बे पीताम्बरोऽच्युते ।नटे च पीतसारस्तु गोमेदकमणौ स्मृतः ॥२७९॥मलयजे पूर्णपात्रं जलादिपूर्णभाजने ।वर्धापके बलभद्रस्त्वनन्ते बलशालिनि ॥२८०॥बलभद्रा कुमार्यां स्यात्त्रायमाणौषधावपि ।ब्रह्मपुत्रो नदभिदि क्षेत्रसङ्गरयोरपि ॥२८१॥वार्वटीरस्त्रपुम्याम्रास्थ्न्यङ्कुरे गणिकासुते ।वारकीरो भारग्राहिण्याराधिततुरङ्गमे ॥२८२॥यूकायां वेणिवेधिन्यां भूत्रयीमुखयोरपि ।बिन्दुतन्त्रं पुनः शारिफलके च तुरङ्गके ॥२८३॥महावीरोऽन्तिमजिने परपुष्टे जराटके ।तार्क्ष्ये कर्के पवौ शूरे सिंहे मखहुताशने ॥२८४॥महामात्रः प्रधाने स्यादारोहकसमृद्धयोः ।मणिच्छिद्रा तु मेदायामृषभाख्यौषधावपि ॥२८५॥रथकारस्तक्षिणि स्यान्महिष्यात्करिण्यां सुते ।रागसूत्रं पट्टसूत्रे तुलासूत्रेऽपि च क्वचित् ॥२८६॥लम्बोदरः स्यादुद्धमाने प्रमथानां च नायके ।लक्ष्मीपुत्रो हये कामे व्यवहारः स्थितौ पणे ॥२८७॥द्रुभेदेऽथ व्यतिकरो व्यसनव्यतिषङ्गयोः ।वक्रनक्रौ खलशुकौ विश्वम्भरोऽच्युतेन्द्रयोः ॥२८८॥विश्वम्भरा तु मेदिन्यां विभाकरोऽग्निसूर्ययोः ।विश्वकद्रुस्तु मृगयाकुक्कुरे पिशुने ध्वनौ ॥२८९॥वीरभद्रो वीरणेऽश्वमेधाश्वे वीरसत्तमे ।वीरतरो वीरश्रेष्ठे शरे वीरतरं पुनः ॥२९०॥वीरणे वीतिहोत्रस्तु दिवाकरहुताशयोः ।शतपत्रो दार्वाघाटे राजकीरमयूरयोः ॥२९१॥शतपत्रं तु राजीवे सम्प्रहारो गतौ रणे ।सहचरः पुनर्झिण्ट्यां वयस्ये प्रतिबन्धके ॥२९२॥समाहारस्तु संक्षेप एकत्रकरणेऽपि च ।समुद्रारुर्ग्राहभेदे सेतुबन्धे तिमिङ्गिले ॥२९३॥सालसारस्तरौ हिङ्गौ सुकुमारस्तु कोमले ।पुण्ड्रेक्षौ सूत्रधारस्तु शिल्पिभेदे नटेन्द्रयोः ॥२९४॥स्थिरद्रंष्ट्रो भुजङ्गे च वराहाकृतिशार्ङ्गिणि ।इति चतुःस्वररान्ताः ।चतुःस्वरलान्ताःअतिबलः स्यात्प्रबलेऽतिबला तु बलाभिदि ॥२९५॥अक्षमाला त्वक्षसूत्रे वसिष्ठस्य च योषिति ।अङ्गपाली परीरम्भे स्यात्कोट्यामुपमातरि ॥२९६॥उलूखलं गुग्गुलुद्रौ सन्धिभेदे च कण्डने ।उलूखली दन्तच्छिद्रमेकाष्ठीलोऽम्बुकौषधे ॥२९७॥एकाष्ठीला तु पाठायां भवेत् कलकलः पुनः ।कोलाहले सर्जरसे कन्दरालो जटिद्रुमे ॥२९८॥गर्दभान्देऽप्यथ कमण्डलू पर्कटिकुण्डिके ।कूतूहलं शस्तेऽद्भूते खतमालो बलाहके ॥२९९॥धूमेऽथ गण्डशैलोऽद्रिच्युतस्थूलाश्मभालयोः ।गन्धफली प्रियङ्गौ स्यात् चम्पकस्य च कोरके ॥३००॥जलाञ्चलं तु शैवाले स्वतश्च जलनिर्गमे ।चक्रवालोऽद्रिभेदे स्याच्चक्रवालं तु मण्डले ॥३०१॥दलामलं दमनके तथा मरुबकेऽपि च ।ध्वनिलाला तु वल्लक्यां वेणुकाहलयोरपि ॥३०२॥परिमलो विमर्दोत्थहृद्यगन्धे विमर्दने ।पुष्पफलः पुनर्ग्राम्यकर्कट्यां च कपित्थके ॥३०३॥पोटगलो नले काशे झषे बहुफलः पुनः ।नीपे बहुफला फल्गौ भस्मतूलं पुनर्हिमे ॥३०४॥ग्रामकूटे पांशुवर्षे भद्रकाल्योषधीभिदि ।गन्धोल्यां हरपत्न्यां च महाकालो महेश्वरे ॥३०५॥किम्पाके गणभेदे च मदकलो मदद्विपे ।मदेनाऽव्यक्तवचने महानीलो मणेर्भिदि ॥३०६॥नागभेदे भृङ्गराजे महाबलो बलीयसि ।वायौ महाबलं सीसे महाबला बलाभिदि ॥३०७॥मणिमाला स्त्रिया हारे दशनक्षतभिद्यपि ।मुक्ताफलं घनसारे मौक्तिके लवलीफले ॥३०८॥मृत्युफलो महाकाले मृत्युफली कदल्यपि ।यवफलो मांसिकायां कुटजत्वचिसारयोः ॥३०९॥रजस्वला पुष्पवत्यां रजस्वलस्तु सैरिभे ।वायुफलं तु जलदोपले शक्रशरासने ॥३१०॥वातकेलिः कलालापे षिड्गानां दन्तलेखने ।विचकिलो दमनके मल्यामथ बृहन्नलः ॥३११॥महापोटगले पार्थे सदाफल उदुम्बरे ।नालिकेरे स्कन्धफले सौवर्चलं सुवर्चिके ॥३१२॥शूलरुङ्नाशके चाथ हस्तिमल्लः सुरद्विपे ।विघ्नेशे हलाहलस्तु हयलालोरगे विषे ॥३१३॥जेष्ट्यां च हरिताली तु दूर्वागगनरेखयोः ।कृपाणलतिकायां च हरितालं तु तालके ॥३१४॥इति चतुःस्वरलान्ताः ।चतुःस्वरवान्ताःअनुभावः प्रभावे स्यान्निश्चये भावसूचने ।अपह्नवः पुनः स्नेहेऽपलापे चौरकर्मणि ॥३१५॥अभिषवः क्रतौ मद्यसन्धानस्नानयोरपि ।अदीनवः पुनर्दोषे परिक्लिष्टदुरन्तयोः ॥३१६॥उपप्लवौ राहूत्पातौ कुशीलवस्तु चारणे ।प्राचेतसे याचके च जलबिल्वस्तु कर्कटे ॥३१७॥जलचत्वरे पञ्चाङ्गे जीवञ्जीवः खगान्तरे ।द्रुमभेदे चकोरे च धामार्गवस्तु घोषके ॥३१८॥अपामार्गेऽप्यथ परिप्लवावाकुलचञ्चलौ ।पराभवस्तिरस्कारे नाशे पारशवोऽयसि ॥३१९॥शूद्रायां विप्रतनये तनये च परस्त्रियाः ।पुटग्रीवस्तु गर्गर्यां ताम्रस्य कलशेऽपि च ॥३२०॥बलदेवस्तु कालिन्दीकर्षणे मातरिश्वनि ।बलदेवा त्रायमाणा रोहिताश्वो हुताशने ॥३२१॥हरिश्चन्द्रनृपसुते सहदेवस्तु पाण्डवे ।सहदेवा बलादण्डोत्पलयोः शारिवौषधे ॥३२२॥सहदेवी तु सर्पाक्ष्याम् -इति चतुःस्वरवान्ताः ।चतुःस्वरशान्ताःअपदेशस्तु कारणे ।व्याजे लक्ष्येऽप्यपभ्रंशो भाषाभेदाऽपशब्दयोः ॥३२३॥पतने चाश्रयाशस्तु वह्नावाश्रयनाशके ।उपदंशो विदंशे स्यान्मेढरोगेऽपि कीर्तितः ॥३२४॥उपस्पर्शस्त्वाचमनस्नानयोः स्पर्शमात्रके ।खण्डपर्शुः शिवे राहौ भार्गवे चूर्णलेपिनि ॥३२५॥खण्डामलकभैषज्ये जीवितेशः प्रिये यमे ।जीवितस्वामिजीवात्वोर्नागपाशस्तु योषिताम् ॥३२६॥करणे वरुणास्त्रे च परिवेशस्तु वेष्टने ।भानोः सविधबिम्बे च प्रतिष्कशः पुरोगमे ॥३२७॥वार्ताहरे सहाये च पञ्चदशी तु पूर्णिमा ।दर्श पादपाशी तु खट्टिकायामुदाहृता ॥३२८॥शृङ्खलाकटके वापि पुरोडाशो हविर्भिदि ।हुतशेषे सोमरसे चमस्यां पिष्टकस्य च ॥३२९॥इति चतुःस्वरशालन्ताः ।चतुःस्वरषान्ताःअम्बरीषो नृपे सूर्य युधि भ्राष्टकिशोरयोः ।आम्राते खण्डपरशावनुकर्षोऽनुकर्षणे ॥३३०॥रथस्याधो दारुणि चाऽनिमिषः सुरमत्स्ययोः ।अनुतर्षोऽअभिलाषे स्यात्तृष्णाचषकयोरपि ॥३३१॥अलम्बुषश्छर्दनेऽलम्बुषा स्वःपण्ययोषिति ।गण्डीर्यां किम्पुरुषस्तु किंनरे लोकभिद्यपि ॥३३२॥देववृक्षो मन्दारादौ गुग्गुलौ विषमच्छदे ।नन्दिघोषो वन्दिघोषे स्यन्दने च किरीटिनः ॥३३३॥परिवेषः परिवृत्तौ परिधौ परिवेषणे ।पारिवेषः स्यादवाच्ये निनादे जलदघ्वनौ ॥३३४॥पलङ्कषो यातुघाने पलङ्कषा तु किंशुके ।गोक्षुरे गुग्गुलौ लाक्षारास्नामुण्डीरिकासु च ॥३३५॥भूतवृक्षस्तु शाखोटे स्योनाककलिवृक्षयोः ।महाघोषो महाशब्दे स्यान्महाघोषमापणे ॥३३६॥पहाघोषा श्रृङ्ग्योषघ्यां राजवृक्षः पियालके ।सुवर्णालुतरौ वातरूषः शक्रशरासने ॥३३७॥वातूलोत्कोचयोश्चापि विशालाक्षो महेश्वरे ।तार्क्ष्ये विशालनेत्रे च वीरवृक्षोऽर्जुनद्रुमे ॥३३८॥भल्लाते सकटाक्षस्तु कटाक्षिणि धवद्रुमे ।इति चतुःस्वरषान्ताः ।चतुःस्वरसान्ताःअधिवासः स्यान्निवासे संस्कारे धूपनादिभिः ॥३३९॥अवघ्वंसस्तु निन्दायां पारित्यागेऽवचूर्णने ।कलहंसो राजहंसे कादम्बे नृपसत्तमे ॥३४०॥कुम्भीनसस्त्वहौ कुम्भीनसी लवणमातरि ।घनरसोऽप्सु कर्पूरे सान्द्रे सिद्धरसे द्रवे ॥३४१॥मोरटे पीलुपर्ण्यां च चन्द्रहासोऽसिमात्रके ।दशग्रीवकृपाणे च तामरसं तु पङ्कजे ॥३४२॥ताम्रकाञ्चनयोर्दिव्यचक्षुस्त्वन्धे सुलोचने ।सुगन्धभेदे च निःश्रेयसं कल्याणमोक्षयोः ॥३४३॥नीलञ्जसा नदीभेदेऽप्सरोभेदे तडित्यपि ।पुनर्वसुः स्यान्नक्षत्रे कात्यायनमुनावपि ॥३४४॥पौर्णमासो यागभेदे पौर्णमासी तु पूर्णिमा ।मलीमसं पुनः पुष्पकासीसे मलिनायसोः ॥३४५॥महारसः पुनरिक्षौ खर्जूरद्रौ कशेरुणि ।मधुरसा तु मूर्वायां द्राक्षादुग्धिकयोरपि ॥३४६॥यमस्वसा तु कालिन्द्यां कपर्दिनः स्त्रियामपि ।राजहंसस्तु कादम्बे कलहंसे नृपोत्तमे ॥३४७॥रासेरसो रससिद्धिवलौ श्रृङ्गारहासयोः ।षष्ठीजागरके रासे गोष्ठ्यां विश्वावसुः पुनः ॥३४८॥निशि गन्धर्वभेदे च विभावसुस्तु भास्करे ।हुताशने हारभेदे चन्द्रे श्वःश्रेयसं सुखे ॥३४९॥परानन्दे च भद्रे च सर्वरसस्तु घूणके ।वाद्यभाण्डे च देशे च षड्रसान्वितवस्तुनि ॥३५०॥इति चतुःस्वरसान्ताः ।चतुःस्वरहान्ताःअवग्रहो ज्ञानभेदे ह्यस्वातन्त्र्ये गजालिके ।प्रतिबन्धे वृष्टिरोधेऽप्यभिग्रहस्तु गौरवे ॥३५१॥अभियोगेऽभिग्रहणेऽवरोहस्तु लतोद्गमे ।तरोरङ्गेऽवतरणेऽप्यश्वारोहोऽश्ववारके ॥३५२॥अश्वारोहाऽश्वगन्धायामुपग्रहोऽनुकूलने ।बन्द्युपयोगयोश्चोपनाहो वीणानिबन्धने ॥३५३॥व्रणालेपनपिण्डे च गन्धवहो मृगेऽनिले ।गन्धवहा तु नासायां तमोपहो जिने रवौ ॥३५४॥चन्द्रेऽग्नौ तनूरुहस्तु पुत्रे गरुति लोम्नि च ।प्रतिग्रहः सैन्यपृष्ठे ग्रहभेदे पतद्ग्रहे ॥३५५॥क्रियाकारे दानद्रव्ये तद्ग्रहे स्वीकृतावपि ।परिग्रहः परिजने पत्न्यां स्वकारमूलयोः ॥३५६॥शापेऽथ परिवाहोऽम्बूच्छ्वासे राजार्हवस्तुनि ।परिबर्हः परीवारे पार्थिवोचितवस्तुनि ॥३५७॥पितामहः पद्मयोनौ जनके जनकस्य च ।महासहा स्यादम्लानकुसुमं माषपर्ण्यपि ॥३५८॥वरारोहो गजारोहे वरारोहा कटावपि ।सर्वंसहः सहिष्णौ स्यात्सर्वंसहा पुनः क्षितौ ॥३५९॥इति चतुःस्वरहान्ताः ।इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसङ्ग्रहे चतुःस्वरकाण्डश्चतुर्थः । N/A References : N/A Last Updated : November 07, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP