संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|योगवासिष्ठः|मुमुक्षुव्यवहारप्रकरणम्| सर्गः १९ मुमुक्षुव्यवहारप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० मुमुक्षुव्यवहारप्रकरणम् - सर्गः १९ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः १९ Translation - भाषांतर श्रीवसिष्ठ उवाच ।विशिष्टांशसमर्थत्वमुपमानेषु गृह्यते ।को भेदः सर्वसादृश्ये तूपमानोपमेययोः ॥१॥दृष्टान्तबुद्धावेकात्मज्ञानशास्त्रार्थवेदनात् ।महावाक्यार्थसंसिद्धा शान्तिनिर्वाणमुच्यते ॥२॥तस्माद्दृष्टान्तदार्ष्टान्तविकल्पोल्लसितैरलम् ।यया कयाचिद्युक्त्या तु महावाक्यार्थमाश्रयेत् ॥३॥शान्तिः श्रेयः परं विद्धि तत्प्राप्तौ यत्नवान्भव ।भोक्तव्यमोदनं प्राप्तं किं तत्सिद्धौ विकल्पितैः ॥४॥अकारणैः कारणिभिर्बोधार्थमुपमीयते ।उपमानैस्तूपमेयैः सदृशैरेकदेशतः ॥५॥स्थातव्यं नेह भोगेषु विवेकरहितात्मना ।उपलोदरसंजातपरिपीनान्धभेकवत् ॥६॥दृष्टान्तैर्यत्नमाश्रित्य जेतव्यं परमे पदम् ।विचारणवता भाव्यं शान्तिशास्त्रार्थशालिना ॥७॥शास्त्रोपदेशसौजन्यप्रज्ञातज्ज्ञसमागमैः ।अन्तरान्तरसंपन्नधर्मार्थोपार्जनक्रियः ॥८॥तावद्विचारयेत्प्राज्ञो यावद्विश्रान्तिमात्मनि ।संप्रयात्यपुनर्नाशां शान्तिं तुर्यपदाभिधाम् ॥९॥तुर्यविश्रान्तियुक्तस्य प्रतीपस्य भवार्णवात् ।जीवतोऽजीवतश्चैव गृहस्थस्य तथा यतेः ॥१०॥न कृतेनाकृतेनार्थो न श्रुतिस्मृतिविभ्रमैः ।निर्मन्दर इवाम्भोधिः स तिष्ठति यथास्थितम् ॥११॥एकांशेनोपमानानामुपमेयसधर्मता ।बोद्धव्यं बोध्यबोधाय न स्थेयं बोधचञ्चुना ॥१२॥यया कयाचिद्युक्त्या तु बोद्धव्यं बोध्यमेव ते ।युक्तायुक्तं न पश्यन्ति व्याकुला बोधचञ्चवः ॥१३॥हृदये संविदाकाशे विश्रान्तेऽनुभवात्मनि ।वस्तुन्यनर्थं यः प्राह बोधचञ्चुः स उच्यते ॥१४॥अभिमानविकल्पांशैरज्ञो ज्ञप्तिं विकल्पयेत् ।बोधं मलिनयत्यन्तः स्वं खमब्द इवामलम् ॥१५॥सर्वप्रमाणसत्तानां पदमब्धिरपामिव ।प्रमाणमेकमेवेह प्रत्यक्षं तदतः शृणु ॥१६॥सर्वाक्षसारमध्यक्षं वेदनं विदुरुत्तमाः ।नूनं तत्प्रतिपत्सिद्धं तत्प्रत्यक्षमुदाहृतम् ॥१७॥अनुभूतेर्वेदनस्य प्रतिपत्तेर्यथाभिधम् ।प्रत्यक्षमिति नामेह कृतं जीवः स एव नः ॥१८॥स एव संवित्स पुमानहंताप्रत्ययात्मकः ।स ययोदेति संवित्त्या सा पदार्थ इति स्मृता ॥१९॥ससंकल्पविकल्पाद्यैः कृतनानाक्रमभ्रमैः ।जगत्तया स्फुरत्यम्बु तरङ्गादितया यथा ॥२०॥प्रागकारणमेवाशु सर्गादौ सर्गलीलया ।स्फुरित्वा कारणं भूतं प्रत्यक्षं स्वयमात्मनि ॥२१॥कारणं त्वविचारोत्थजीवस्यासदपि स्थितम् ।सदिवास्यां जगद्रूपं प्रकृतौ व्यक्तिमागतम् ॥२२॥स्वयमेव विचारस्तु स्वत उत्थं स्वकं वपुः ।नाशयित्वा करोत्याशु प्रत्यक्षं परमं महत् ॥२३॥विचारवान्विचारोऽपि आत्मानमवगच्छति ।यदा तदा निरुल्लेखं परमेवावशिष्यते ॥२४॥मनस्यनीहिते शान्ते स्वबुद्धीन्द्रियकर्मभिः ।नहि कश्चित्कृतैरर्थो नाकृतैरप्यभावनात् ॥२५॥मनस्यनीहिते शान्ते न प्रवर्तन्त एव ते ।कर्मेन्द्रियाणि कर्मादावसंचारितयन्त्रवत् ॥२६॥मनोयन्त्रस्य चलने कारणं वेदनं विदुः ।प्रणालीदारुमेषस्य रज्जुरन्तर्गता यथा ॥२७॥रूपालोकमनस्कारपदार्थव्याकुलं जगत् ।विद्यते वेदनस्यान्तर्वातान्तः स्पन्दनं यथा ॥२८॥सर्वात्मवेदनं शुद्धं यथोदेति तदात्मकम् ।भाति प्रसृतदिक्कालबाह्यान्तारूपदेहकम् ॥२९॥दृष्ट्वैव दृश्यताभासं स्वरूपं धारयन्स्थितः ।स्वं यथा यत्र यद्रूपं प्रतिभाति तथैव तत् ॥३०॥स सर्वात्मा यथा यत्र समुल्लासमुपागतः ।तिष्ठत्याशु तथा तत्र तद्रूप इव राजते ॥३१॥सर्वात्मकतया द्रष्टुर्दृश्यत्वमिव युज्यते ।दृश्यत्वं द्रष्टृसद्भावे दृश्यतापि न वास्तवी ॥३२॥अकारणकमेवातो ब्रह्म सिद्धमिदं स्थितम् ।प्रत्यक्षमेव निर्मातृ तस्यांशास्त्वनुमादयः ॥३३॥स्वयत्नमात्रे यदुपासको य-स्तद्दैवशब्दार्थमपास्य दूरे ।शूरेण साधो पदमुत्तमं तत्स्वपौरुषेणैव हि लभ्यतेऽन्तः ॥३४॥विचारयाचार्यपरम्पराणांमतेन सत्येन सितेन तावत् ।यावद्विशुद्धं स्वयमेव बुद्धयाह्यनन्तरूपं परमभ्युपैषि ॥३५॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे प्रमाणनिरूपणं नामैकोनविशः सर्गः ॥१९॥ N/A References : N/A Last Updated : July 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP