संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|मुमुक्षुव्यवहारप्रकरणम्| सर्गः ५ मुमुक्षुव्यवहारप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० मुमुक्षुव्यवहारप्रकरणम् - सर्गः ५ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ५ Translation - भाषांतर श्रीवसिष्ठ उवाच ।प्रवृत्तिरेव प्रथमं यथाशास्त्रविहारिणाम् ।प्रभेव वर्णभेदानां साधनी सर्वकर्मणाम् ॥१॥मनसा वाञ्छते यच्च यथाशास्त्रं न कर्मणा ।साध्यते मत्तलीलासौ मोहनी नार्थसाधनी ॥२॥यथा संयतते येन तथा तेनानुभूयते ।स्वकर्मैवेति चास्तेऽन्या व्यतिरिक्ता न दैवदृक् ॥३॥उच्छास्त्रं शास्त्रितं चेति द्विविधं पौरुषं स्मृतम् ।तत्रोच्छास्त्रमनर्थाय परमार्थाय शास्त्रितम् ॥४॥द्वौ हुडाविव युध्येते पुरुषार्थौ समासमौ ।प्राक्तनश्चैहिकश्चैव शाम्यत्यत्राल्पवीर्यवान् ॥५॥अतः पुरुषयत्नेन यतितव्यं यथा तथा ।पुंसा तन्त्रेण सद्योगाद्येनाश्वद्यतनो जयेत् ॥६॥द्वौ हुडाविव युध्येते पुरुषार्थौ समासमौ ।आत्मीयश्चान्यदीयश्च जयत्यतिबलस्तयोः ॥७॥अनर्थः प्राप्यते यत्र शास्त्रितादपि पौरुषात् ।अनर्थकर्तृ बलवत्तत्र ज्ञेयं स्वपौरुषम् ॥८॥परं पौरुषमाश्रित्य दन्तैर्दन्तान्विचूर्णयन् ।शुभेनाऽशुभमुद्युक्तं प्राक्तनं पौरुषं जयेत् ॥९॥प्राक्तनः पुरुषार्थोऽसौ मां नियोजयतीति धीः ।बलादधस्पदीकार्या प्रत्यक्षादधिका न सा ॥१०॥तावत्तावत्प्रयत्नेन यतितव्यं सुपौरुषम् ।प्राक्तनं पौरुषं यावदशुभं शाम्यति स्वयम् ॥११॥दोषः शाम्यत्यसंदेहं प्राक्तनोऽद्यतनैर्गुणैः ।दृष्टान्तोऽत्र ह्यस्तनस्य दोषस्याद्य गुणैः क्षयः ॥१२॥असद्दैवमधःकृत्वा नित्यमुद्रिक्तया धिया ।संसारोत्तरणं भूत्यै यतेताऽऽधातुमात्मनि ॥१३॥न गन्तव्यमनुद्योगैः साम्यं पुरुषगर्दभैः ।उद्योगस्तु यथाशास्त्रं लोकद्वितयसिद्धये ॥१४॥संसारकुहरादस्मान्निर्गन्तव्यं स्वयं बलात् ।पौरुषं यत्नमाश्रित्य हरिणेवारिपञ्जरात् ॥१५॥प्रत्यहं प्रत्यवेक्षेत देहं नश्वरमात्मनः ।संत्यजेत्पशुभिस्तुल्यं श्रयेत्सत्पुरुषोचितम् ॥१६॥किंचित्कान्तान्नपानादिकलिलं कोमलं गृहे ।व्रणे कीट इवास्वाद्य वयः कार्यं न भस्मसात् ॥१७॥शुभेन पौरुषेणाशु शुभमासाद्यते फलम् ।अशुभेनाशुभं नित्यं दैवं नाम न किंचन ॥१८॥प्रत्यक्षमानमुत्सृज्य योऽनुमानमुपैत्यसौ ।स्वभुजाभ्यामिमौ सर्पाविति प्रेक्ष्य पलायते ॥१९॥दैवं संप्रेरयति मामिति दग्धधियां मुखम् ।अदृष्टश्रेष्ठदृष्टीनां दृष्ट्वा लक्ष्मीर्निवर्तते ॥२०॥तस्मात्पुरुषयत्नेन विवेकं पूर्वमाश्रयेत् ।आत्मज्ञानमहार्थानि शास्त्राणि प्रविचारयेत् ॥२१॥चित्ते चिन्तयतामर्थं यथाशास्त्रं निजेहितैः ।असंसाधयतामेव मूढानां धिग्दुरीप्सितम् ॥२२॥पौरुषं च नवानन्तं न यत्नमभिवाच्छ्यते ।न यत्नेनापि महता प्राप्यते रत्नमश्मतः ॥२३॥यथा घटः परिमितो यथा परिमितः पटः ।नियतः परिमाणस्थः पुरुषार्थस्तथैव च ॥२४॥स च सच्छास्त्रसत्सङ्गसदाचारैर्निजं फलम् ।ददातीति स्वभावोऽयमन्यथा नार्थसिद्धये ॥२५॥स्वरूपं पौरुषस्यैतदेवं व्यवहरन्नरः ।याति निष्फलयत्नत्वं न कदाचन कश्चन ॥२६॥दैन्यदारिद्र्यदुःखार्ता अप्यन्ये पुरुषोत्तमाः ।पौरुषेणैव यत्नेन याता देवेन्द्रतुल्यताम् ॥२७॥आबाल्यादलमभ्यस्तैः शास्त्रसत्सङ्गमादिभिः ।गुणैः पुरुषयत्नेन स्वार्थः संप्राप्यते यतः ॥२८॥इति प्रत्यक्षतो दृष्टमनुभूतं श्रुतं कृतम् ।दैवात्तमिति मन्यन्ते ये हतास्ते कुबुद्धयः ॥२९॥आलस्यं यदि न भवेज्जगत्यनर्थःको न स्याद्बहुधनको बहुश्रुतो वा ।आलस्यादियमवनिः ससागरान्तासंपूर्णा नरपशुभिश्च निर्धनैश्च ॥३०॥बाल्ये गतेऽविरतकल्पितकेलिलोलेदोर्दण्डमण्डितवयःप्रभृति प्रयत्नात् ।सत्सङ्गमैः पदपदार्थविशुद्धबुद्धिःकुर्यान्नरः स्वगुणदोषविचारणानि ॥३१॥वाल्मीकिरुवाच ।इत्युक्तवत्यथ मुनौ दिवसो जगामसायंतनाय विधयेऽस्तमिनो जगाम ।स्नातुं सभा कृतनमस्करणा जगामश्यामाक्षये रविकरेण सहाजगाम ॥३२॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे पौरुषस्थापनं नाम पञ्चमः सर्गः ॥५॥प्रथमो दिवसः । N/A References : N/A Last Updated : July 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP