संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|द्वादशर्चोनाम नवमकाण्डः| २१ ते २५ द्वादशर्चोनाम नवमकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते २९ नवमकाण्डः - २१ ते २५ पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता २१ ते २५ Translation - भाषांतर २१यो वा एकशरावं निर्वपेदेकर्षिमेवानु निर्वपेत् ।एष वा एकर्षिर्यदग्निः।एकर्षि चैव लोकं चाव रुन्धे एकर्षिरिव तपत्येकर्षिरिव दीदायैकर्षिरिवान्नादो भवति य एवं वेद ।स य एवं विद्वान् प्राश्नीयादेतामेव देवतां मनसा ध्यायेदेकर्षेस्त्वा चक्षुषा पश्याम्येकर्षेस्त्वा हस्ताभ्यामा रभ एकर्षेस्त्वास्येन प्राश्नाम्येकर्षेस्त्वा जठरे सादयामीति ।स यथा हुतमिष्टं । प्राश्नीयादेवैनं प्राश्नाति ॥१॥यो वै द्विशरावं निर्वपेत् प्राणापानावेवानु निर्वपेत्। एतौ वै प्राणापानौ यन्मातरिश्वा चाग्निश्च ।प्राणापानौ चैव लोकं चाव रुन्धे ज्योग् जीवति सर्वमायुरेति न पुरा जरसः प्रमीयते य एवं वेद ।स य एवं विद्वान् प्राश्नीयादेते एव देवते मनसाध्यायेत् प्राणापानयोस्त्वा चक्षुषा पश्यामि प्राणापानयोस्त्वा हस्ताभ्यामा रभे प्राणापानयोस्त्वास्येन प्राश्नामि प्राणापानयोस्त्वा जठरे सादयामीति ।स यथा हुतमिष्टं प्राश्नीयादेवैनं प्राश्नाति ॥२॥यो वै त्रिशरावं निर्वपेत् त्रीण्येव त्रिकद्रुकाण्यनु निर्वपेत् ।एतानि वै त्रीणि त्रिकद्रुकाणि यदृचः सामानि यजूंषि ब्राह्मणम् ।ब्रह्म चैव लोकं चाव रुन्धे ब्राह्मणवर्चसी भवति य एवं वेद ।स य एवं विद्वान् प्राश्नीयादेतामेव देवतां मनसा ध्यायेद ब्रह्मणस्त्वा चक्षुषा पश्यामि ब्रह्मणस्त्वा हस्ताभ्यामा रभे ब्रह्मणस्त्वास्येन प्राश्नामि ब्रह्मणस्त्वा जठरे सादयामीति ।स यथा हुतमिष्टं प्राश्नीयादेवैनं प्राश्नाति ॥३॥यो वै चतुःशरावं निर्वपेच्चतस्र एवोर्वीरनु निर्वपेत् ।एता वै चतस्र उर्वीर्यद् दिशः ।दिशश्चैव लोकं चाव रुन्धे कल्पन्ते अस्मै दिशो दिशां प्रियो भवति य एवं वेद ।स य एवं विद्वान् प्राश्नीयादेतामेव देवतां मनसा ध्यायेद्दिशां त्वा चक्षुषा पश्यामि दिशां त्वा हस्ताभ्यामा रभे दिशां त्वास्येन प्राश्नामि दिशां त्वा जठरे सादयामीति ।स यथा हुतमिष्टं प्राश्नीयादेवैनं प्राश्नाति ॥४॥यो वै पञ्चशरावं निर्वपेद् वैश्वानरमेव पञ्चमूर्धानमनु निर्वपेत् ।एष वै वैश्वानरः पञ्चमूर्धा यद् द्यौश्च पृथिवी च मातरिश्वा चाग्निश्चादसावातपन्। वैश्वानरं चैव लोकं चाव रुन्धे वैश्वानर इव तपति वैश्वानर इव दीदाय वैश्वानर इवान्नादो भवति य एवं वेद ।स य एवं विद्वान् प्राश्नीयादेतामेव देवतां मनसा ध्यायेद् वैश्वानरस्य त्वा चक्षुषा पश्यामि वैश्वानरस्य त्वा हस्ताभ्यामा रभे वैश्वानरस्य त्वास्येन प्राश्नामि वैश्वानरस्य त्वा जठरे सादयामीति ।स यथा हुतमिष्टं प्राश्नीयादेवैनं प्राश्नाति ॥५॥यो वै षट्शरावं निर्वपेत् षड्याव्न एव देवाननु निर्वपेत् ।एते वै षड्यावानो देवा यदृतवः ।ऋतूंश्चैव लोकं चाव रुन्धे कल्पन्ते अस्मा ऋतवो न ऋतुष्वावृश्चत ऋतूनां प्रियो भवति य एवं वेद । ऋतोवस य एवं विद्वान् प्राश्नीयादेता एव देवता मनसा ध्यायेद् ऋतूनां त्वा चक्षुषा पश्याम्यृतूनां त्वा हस्ताभ्यामा रभ ऋतूनां त्वास्येन प्राश्नाम्यृतूनां त्वा जठरे सादयामीति ।स यथा हुतमिष्टं प्राश्नीयादेवैनं प्राश्नाति ॥६॥यो वै सप्तशरावं निर्वपेत् सप्त ऋषीनेवानु निर्वपेत् ।एते चै सप्त ऋषयो यत् प्राणापानव्याना: ।सप्तर्षींश्चैव लोकं चाव रुन्धे ज्योग् जीवति सर्वमायुरेति न पुरा जरस: प्रमीयते य एवं वेद ।स य एवं विद्वान् प्राश्नीयादेता एव देवता मनसा ध्यायेत् सप्तर्षीणां त्वा चक्षुषा पश्यामि सप्तर्षीणां त्वा हस्ताभ्यामा रभे सप्तर्षीणां त्वास्येन प्राश्नामि सप्तर्षीणां त्वा जठरे सादयामीति ।स यथा हुतमिष्टं प्राश्नीयादेवैनं प्राश्नाति ॥७॥यो वा अष्टशरावं निर्वपेद् विराजमेवाष्टापदीमनु निर्वपेद् ।एषा वै विराडष्टापदी यद् द्यौश्च पृथिवी चापश्चौषधयश्च वायुश्चान्तरिक्षं च सूर्यश्च चन्द्रमाश्च ।विराजं चैव लोकं चाव रुन्धे विराजत्यस्मिंश्च लोके अमुष्मिंश्च वैराजर्षभ इत्येनमाहुर्य एवं वेद ।स य एवं विद्वान् प्राश्नीयादेतामेव देवतां मनसा ध्यायेद् विराजस्त्वा चक्षुषा पश्यामि विराजस्त्वा हस्ताभ्यामा रभे विराजत्वास्येन प्राश्नामि विराजस्त्वा जठरे सादयामीति ।स यथा हुतमिष्टं प्राश्नीयादेवैनं प्राश्नाति ॥८॥यो वै नवशरावं निर्वपेन्नवयाव्न एव देवाननु निर्वपेत् ।एते वै नवयावानो देवा यन्मासा: ।मासश्चैव लोकं चाव रुन्धे कल्पन्ते अस्मै मासा मासां प्रियो भवति य एवं वेद ।स य एवं विद्वान् प्राश्नीयादेता एव देवता मनसा ध्यायेन् मासां त्वा चक्षुषा पश्यामि मासां त्वा हस्ताभ्यामा रभे मासां त्वास्येन प्राश्नामि मासां त्वा जठरे सादयामीति ।स यथा हुतमिष्टं प्राश्नीयादेवैनं प्राश्नाति ॥९॥यो वै दशशरावं निर्वपेदिडामेव धेनुमनु निर्वपेत् ।एषा वा इडा धेनुर्यद् यज्ञ: पशव: ।इडां चैव धेनुं यज्ञं च लोकं च पशूंश्चाव रुन्धे कल्पन्ते अस्मा इड़ इड़ां प्रियो भवति य एवं वेद ।स य एवं विद्वान् प्राश्नीयादेतामेव देवतां मनसा ध्यायेदिड़ायास्त्वा चक्षुषा पश्यामीड़ायास्त्वा हस्ताभ्यामा रभ इड़ायास्त्वास्येन प्राश्नामीड़ायास्त्वा जठरे सादयामीति ।स यथा हुतमिष्टं प्राश्नीयादेवैनं प्राश्नाति ॥१०॥यो वा एकादशशरावं निर्वपेद रोहितमेवानु निर्वपेत् ।इन्द्रियावी प्रिय इन्द्रस्य भवति य एवं वेद ।स य एवं विद्वान् प्राश्नीयादेतामेव देवता मनसा ध्यायेदिन्द्रस्य त्वा चक्षुषा पश्यामीन्द्रस्य त्वा हस्ताभ्यामा रभ इन्द्रस्य त्वास्येन् प्राश्नामीन्द्रस्य त्वा जठरे सादयामीति ।स यथा हुतमिष्टं प्राश्नीयादेवैनं प्राशनाति ॥११॥यो वै द्वादशशरावं निर्वपेद् विश्वामेव देवाननु निर्वपेत् ।एते वै विश्वे देवा यदिदं सर्वम्।विश्वांश्चैव देवांल्लोकं चाव रुन्धे कल्पन्ते अस्मै विश्वे देवा: प्रियो विश्वेषां देवानां भवति ध्यायेद् विश्वेषां त्वा देवानां चक्षुषा पश्यामि विश्वेषां त्वा देवानां हस्ताभ्यामा रभे विश्वेषां त्वा देवानामास्येन प्राश्नामि विश्वेषां त्वा देवानां जठरे सादयामीति ।स यथा हुतमिष्टं प्राश्नीयादेवैनं प्राश्नाति ॥१२॥२२इमां मात्रां निर्वप ओदनस्य तस्य पक्ता मुच्यतां किल्बिषेभ्यः।अभिद्रोहादेनसो दुष्कृताच्च पुनातु मा पवनैः पवित्रः ॥१॥भद्रौ हस्तौ भद्रा जिह्वा भद्रं भवतु मे वचः।मह्यं पवित्रमोदनं ब्रह्मणा निर्वपामसि हस्ताभ्यां निर्वपामसि ॥२॥यन् मयि गर्भं सति माता चकार दुष्कृतम् ।अयं मा तस्मादोदन: पवित्र: पात्वंहसः ॥३॥यदर्वाचीनमेकहायनादनृतं किं चोदिम ।अयं मा तस्मादोदन: पवित्र: पात्वंहस: ॥४॥यद् दुष्कृतं यच्छमलं यदेनश्चकृमा वयं ।अयं मा तस्मादोदन: पवित्र: पात्वंहसः ॥५॥यन् मातरं यत् पितरं यद्वा जामिं जिहिंसिम।अयं मा तस्मादोदन: पवित्र: पात्वंहस: ॥६ ।यन् मातृघ्ना यत् पितृघ्ना भ्रूणघ्ना यत् सहासिम ।अयं मा तस्मादोदनः पवित्रः पात्वंहसः ॥७॥श्यावदंता कुनखिना स्तेनेन यत् सहासिम ।अयं मा तस्मादोदनः पवित्र: पात्वंहसः ॥८॥शिशुन्धानां पूंश्चलानां तक्ष्णां यदन्नमाशिम ।अयं मा तस्मादोदनः पवित्र: पात्वंहसः ॥९॥यदपामपजह्रिम निमज्य पपिमोदकम् ।अयं मा तस्मादोदनः पवित्र: पात्वंहसः ॥१०॥ २३यत् क्रुद्धा मन्युतो वयं ब्राह्मणस्य निजग्मिम पदा वा गामुपारिम।अयं मा तस्मादोदनः पवित्रः पात्वंहसः ॥१॥यद् ब्रह्मचर्ये यत् स्नातचर्ये अनृतं किं चोदिम ।अयं मा तस्मादोदन: पवित्रः पात्वंहसः ॥२॥किलासेन दुश्चर्मणा वण्डेन यत् सहाशिमाधाराभिगतेन वा ।अयं मा तस्मादोदन: पवित्र: पात्वंहस: ॥३॥यत् क्षेत्रमभितिष्ठाथाश्वं वा यं निरेमिषे ।अयं मा तस्मादोदनः पवित्र: पात्वंहसः ॥४॥यदक्षेषु हिरण्ये गोष्वश्वेषु यद्धने अनृतं किं चोदिम ।अयं मा तस्मादोदन: पवित्र: पात्वंहसः ॥५॥सख्युर्जायां स्वां दासीं सूतिकां लोहितावतीमशुद्धां यदुपेयिम।अयं मा तस्मादोदन: पवित्रः पात्वंहसः ॥६॥परिवित्तेन परिविविदानेनाभ्यवस्नातेन परिभक्षितेन दिधिषूपत्या यत् सहाशिम ।अयं मा तस्मादोदन: पवित्र: पात्वंहसः ॥७॥यत् कुसीदं विभेजिम द्विमेयं धनकाम्या ।अयं मा तस्मादोदन: पवित्र: पात्वंहस: ॥८॥यद द्वयेकं यत् त्र्येकमुपैकमिति यद्ददौ ।अयं मा तस्मादोदन: पवित्र: पात्वंहसः ॥९॥यत् त्चरमाणाः शबलमपक्वं मांसमाशिम ।अयं मा तस्मादोदन: पवित्र: पात्वहंस: ॥१०॥२४यदन्नमाशिमा वयमनन्नमन्नकाम्योदरस्याभिशाच्या।अयं मा तस्मादोदनः पवित्र: पात्वंहसः ॥१॥यद् विद्वांसो यदविद्वांसो अनृतं किं चोदिम ।अयं मा तस्मादोदनः पवित्र: पात्वंहसः ॥२॥येनेन्द्रमपुननमार्तमर्त्यास्तेनायं मां सर्वपशुं पुनातु ॥३॥येनापुनात सविता रेवतीरपो येनापुनीत वरुण: सवाय ।येनेमा विश्वा भुवनानि पूतास्तेनार्थ मां सर्वपशु पुनातु ॥४॥अति क्रामामि दुरितं यदेनो जहामि रिप्रं परमे सधस्थे ।येन यन्ति सुकृतो नापि दुष्कृतस्तमा रुहेम सुकृतामु लोकम् ॥५॥मा यक्ष्ममिह हासिष्ट मा रिफन्तो वि गातन ।अमैव पुण्यमस्तु नो अतृनन्वेति किल्बिषम् ॥६॥इमं पचाम्योदनं पवित्रं पवनाय कम्।स मा मुञ्चतु दुष्कृताद् विश्वस्माच्चैनसस्परि ॥७॥२५सहस्राक्षं शतधारमृषिभिः पवनं कृतम् । तु. शौ.सं. ६.१९तेना सहस्रधारेण पवमानः पुनातु मा ॥१॥येन पूतमन्तरिक्षं यस्मिन् वायुरधि श्रितः ।तेना सहस्रधारेण पवमानः पुनातु मा ॥२॥येन पूते द्यावापृथिवी आपः पूता अथो स्वः ।तेना सहस्रधारेण पवमान: पुनातु मा ॥३॥येन पूते अहोरात्रे दिशः पूता उत येन प्रदेशाः ।तेना सहस्रधारेण पवमानः पुनातु मा ॥४॥येन पूतौ सूर्याचन्द्रमसौ नक्षत्राणि भूतकृतः सह येन पूताः ।तेना सहस्रधारेण पवमान: पुनातु मा ॥५॥येन पूता वेदिरग्निः परिधयः सह येन पूताः ।तेना सहस्रधारेण पवमानः पुनातु मा ॥६॥येन पूतं बर्हिराज्यमथो हविः ।तेना सहस्रधारेण पवमानः पुनातु मा ॥७॥येन पूतो यज्ञो वषट्कार उताहुतिः ।तेना सहस्रधारेण पवमानः पुनातु मा ॥८॥येन पूतौ व्रीहियवौ याभ्यां यज्ञो अधिनिर्मितः ।तेना सहस्रधारेण पवमान: पुनातु मा ॥९॥येन पूता अश्वा गावो अथो पूता अजावयः ।तेना सहस्रधारेण पवमानः पुनातु मा ॥१०॥ N/A References : N/A Last Updated : May 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP