संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|योगवासिष्ठः|मुमुक्षुव्यवहारप्रकरणम्| सर्गः १३ मुमुक्षुव्यवहारप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० मुमुक्षुव्यवहारप्रकरणम् - सर्गः १३ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः १३ Translation - भाषांतर श्रीवसिष्ठ उवाच ।एतां दृष्टिमवष्टभ्य दृष्टात्मानः सुबुद्धयः ।विचरन्तीह संसारे महान्तोऽभ्युदिता इव ॥१॥न शोचन्ति न वाञ्छन्ति न याचन्ते शुभाशुभम् ।सर्वमेव च कुर्वन्ति न कुर्वन्तीह किंचन ॥२॥स्वच्छमेवावतिष्ठन्ते स्वच्छं कुर्वन्ति यान्ति हि ।हेयोपादेयतापक्षरहिताः स्वात्मनि स्थिताः ॥३॥आयान्ति च न चायान्ति प्रयान्ति च न यान्ति च ।कुर्वन्त्यपि न कुर्वन्ति न वदन्ति वदन्ति च ॥४॥ये केचन समारम्भा याश्च काश्चन दृष्टयः ।हेयोपादेयतस्तास्ताः क्षीयन्तेऽधिगते पदे ॥५॥परित्यक्तसमस्तेहं मनोमधुरवृत्तिमत् ।सर्वतः सुखमभ्येति चन्द्रबिम्ब इव स्थितम् ॥६॥अपि निर्मननारम्भमव्यस्ताखिलकौतुकम् ।आत्मन्येव न मात्यन्तरिन्दाविव रसायनम् ॥७॥न करोतीन्द्रजालानि नानुधावति वासनाम् ।बालचापलमुत्सृज्य पूर्वमेव विराजते ॥८॥एवंविधा हि वृत्तय आत्मतत्त्वावलोकनाल्लभ्यन्तेनान्यथा ॥९॥तस्माद्विचारेणात्मैवान्वेष्टव्य उपासनीयो ज्ञातव्योयावज्जीवं पुरुषेण नेतरदिति ॥१०॥स्वानुभूतेश्च शास्त्रस्य गुरोश्चैवैकवाक्यता ।यस्याभ्यासेन तेनात्मा सन्ततेनावलोक्यते ॥११॥अवहेलितशास्त्रार्थैरवज्ञातमहाजनैः ।कष्टामप्यापदं प्राप्तो न मूढैः समतामियात् ॥१२॥न व्याधिर्न विषं नापत्तथा नाधिश्च भूतले ।खेदाय स्वशरीरस्थं मौर्ख्यमेकं यथा नृणाम् ॥१३॥किंचित्संस्कृतबुद्धीनां श्रुतं शास्त्रमिदं यथा ।मौर्ख्यापहं तथा शास्त्रमन्यदस्ति न किंचन ॥१४॥इदं श्राव्यं सुखकरं यथा दृष्टान्तसुन्दरम् ।अविरुद्धमशेषेण शास्त्रं वाक्यार्थबन्धुना ॥१३॥आपदो या दुरुत्तारा याश्च तुच्छाः कुयोनयः ।तास्ता मौर्ख्यात्प्रसूयन्ते खदिरादिव कण्टकाः ॥१६॥वरं शरावहस्तस्य चाण्डालागारवीथिषु ।भिक्षार्थमटनं राम न मौर्ख्यहतजीवितम् ॥१७॥वरं घोरान्धकूपेषु कोटरेष्वेव भूरुहाम् ।अन्धकीटत्वमेकान्ते न मौर्ख्यमतिदुःखदम् ॥१८॥इममालोकमासाद्य मोक्षोपायमयं जनः ।अन्धतामेति न पुनः कश्चिन्मोहतमस्यपि ॥१९॥तावन्नयति संकोचं तृष्णा वै मानवाम्बुजम् ।यावद्विवेकसूर्यस्य नोदिता विमला प्रभा ॥२०॥संसारदुःखमोक्षार्थे मादृशैः सह बन्धुभिः ।स्वरूपमात्मनो ज्ञात्वा गुरुशास्त्रप्रमाणतः ॥२१॥जीवन्मुक्ताश्चरन्तीह यथा हरिहरादयः ।यथा ब्रह्मर्षयश्चान्ये तथा विहर राघव ॥२२॥अनन्तानीह दुःखानि सुखं तृणलवोपमम् ।नातः सुखेषु बध्नीयाद्दृष्टिं दुःखानुबन्धिषु ॥२३॥यदनन्तमनायासं तत्पदं सारसिद्धये ।साधनीयं प्रयत्नेन पुरुषेण विजानता ॥२४॥त एव पुरुषार्थस्य भाजनं पुरुषोत्तमाः ।अनुत्तमपदालम्बि मनो येषां गतज्वरम् ॥२५॥संभोगाशनमात्रेण राज्यादिषु सुखेषु ये ।संतुष्टा दुष्टमनसो विद्धि तानन्धदर्दुरान् ॥२६॥ये शठेषु दुरन्तेषु दुष्कृतारम्भशालिषु ।द्विषत्सु मित्ररूपेषु भक्ता वै भोगभोगिषु ॥२७॥ते यान्ति दुर्गमाद्दुर्गं दुःखाद्दुःखं भयाद्भयम् ।नरकान्नरकं मूढा मोहमन्थरबुद्धयः ॥२८॥परस्परविनाशोक्तेः श्रेयःस्थो न कदाचन ।सुखदुःखदशे राम तडित्प्रसरभङ्गुरे ॥२९॥ये विरक्ता महात्मानः सुविविक्ता भवादृशाः ।पुरुषान्विद्धि तान्वन्द्यान्भोगमोक्षैकभाजनान् ॥३०॥विवेकं परमाश्रित्य वैराग्याभ्यासयोगतः ।संसारसरितं घोरामिमामापदमुत्तरेत् ॥३१॥न स्वप्तव्यं च संसारमायास्विह विजानता ।विषमूर्च्छनसंमोहदायिनीषु विवेकिना ॥३२॥संसारमिममासाद्य यस्तिष्ठत्यवहेलया ।ज्वलितस्य गृहस्योच्चैः शेते तार्णस्य संस्तरे ॥३३॥यत्प्राप्य न निवर्तन्ते यदासाद्य न शोचति ।तत्पदं शेमुषीलभ्यमस्त्येवात्र न संशयः ॥३४॥नास्ति चेत्तद्विचारेण दोषः को भवतां भवेत् ।अस्ति चेत्तत्समुत्तीर्णा भविष्यथ भवार्णवात् ॥३५॥प्रवृत्तिः पुरुषस्येह मोक्षोपायविचारणे ।यदा भवत्याशु तदा मोक्षभागी स उच्यते ॥३६॥अनपायि निराशङ्कं स्वास्थ्यं विगतविभ्रमम् ।न विना केवलीभावाद्विद्यते भुवनत्रये ॥३७॥तत्प्राप्तावुत्तमप्राप्तौ न क्लेश उपजायते ।न धनान्युपकुर्वन्ति न मित्राणि न बान्धवाः ॥३८॥न हस्तपादचलनं न देशान्तरसंगमः ।न कायक्लेशवैधुर्यं न तीर्थायतनाश्रयाः ॥३९॥पुरुषार्थैकसाध्येन वासनैकार्थकर्मणा ।केवलं तन्मनोमात्रजयेनासाद्यते पदम् ॥४०॥विवेकमात्रसाध्यं तद्विचारैकान्तनिश्चयम् ।त्यजता दुःखजालानि नरेणैतदवाप्यते ॥४१॥सुखसेव्यासनस्थेन तद्विचारयता स्वयम् ।न शोच्यते पदं प्राप्य न स भूयो हि जायते ॥४२॥तत्समस्तसुखासारसीमान्तं साधवो विदुः ।तदनुत्तमनिष्पन्दं परमाहू रसायनम् ॥४३॥क्षयित्वात्सर्वभावानां स्वर्गमानुष्ययोर्द्वयोः ।सुखं नास्त्येव सलिलं मृगतृष्णास्विवैतयोः ॥४४॥अतो मनोजयश्चिन्त्यः शमसंतोषसाधनः ।अनन्तसमसंयोगस्तस्मादानन्द आप्यते ॥४५॥तिष्ठता गच्छता चैव पतता भ्रमता तथा ।रक्षसा दानवेनापि देवेन पुरुषेण वा ॥४६॥मनः प्रशमनोद्भूत्तं तत्प्राप्यं परमं सुखम् ।विकासिशमपुष्पस्य विवेकोच्चतरोः फलम् ॥४७॥व्यवहारपरेणापि कार्यवृन्दमविन्दता ।भानुनेवाम्बरस्थेन नोज्झ्यते न च वाञ्छयते ॥४८॥मनःप्रशान्तमत्यच्छं विश्रान्तं विगतभ्रमम् ।अनीहं विगताभीष्टं नाभिवाञ्छति नोज्झति ॥४९॥मोक्षद्वारे द्वारपालानिमाञ्छ्रणु यथाक्रमम् ।येषामेकतमासक्त्या मोक्षद्वारं प्रविश्यते। ॥५०॥सुखदोषदशादीर्घा संसारमरुमण्डली ।जन्तोः शीतलतामेति शीतरश्मेः समप्रभा ॥५१॥शमेनासाद्यते श्रेयः शमो हि परमं पदम् ।शमः शिवः शमः शान्ति शमो भ्रान्तिनिवारणम् ॥५२॥पुंसः प्रशमतृप्तस्य शीतलाच्छतरात्मनः ।शमभूषितचित्तस्य शत्रुरप्येति मित्रताम् ॥५३॥शमचन्द्रमसा येषामाशयः समलंकृतः ।क्षीरोदानामिवोदेति तेषां परमशुद्धता ॥५४॥हृत्कुशेशयकोशेषु येषां शमकुशेशयम् ।सतां विकसितं ते हि द्विहृत्पद्माः समा हरेः ॥५५॥शमश्रीः शोभते येषां मुखेन्दावकलङ्किते ।ते कुलीनेन्दवो वन्द्याः सौन्दर्यविजितेन्द्रियाः ॥५६॥त्रैलोक्योदरवर्तिन्यो नानन्दाय तथा श्रियः ।साम्राज्यसंपत्प्रतिमा यथा शमविभूतयः ॥५७॥यानि दुःखानि या तृष्णा दुःसहा ये दुराधयः ।तत्सर्वं शान्तचेतःसु तमोऽर्केष्विव नश्यति ॥५८॥मनो हि सर्वभूतानां प्रसादमधिगच्छति ।न तथेन्दोर्यथा शान्ते जने जनितकौतुकम् ॥५९॥शमशालिनि सौहार्दवति सर्वेषु जन्तुषु ।सुजने परमं तत्त्वं स्वयमेव प्रसीदति ॥६०॥मातरीव परं यान्ति विषमाणि मृदूनि च ।विश्वासमिह भूतानि सर्वाणि शमशालिनि ॥६१॥न रसायनपानेन न लक्ष्म्यालिङ्गनेन च ।तथा सुखमवाप्नोति शमेनान्तर्यथा मनः ॥६२॥सर्वाधिव्याधिचलितं क्रान्तं तृष्णावरत्रया ।मनः शमामृतासेकैः समाश्वासय राघव ॥६३॥यत्करोषि यदश्नासि शमशीतलया धिया ।तत्रातिस्वदते स्वादु नेतरत्तात मानसे ॥६४॥शमामृतरसाच्छन्नं मनो यामेति निर्वृतिम् ।छिन्नान्यपि तयाङ्गानि मन्ये रोहन्ति राघव ॥६५॥न पिशाचा न रक्षांसि न दैत्या न च शत्रवः ।न च व्याघ्रभुजङ्गा वा द्विषन्ति शमशालिनम् ॥६६॥सुसंनद्धसमस्ताङ्गं प्रशमामृतवर्मणा ।वेधयन्ति न दुःखानि शरा वज्रशिलामिव ॥६७॥न तथा शोभते राजा अप्यन्तःपुरसंस्थितः ।समया स्वच्छया बुद्ध्या यथोपशमशीलया ॥६८॥प्राणात्प्रियतरं दृष्ट्वा तुष्टिमेति न वै जनः ।यामायाति जनः शान्तिमवलोक्य शमाशयम् ॥६९॥समया शमशालिन्या वृत्त्या यः साधु वर्तते ।अभिनन्दितया लोके जीवतीह स नेतरः ॥७०॥अनुद्धतमनाः शान्तः साधुः कर्म करोति यत् ।तत्सर्वमभिनन्दन्ति तस्येमा भूतजातयः ॥७१॥श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा शुभाशुभम् ।न हृष्यति ग्लायति यः स शान्त इति कथ्यते ॥७२॥यः समः सर्वभूतेषु भावि काङ्क्षति नोज्झति ।जित्वेन्द्रियाणि यत्नेन स शान्त इति कथ्यते ॥७३॥स्पृष्ट्वाऽवदातया बुद्ध्या यथैवान्तस्तथा बहिः ।दृश्यन्ते यत्र कार्याणि स शान्त इति कथ्यते ॥७४॥तुषारकरबिम्बाभं मनो यस्य निराकुलम् ।मरणोत्सवयुद्धेषु स शान्त इति कथ्यते ॥७५॥स्थितोऽपि न स्थित इव न हृष्यति न कुप्यति ।यः सुषुप्तसमः स्वस्थः स शान्त इति कथ्यते ॥७६॥अमृतस्यन्दसुभगा यस्य सर्वजनं प्रति ।दृष्टिः प्रसरति प्रीता स शान्त इति कथ्यते ॥७७॥योऽन्तः शीतलतां यातो यो भावेषु न मज्जति ।व्यवहारी न संमूढः स शान्त इति कथ्यते ॥७८॥अप्यापत्सु दुरन्तासु कल्पान्तेषु महत्स्वपि ।तुच्छेऽहं न मनो यस्य स शान्त इति कथ्यते ॥७९॥आकाशसदृशी यस्य पुंसः संव्यवहारिणः ।कलङ्कमेति न मतिः स शान्त इति कथ्यते ॥८०॥तपस्विषु बहुज्ञेषु याजकेषु नृपेषु च ।बलवत्सु गुणाढ्येषु शमवानेव राजते ॥८१॥शमसंसक्तमनसां महतां गुणशालिनाम् ।उदेति निर्वृतिश्चित्ताज्ज्योत्स्नेव सितरोचिषः ॥८२॥सीमान्तो गुणपूगानां पौरुषैकान्तभूषणम् ।संकटेषु भयस्थाने शमः श्रीमान्विराजते ॥८३॥शमममृतमहार्यमार्यगुप्तंपरमवलम्ब्य परं पदं प्रयाताः ।रघुतनय यथा महानुभावाःक्रममनुपालय सिद्धये तमेव ॥८४॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे शमनिरूपणं नाम त्रयोदशः सर्गः ॥१३॥ N/A References : N/A Last Updated : July 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP