अनेकार्थसङ्ग्रहः - प्राक्कथनम्

आचार्यश्रीहेमचन्द्रेण विरचितः अनेकार्थसङ्ग्रहो नाम कोशः


ध्यात्वाऽर्हतः कृतैकार्थशब्दसंदोहसंग्रहः ।
एकस्वरादिषट्काण्ड्या कुर्वेऽनेकार्थसङ्ग्रहम् ॥१॥

अकारादिक्रमेणादावत्र कादिक्रमोऽन्ततः ।
उद्देश्यवचनं पूर्वं पश्चादर्थप्रकाशनम् ॥२॥

यत्रैक एव रूढोऽर्थो यौगिकस्तत्र दर्शितः ।
अनेकस्मिंस्तु रूढेऽर्थे यौगिकं प्रोच्यते न वा ॥३॥

पदानां भङ्गतो योऽस्मिन्नेकार्थः प्रकाशते ।
प्रदर्शनीयो नैवासौ तस्यानन्त्यप्रसङ्गतः ॥४॥

N/A

References : N/A
Last Updated : November 07, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP