संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|मुमुक्षुव्यवहारप्रकरणम्| सर्गः ८ मुमुक्षुव्यवहारप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० मुमुक्षुव्यवहारप्रकरणम् - सर्गः ८ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ८ Translation - भाषांतर श्रीवसिष्ठ उवाच ।नाकृतिर्न च कर्माणि न स्पन्दो न पराक्रमः ।तन्मिथ्याज्ञानवद्रूढं दैवं नाम किमुच्यते ॥१॥स्वकर्मफलसंप्राप्ताविदमित्थमितीति याः ।गिरस्ता दैवनाम्नैताः प्रसिद्धिं समुपागताः ॥२॥तत्रैव मूढमतिभिर्दैवमस्तीति निश्चयः ।आत्तो दुरवबोधेन रज्ज्वामिव भुजंगमः ॥३॥ह्यस्तनी दुष्क्रियाभ्येति शोभां सत्क्रियया यथा ।अद्यैवं प्राक्तनी तस्माद्यत्नात्सत्कार्यवान्भवेत् ॥४॥मूढानुमानसंसिद्धं दैवं यस्यास्ति दुर्मतेः ।दैवाद्दाहोऽस्ति नैवेति गन्तव्यं तेन पावके ॥५॥दैवमेवेह चेत्कर्तुं पुंसः किमिव चेष्टया ।स्नानदानासनोच्चारान्दैवमेव करिष्यति ॥६॥किंवा शास्त्रोपदेशेन मूकोऽयं पुरुषः किल ।संचार्यते तु दैवेन किं कस्येहोपदिश्यते ॥७॥न च निस्पन्दता लोके दृष्टेह शवतां विना ।स्पन्दाच्च फलसंप्राप्तिस्तस्माद्दैवं निरर्थकम् ॥८॥न चामूर्तेन दैवेन मूर्तस्य सहकर्तृता ।पुंसः संदृश्यते काचित्तस्माद्दैवं निरर्थकम् ॥९॥मिथोऽङ्गानि समासाद्य द्वयोरेकैककर्तृता ।हस्तादीनां हतत्वे ह न दैवेन क्वचित्कृतम् ॥१०॥मनोबुद्धिवदप्येतद्दैवं नेहानुभूयते ।आगोपालं कृतप्रज्ञैस्तेन दैवमसत्सदा ॥११॥पृथक्चेद्बुद्धिरन्योऽर्थः सैव चेत्कान्यता तयोः ।कल्पनायां प्रमाणं चेत्पौरुषं किं न कल्प्यते ॥१२॥नामूर्तेस्तेन सङ्गोऽस्ति नभसेव वपुष्मतः ।मूर्तं च दृश्यते लग्नं तस्माद्दैवं न विद्यते ॥१३॥विनियोक्रथ भूतानामस्त्यन्यच्चेज्जगत्त्रये ।शेरते भूतवृन्दानि दैवं सर्वं करिष्यति ॥१४॥दैवेन त्वभियुक्तोऽहं तत्करोमीदृशं स्थितम् ।समाश्वासनवागेषा न दैवं परमार्थतः ॥१५॥मूढैः प्रकल्पितं दैवं तत्परास्ते क्षयं गताः ।प्राज्ञास्तु पौरुषार्थेन पदमुत्तमतां गताः ॥१६॥ये शूरा ये च विक्रान्ता ये प्राज्ञा ये च पण्डिताः ।तैस्तैः किमिव लोकेऽस्मिन्वद दैवं प्रतीक्ष्यते ॥१७॥कालविद्भिर्विनिर्णीता यस्यातिचिरजीविता ।स चेज्जीवति संछिन्नशिरास्तद्दैवमुत्तमम् ॥१८॥कालविद्भिर्विनिर्णीतं पाण्डित्यं यस्य राघव ।अनध्यापित एवासौ तज्ज्ञश्चेद्दैवमुत्तमम् ॥१९॥विश्वामित्रेण मुनिना दैवमुत्सृज्य दूरतः ।पौरुषेणैव संप्राप्तं ब्राह्मण्यं राम नान्यथा ॥२०॥अस्माभिरपरै राम पुरुषैर्मुनितां गतैः ।पौरुषेणैव संप्राप्ता चिरं गगनगामिता ॥२१॥उत्साद्य देवसंघातं चक्रुस्त्रिभुवनोदरे ।पौरुषेणैव यत्नेन साम्राज्यं दानवेश्वराः ॥२२॥आलूनशीर्णमाभोगि जगदाजह्रुरोजसा ।पौरुषेणैव यत्नेन दानवेभ्यः सुरेश्वराः ॥२३॥राम पौरुषयुक्त्या च सलिलं धार्यतेऽनया ।चिरं करण्डके चारु न दैवं तत्र कारणम् ॥२४॥भरणादानसंरम्भविभ्रमश्रमभूमिषु ।शक्तता दृश्यते राम न दैवस्यौषधेरिव ॥२५॥सकलकारणकार्यविवर्जितंनिजविकल्पवशादुपकल्पितम् ।त्वमनपेक्ष्य हि दैवमसन्मयंश्रय शुभाशय पौरुषमुत्तमम् ॥२६॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे दैवनिराकरणं नामाष्टमः सर्गः ॥८॥ N/A References : N/A Last Updated : July 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP