संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|पैप्पलादसंहिता|द्वादशर्चोनाम नवमकाण्डः| ६ ते १० द्वादशर्चोनाम नवमकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते २९ नवमकाण्डः - ६ ते १० पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ६ ते १० Translation - भाषांतर ६इमां खनाम्योषधिमदृष्टहननीमहम् । तु. शौ.सं. ३.१८अश्वस्थावो ददाति त्वा वैरूपो वाजिनीवति ॥१॥नादृष्टा वो जिह्वाः सन्ति न दन्ता हन्वोरधि ।नापि मध्यं नो शिरस्ते यूयं किं करिष्यथ ॥२॥इन्द्रामित्रा इन्द्रहता न व इहास्ति न्यञ्जनम् ।इन्द्रो वः सर्वासां साकं शक्रस्तृणेढु वृत्रहा ॥३॥अश्वतराङ् अयःशफान् यानिन्द्रो अधितिष्ठति ।तैर्वोपि नह्येय ते मुखान्युदरसर्पिण: ॥४॥अपिनह्यमदृष्टानां मुखं पादा दृतेरिव ।उतैषां जिह्वा निष्कर्ता निर्दन्ता हन्वोरधि ॥५॥अवधिषमसृगादां नि क्रोडादा अलिप्सत ।अभैत्सं सर्वेषामाण्डानि ये अदृष्टाः पृथिवीक्षितः ॥६॥रिष्यासः पौरुषासो दर्भासो वैरिणा उत ।मौञ्जा अदृष्टा: सौर्याः सर्वे साकं नि जस्यत ॥७॥अदृष्टानां सप्त जाता पृथिवी न शिशे मही ।तानिन्द्रो बाहुभ्यां सर्वाञ्छक्रो अपावयत् ॥८॥ये व: सन्ति सप्त जाता अदृष्टा: पुरुषादिन: । .ग्राव्णांशूनिव सोमस्य तान् सर्वान् प्र मृणीमसि ॥९॥य आत्मजा ये वस्तिजा य ऋषा य उ तोदिन: ।तेभ्य: खनाम्योषधिं येभ्यो बिम्बीवध: कृत: ॥१०॥अदृष्टभ्यस्तरुणेभ्यो युवद्धद्य स्थविरेभ्यः ।अहार्षमुग्रामोषधिं येभ्यो बिम्भीवधः कृतः ॥११॥ये च दृष्टा ये चादृष्टास्तितीला: शलुनाश्च ये ।तानग्ने सर्वान् सं दह क्रिमीननेजतो जहि ॥१२॥७शीतिजला इति शीता वाता उपा वन्तु ।हिमेनाग्निरावृतो हिमेनाग्नि: परीवृत: ॥१॥यत्त्वा देवा अपारुन्धन्ना समुद्रमधावय: ।हिमो जघान गोअजं हिमो अक्षं हिमश्छदिः ॥२॥हिमादधि प्र यामसि हिमे अद्य विमोचनम् ।यमवटं शतदरमवैन्ध सप्तवध्रये ॥३॥अवका तत्र रोहतु खदे परि बिलं तव॥अर्चिष्टे अग्ने प्रथममङ्गाराङ् अपराङ् उत ॥४॥गृभ्णामि ब्रह्मणा नाम धामधाम परुष्परु: ।शीतिका नाम ते माता जलाषो नाम ते पिता ॥५॥इह त्वमन्तरा भव बाहीकमस्तु यद्रप: ।हिमे जातोदके वृद्धा सिन्धुतस्पर्याभृता ।तया ते अग्रभं नामाश्वमिवाश्वाभिधान्या ॥६॥आमा नामास्योषधे तस्यास्ते नाम जग्रभ ।अगस्त्यस्य पुत्रासो मा वि धाक् पुरुषान् मम ॥७॥मा नो अग्ने तन्वं मा वायांसि रीरिषः ।यं त्वा समुद्रज वयमारोहाम स्वस्तये ॥८॥दिवस्तारा अवापद्रन् धारात् समुद्रिया अपः ।हिरण्यकुम्भो हरितो ऽवकाभिः परिवृतस्तेनाग्निं शमयामसि ॥९॥शमयाम्यर्चिरग्नेः शिवस्तपतु मा वि धाक् ।गृभीते द्यावापृथिवी गृभीतं पार्थिवं रजः ॥१०॥नि मुञ्जेषु यदुदकं नि नडेषु यदन्तरम् ।यत् समुद्रे यत् सिन्धौ तेनाग्निं शमयामसि ॥११॥वेतसस्यावकाया नड़स्य वीरणस्य च ।रोहितकस्य वृक्षस्याग्निं शमनमुद्भरे ॥१२॥आयतीरुदहार्यो वि ते हरन्तु यद्रपः ।परायतीः परावतः परा हरन्तु यद्रपः ॥१३॥हिमस्य त्वा जरायुणाग्ने परि व्ययामसि ।शीतिके शीतमित् करो हिमिके हिममित् कर:॥१४॥८अक्षण्वता लाङ्गलेन पद्वता पतयिष्णुना।लाङ्गूलगृह्य चर्कृषुर्वृकेण यवमश्विना ॥१॥देवा एतं मधुना संयुतं यवं सरस्वत्यामधि मणावचर्कृषुः ।इन्द्र आसीत् सीरपतिः शतक्रतुः कीनाशा आसन् मरुतः सुदानवः ॥२॥हिरण्ययं कलशं सुदानवो दिव्यया सरघया कृतम् ।अव भृतमश्विना यवं तद् युवं मधु चक्रथुः ॥३॥क्रिशावेतदजयतमश्विना सारघं मधु।ततो यवो व्यरोहत्सोऽभवद् विषदूषण: ॥४॥युवार्वान् सारघयाः प्रखिद्य मध्वाभरत् ।ततो यवो व्यरोहत्सो ऽभवद् विषदूषणः ॥५॥यद् वृकं मधुपावानमवामयतमश्विना ।ततो यवो व्यरोहत्सो ऽभवद् विषदूषणः ॥६॥कैरण्डा नाम सरसो वृकस्य वम्या अधि ।ततो यवो व्यरोहत्सो ऽभवद् विषदूषणः ॥७॥यदस्य भरथो मधु सरघा सथ्वच्छिनत् ।सद्यस्तदर्वतो युवं पुनरा दत्तमश्विना ॥८॥यो यवं दिग्धविद्धो अहिदष्ट उपासरत् ।तीर्थ रध्रमिव मज्जन्तं उत्तं भरतमश्विना ॥९॥यं वहन्त्यष्टायोगाः षङयोगा यं चतुर्गवाः ।स ते विषं वि बाधतामुग्रो मध्यमशीरिव ॥१०॥९यस्य यव प्रसर्पस्यङ्गमङ्गं परुष्परु: ।तस्माद् यक्ष्मं वि बाधस्योग्रो मध्यमशीरिव ॥१॥शकलं च न ते यवान्या रुहन्त्योषधी: ।यव इद् यावयाद्गोरश्वात् पुरुषाद् विषम् ॥२॥यवो राजा यवो भिषक् यवस्य महिमा महान् ।यवस्य मन्थं पपिवानिन्द्रश्चकार वीर्यम् ॥३॥आा भरामृतं घृतस्य पुष्पमा भर ।अनभ्रिखात ओषध इदं दूषय यद् विषम् ॥४॥य आयन्ति दिग्धविद्धाः शूद्रा राजन्या उत ।चक्षुर्मे सर्व आादृश्य ते यन्त्यगदाः पुन: ॥५॥१०जीवातवे न मर्तवे शिरस्त आ रभामहे ।रसं विषस्य नाविदमुद्न: फेनमदन्निव ॥१॥भूम्या मध्याद्दिवो मध्याद् भूम्या अन्तादथो दिवः ।मध्ये पृथिव्या यद् विषं तद् वाचा दूषयामसि ॥२॥अश्वत्थे निहितं विषं कपाले निहितं विषम् ।शिलाया जज्ञे तैमात: प्रथमो विषदूषणी ॥३॥विषस्याहं वैन्दकस्य विषस्य दार्व्यस्य च ।अथो विषस्य स्वैत्नस्य समानीं वाचमग्रभम् ॥४॥तदिद् वदन्त्यर्थिन उत शूद्रा उतार्याः ।विषाणां विष्वगर्थानां सर्वथैवारसं विषम् ॥५॥परुषस्त्वामृतकर्णो विष प्रथममावयत् ।यथा ह तं नारोपयस्तथास्यरसं विषम् ॥६॥यद् वो देवा उपजीका उद्देहं शुषिरं ददुः ।तत्रामृतस्यासिक्तं तच्चकारारसं विषम् ! ॥७॥शकुन्तिका मे अब्रवीद विषपुष्पं धयन्तिका ।न रोपयति न मादयत्यरसं शार्वीयं विषम् ॥८॥अत्यपप्ताम दुर्गाणि शारीः शकुनयो यथा ।इहेन्द्राणीं वरुणानीं सिनीवालीं क्रकोढयाम् ।ग्राहां शूरपुत्रां देवीं याचामो विषदूषणम् ॥९॥आलकं व्यालकं व्यावं जाल्म जिगीमहे ।जरद्विषं युवाभिषक् वयमित् सासहामहै ॥१०॥अस्थाद् द्यौरस्थात् पृथिव्यस्थाद् विश्वमिदं जगत् ।अस्थुर्विषस्यारोपयोऽनड्वाह: क्रिशा इव ॥११॥यावत् सूर्यो वितपति यावच्चाभिविपश्यति । .तेनाहमिन्द्रदत्तेन कृणोम्यरसं विषम् ।तद्विषमरसं विषमधोभागरसं विषम् ॥१२॥ N/A References : N/A Last Updated : May 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP