संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|अनेकार्थसङ्ग्रहः| पञ्चस्वरकाण्डः अनेकार्थसङ्ग्रहः विषयानुक्रमणिकाः प्राक्कथनम् एकस्वरकाण्डः द्विस्वरकाण्डः त्रिस्वरकाण्डः चतुःस्वरकाण्डः पञ्चस्वरकाण्डः षट्स्वरकाण्डः परिशिष्टकाण्डः अनेकार्थसङ्ग्रहः - पञ्चस्वरकाण्डः आचार्यश्रीहेमचन्द्रेण विरचितः अनेकार्थसङ्ग्रहो नाम कोशः Tags : anekarthahem chandrensanskritअनेकार्थसङ्ग्रहआचार्य श्रीहेमचन्द्रेणसंस्कृत पञ्चस्वरकाण्डः Translation - भाषांतर अथ पञ्चमः काण्डःपञ्चस्वरकान्ताःस्यादाच्छुरितकं हासनखघातविशेषयोः ।उपकारिका पिष्टभेदोपकारेशवेश्मसु ॥१॥कक्षावेक्षकः शुद्धान्तपालकोद्यानपालयोः ।द्वाःस्थे षिड्गे कवौ रङ्गाजीवेऽथ कटखादकः ॥२॥खादके काचकलशे शृगालबलिपुष्टयोः ।कृमिकण्टकं चित्रायामुदुम्बरविडङ्गयोः ॥३॥स्याद्गोजागरिकं भक्ष्यकारके मङ्गलेऽपि च ।चिलमीलिका खद्योते कण्ठीभेदे तडित्यपि ॥४॥जलकरङ्कः स्यान्मेघे नालिकेरतरोः फले ।शङ्खे जललतायाञ्च जलनायको मत्स्यके ॥५॥काकोच्यां राजशफरे नवफलिका नूतने ।नवजातरजोनार्यामप्यथो नागवारिकः ॥६॥गणिस्थराजे गरुडे राजकुञ्जरहस्तिपे ।चित्रमेखलके प्रोक्तः स्यादथो व्यवहारिका ॥७॥लोकयात्रेङ्गुदीवर्धनीष्वथ व्रीहिराजिकः ।चीनान्ने कामलिकायामप्यथो शतपर्विका ॥८॥स्याद्वचादूर्वयोः शीतचम्पकौ दीपतर्पणे ।सुवसन्तक इत्येष वासन्त्यां मदनोत्सवे ॥९॥हेमपुष्पकश्चम्पके हेमपुष्पिका यूथिका ।इति पञ्चस्वरकान्ताः ।पञ्चस्वरखान्ताःमलिनमुखस्तु गोलाङ्गूले प्रेतेऽनले खले ॥१०॥शीतमयूखः कर्पूरे चन्द्रेऽथ सर्वतोमुखः ।विधावात्मनि रुद्रे च सर्वतोमुखमम्बु खम् ॥११॥इति पञ्चस्वरखान्ताः ।पञ्चस्वरगान्ताःकथाप्रसङ्गो वातूले विषस्य च चिकित्सके ।नाडीतरङ्गः काकोले हिण्डके रतहिण्डके ॥१२॥इति पञ्चस्वरगान्ताः ।पञ्चस्वरचान्ताःरतनारीचो मन्मथे शुनि स्त्रीणां च सीत्कृतौ ।इति पञ्चस्वरचान्ताः ।पञ्चस्वरजान्ताःऋषभघ्वजः प्रथमजिनेन्द्रे शशिशेखरे ॥१३॥मुनिभेषजं त्वगस्तिपथ्यायां लङ्घनेऽपि च ।इति पञ्चस्वरजान्ताः ।पञ्चस्वरटान्ताःदशनोच्छिष्टो निःश्वासे चुम्बने दन्तवाससि ॥१४॥इति पञ्चस्वरटान्ताः ।पञ्चस्वरणान्ताःअवग्रहणं रीढायां रोधनेऽथाऽवतारणम् ।वस्त्राञ्चलार्चने भूतावेशेऽथ प्रविदारणम् ॥१५॥दारणे युधि च परिभाषणं तु प्रजल्पने ।नियमे निन्दोपालम्भोक्तौ चाथो मत्तवारणः ॥१६॥प्रासादवीथीवरण्डे मत्तहस्तिन्यपाश्रये ।मण्डूकपर्णो रलुकशोणकयोः कपीतने ॥१७॥मण्डूकपर्णी मञ्जिष्ठाव्रीह्योर्गोजिह्विकौषधौ ।स्याद्रोमहर्षणाख्या तु रोमोद्गमे बिभीतके ॥१८॥वातरायण उन्मत्ते निष्प्रयोजनपूरुषे ।काण्डे च करपत्रे च कूटे च शरसङ्क्रमे ॥१९॥समुद्धरणं वान्तान्ने जलस्योद्धरणे प्रहे ।इति पञ्जस्वरणान्ताः ।पञ्चस्वरतान्ताःअवलोकितस्तु बुद्धेऽप्यवलोकितमीक्षिते ॥२०॥स्यादपराजितो विष्णौ श्रीकण्ठे निष्पराजये ।अपराजिता तु दुर्गाश्वेतावपि जयन्तिका ॥२१॥उपधूपित आसन्नमरणे धूपितेऽपि च ।स्याद्गणाधिपतिर्विघ्ननायके पार्वतीपतौ ॥२२॥पृथवीपतिस्तु भूपे कृतान्त ऋषभौषधौ ।मूर्घाभिषिक्तो भूपाले प्रधाने क्षत्रियेऽपि च ॥२३॥यादसांपतिरम्भोधौ प्रतीचीदिक्पतावपि ।वसन्तदूतश्चूते स्यात्पिकपञ्चमरागयोः ॥२४॥वसन्तदूती पाटल्यामतिमुक्तकभूरुहि ।इति पञ्चस्वरतान्ताः ।पञ्चस्वरदान्ताःसहस्रपादः कारण्डे भास्करे यज्ञपूरुषे ॥२५॥इति पञ्चस्वरदान्ताः ।पञ्चस्वरधान्ताःयोजनगन्धा कस्तूर्यां सीतायां व्यासमातरि ।इति पञ्चस्वरधान्ताः ।पञ्चस्वरनान्ताःअपवर्जनं निर्वाणे परित्यागे विहायिते ॥२६॥अभिनिष्ठानस्तु वर्णे विसर्गेऽथोऽनुवासनम् ।स्नेहने धूपने चाऽन्तावसायी श्वपचे मुनौ ॥२७॥अपसर्जनं तु दाने परित्यागेऽतिसर्जनम् ।विश्राणने च हिंसायामादेशे सेवकस्य च ॥२८॥स्यादुपस्पर्शनं स्नाने स्पर्शाचमनयोरपि ।उपसंपन्नं पर्य्याप्ते संस्कृतप्राप्तयोर्मृते ॥२९॥कलानुनादी चटके चञ्चरीके कपिञ्जले ।गन्धमादनः कप्यद्रिभिदोरलिनि गन्धके ॥३०॥गन्धमादनी सुरायामथ जायानुजीविनः ।नटाश्विनबकदुःस्थाः स्याद् धूमकेतनोऽनले ॥३१॥ग्रहभेदे च प्रतिपादने बोधनदानयोः ।पद्मलाञ्छनो धनदे लोकेशे रविवेधसोः ॥३२॥पद्मलाञ्छना तारायां सरस्वत्यां श्रियामपि ।पीतचन्दनं स्याद्धरिद्रायां काश्मीरजन्मनि ॥३३॥महारजनं कुसुम्भे स्वर्णेऽथ मधुसूदनः ।भ्रमरे केशवे मृत्युवञ्चनः श्रीफले हरे ॥३४॥द्रोणकाकेऽप्पथ वरचन्दनं देवदारुणि ।कालेये वरवर्णिन्यङ्गनालाक्षाप्रियङ्गुषु ॥३५॥रोचनायां हरिद्रायामथ स्याच्छकुलादनी ।कट्वां मांसीपिचुलिकाजलपिप्पलिकासु च ॥३६॥शलङ्कायनशब्दः स्यादृषिभेदेऽपि नन्दिनि ।शिवकीर्तिनशब्दस्तु भृङ्गिरीटेऽसुरद्विषि ॥३७॥श्वेतवाहन इत्याख्या शशाङ्गे च धनञ्जये ।स्यात्षष्टिहायनो धान्यविशेषे च मतङ्गजे ॥३८॥सहस्रवेधी चुक्रे स्यात् सहस्रवेधि रामठे ।हरिचन्दनमाख्यातं गोशीर्षे देवपादपे ॥३९॥हरिवाहन इत्युक्तो भास्करामरनाथयोः ।इति पञ्चस्वरनान्ताः ।पञ्चस्वरपान्ताःभवेच्चामरपुष्पस्तु केतके चूतकाशयोः ॥४०॥इति पञ्चस्वरपान्ताः ।पञ्चस्वरबान्ताःगोरक्षजम्बूर्गोधूमधान्ये गोरक्षतण्डुले ।धूलीकदम्बस्तिनिमे नीपे वरुणपादपे ॥४१॥शृगालजम्बूर्गोडुम्बे फले च बदरीतरोः ।इति पञ्चस्वरबान्ताः ।पञ्चस्वरमान्ताःअभ्युपगमः समीपागमने स्वीकृतावपि ॥४२॥नक्षत्रनेमिः शीतांशुरेवत्यौत्तानपादिषु ।इति पञ्चस्वरमान्ताः ।पञ्चस्वरयान्ताःकालानुसार्यं शैलेये कालीये शिंशपातरौ ॥४३॥अथ स्वाद् दुग्धतालीयं दुग्धाग्रदुग्धफेनयोः ।भवेत्प्रवचनीयाख्या प्रवाच्ये च प्रवक्तरि ॥४४॥वृषाकपायी जीवन्त्यां शतावर्युमयोः श्रियाम् ।इति पञ्चस्वरयान्ताः ।पञ्चस्वररान्ताःउत्पलपत्रमुत्पलदले स्त्रीणां नखक्षते ॥४५॥कपिलधारा त्रिदशापगायां तीर्थभिद्यपि ।तमालपत्रं तिलके तापिच्छे पत्रकेऽपि च ॥४६॥तालीसपत्रं तु तामलक्यां तालीसके क्वचित् ।पादचत्वरः करके परदोषैकभाषिणि ॥४७॥सैकते छगलेऽश्वत्थद्रुमेऽथ पांशुचामरः ।वर्धापके प्रशंसायां दूर्वाञ्चिततटीभुवि ॥४८॥पुरोटोधूलिगुच्छे पीतकावेरं तु कुङ्कुमे ।पित्तले वस्वौकसारा त्विन्द्रस्य धनदस्य च ॥४९॥पुरीनलिन्यौ विप्रतिसारस्त्वनुशये क्रुधि ।कौकृत्ये सर्वतोभद्रस्त्वोकोभित्काव्यचित्रयोः ॥५०॥निम्बेऽथ सर्वतोभद्रा गम्भार्यां नटयोषिति ।समभिहारो भृशार्थे पौनःपुन्येऽपि कथ्यते ॥५१॥इति पञ्चस्वररान्ताः ।पञ्चस्वरलान्ताःआसुतीवलशब्दस्तु जज्ञकर्तरि शौण्डिके ।भवेदुद्दण्डपालस्तु मत्स्यसर्पप्रभेदयोः ॥५२॥एककुण्डल इत्येष बलभद्रे धनाधिपे ।कृपीटपालशब्दस्तु केनिपाते पयोनिधौ ॥५३॥कूटपले गजपित्तज्वरे कुलालमारुते (?) ।स्यात्पाण्डुकम्बलः श्वेतकम्बलग्रावभेदयोः ॥५४॥मन्त्रचूर्णलमिच्छन्ति वशीकरणवादिनि ।डाकिनीदोषमन्त्रज्ञे कुशाम्बुप्रीणनेऽपि च ॥५५॥भवेत्सुरतताली तु दूतिकायां शिरःस्रजि ।इति पञ्चस्वरलान्ताः ।पञ्चस्वरवान्ताःआशितम्भवमन्नादावाशितम्भवस्तु तर्पणे ॥५६॥स्यादाषाढभवो भौमे नवीनजलदेऽपि च ।इति पञ्चस्वरवान्ताः ।पञ्चस्वरसान्ताःस्यान्नभश्चमसश्चन्द्रे चित्रयूपेन्द्रजालयोः ॥५७॥हिङ्गुनिर्यास इत्येष निम्बे हिङ्गुरसेऽपि च ।हिरण्यरेता ज्वलने सहस्रकिरणेऽपि च ॥५८॥इति पञ्चस्वरसान्ताः ।इत्याचार्यहेमचनच्दरविरचितेऽनेकार्थसङ्ग्रहे पञ्चस्वरकाण्डः पञ्चमः । N/A References : N/A Last Updated : November 07, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP