संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|द्वादशर्चोनाम नवमकाण्डः| ११ ते १५ द्वादशर्चोनाम नवमकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते २९ नवमकाण्डः - ११ ते १५ पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ११ ते १५ Translation - भाषांतर ११मातरिश्वा समभरद्धाता समदधात् परु: ।इन्द्राग्नी अभ्यरक्षतां त्वष्टा नाभिमकल्पयत् ॥१॥भवस्त्वा अभ्यरुक्षद् रुद्रस्ते अंसुमाभरत् ।रात्री त्वाभ्यगोपायत् सा त्वं भूते अजायथाः ॥२॥द्यौष्ट आयुर्गोपायदन्तरिक्षमसुं तव ।माता भूतस्य भव्यस्य पृथिवी त्वाभि रक्षतु ॥३॥यां त्वा देवाः समदधुः सहस्रपुरुषं सतीम् ।सा देवी त्वमस्येदमपाज व्यजा विषम् ॥४॥या: पुरस्तात् प्रस्यन्दन्ते दिवा नक्तं च योषित: ।आप: पुरु स्रवन्तीस्ता उ ते विषदूषणी: ॥५॥आतपस्ते वर्षमासीदग्निश्छायाभवत्तपः ।उल्बं ते अभ्रमासीत् सा त्वं भूते अजायथाः ॥६॥गन्धर्वस् ते मूलम् आसीच् छाखाप्सरसस् तव।मरीचीरासन् पर्णानि सिनीवाली कुलं तव ॥७॥अजरा देवा अदधुरमृतं मर्त्येष्वा ।तस्यैतदग्रमा ददे तदु ते विषदूषणम् ॥८॥अनभ्रौ खनमानं विप्र गम्भीरे अपसम् ।भिषक् चक्षुर्भिषक् खने तदु ते विषदूषणम् ॥९॥याः पुरस्ताद् वितिष्ठन्ते गाव: प्रव्राजिनीरिव ।अमृतस्येव वा अस्यथो हास्यरुन्धती ॥१०॥यो मय: सरघायाः प्रखाय मध्वाभरत् ।ततो यवः प्राजायत्सोभवद् विषदूषण: ॥११॥यवस्यैतत् पलालिनो गोधूमस्य तिलस्य च ।व्रीहेर्यवस्य दैव्येन कृणोम्यरसं विषम् ॥१२॥महीं योनिं समुद्रस्यान्वविन्दन् ऋतायवः ।तां देवा गुह्यामासीनां समुद्राच्चिदुदाभरन् ॥१३॥समुद्राच्चिदुदाभृत्य तामु पुष्कर आ दधु: ।अस्या: पृथिव्या देव्याश्चक्षुराकाश्यमसि विषदूषणम् ॥१४॥(इति द्वादशर्चोनाम नवमकाण्डे द्वितीयो ऽनुवाकः)१२समानमर्थं पर्यन्ति देवा रूपंरूपं तपसा वर्धमाना: ।यदादित्यमभिसंविशन्ति तदेकं रूपममृतत्वमेषाम् ॥१॥देवो देवेभिरा गमन् महान् नो अतिथिष्पिता ।स प्रैति जातवेदसमेकरूपो गुहा भवन् ॥२॥आतिथ्यमग्निं निरपप्तदेव उभयेभि: पितृभिः संविदानः ।महान् नु मर्त्य उप भक्षं नागन् संगृभ्यादित्यान् न्यविष्ट वह्निः ॥३॥त आ विशन्ति पुरुषं शयानं प्राणा निविष्टा न ससन्त्येनम्।ते नो रात्र्या सुमनस्यमाना अह्ना रक्षन्त्यहृणीयमाना: ॥४॥पशुभ्यो नः पशुपते मृड़ सर्व सं वृह आयताम् ।मा न: प्राणेषु रीरिषः ॥५॥वायुः सत्ये अधि श्रितः प्राणापानावभिरक्षन् ।सं प्रजा ऐरयदिमाः ॥६॥देवा यत्ताः प्रजापतावादित्याश्च येमिरे ।पूषा रश्मिष्वायत आदित्यो विष्णुराक्रमे स रोहं दिवि रोहति ॥७॥प्रजाद्देवा: सवितु: सवे त्वष्टा रूपाणि पिंशतु ।अञ्जन्तौ मधुना पयो ऽतन्द्रं यातमश्विना ॥८॥विश्वे देवा: प्र यातनादित्यास: सजोषसः ।पुरः पश्चात् स्वस्तये ॥९॥ब्रह्म वर्म बृहस्पतिः संगवो नोऽभि रक्षतु ।देवो देवैः पुरोहितः ॥११०॥मरुतो वृष्ट्या न आ गत सत्यधर्माण ऊतये ।अपराह्नेषु जिन्वत ॥११॥इन्द्रो राजा दिवस्पतिरहर्विमाय तिष्ठति ।स न इमाः कल्पयाद् दिशः ॥१२॥१३आवतस्ते परावत: परावतस्त अवत: । तु. शौ.सं. ५.३०इहैव भव मा नु गा मा पूर्वाननु गा गतानसुं बध्नामि ते दृढम् ॥१॥यत्त्वाभिचेरुः पुरुषः सो यदरुणो जन: ।उन्मोचनप्रमोचने उभे वाचा वदामि ते ॥२॥यद् दुद्रोहिथ शेपिषे स्त्रियै पुंसे अचित्त्या ।उन्मोचनप्रमोचने उभे वाचा वदामि ते ॥३॥यदेनसो मातृकृताच्छेषे पितृकृतादुत ।उन्मोचनप्रमोचने उभे वाचा वदामि ते ॥४॥यत्ते माता यत्ते पिता जामिर्भ्राता च सर्जत: ।प्रत्यक् सेवस्य भेषजं जरदष्टिं कृणोमि त्वा ॥५॥एहोहि पुनरेहि सर्वेण मनसा सह ।दूतो यमस्य मानु गा अधि जीवपुरा इहि ॥६॥अनुहूतः पुनरेहि विद्वानुदयनं पथः ।आरोहणमाक्रमणं जीवतोजीवतोऽयनम् ॥७॥मा बिभेर्न मरिष्यसि जरदष्टिर्भविष्यसि ।निरवोचमहं यक्ष्ममङ्गेभ्यो अङ्गज्वरं तव ॥८॥शीर्षरोगो अङ्गरोगो यश्च ते हृदयामयः ।यक्ष्मः श्येन इव प्रापप्तद्वाचा नुत्तः परस्तरम् ॥९॥ऋषी बोधप्रतीबोधात्तस्वप्नो यश्च यागृविः ।ते ते प्राणस्य गोप्तारो दिवा नक्तं च जाग्रतु ॥१०॥१४अयमग्निरुपसद्य इह सूर्य उदेतु ते । तु. शौ.सं. ५.३०.११उदेहि मृत्योर्गम्भीरात् कृच्छाच्चित्तमसस्परि ॥१॥नमो यमाय नमोऽस्तु मृत्यवे नम: पितृभ्य उत ये नयन्ते ।उत्पारणस्य यो वेद तमग्निं तत् पुरो दधे ॥२॥ऐतु प्राण ऐतु मन ऐतु चक्षुरथो बलम् ।शरीरमस्य सं विदां तत् पद्भ्यां प्रति तिष्ठतु ॥३॥प्राणेनाग्ने चक्षुषा सं सृजेमं समीरय तन्वा सं बलेन ।वेत्थामृतस्य मा मृत मो षु भूमिगृहो भुवत् ॥४॥ ,मा ते प्राण उप दसन् मापानो अपि धायि ते ।सूर्यस्त्वाधिपतिर्नृत्योरुदायच्छाति रश्मिभिः ॥५॥इयमन्तर्वदत्युग्रा जिह्वा पनिष्पदा ।तया रोगान्वि नयामः शतं रोपीश्च तक्मनः ॥६॥अयं लोक: प्रियतमो देवानामपराजित: ।यस्मै त्वमिह जज्ञिषे दिष्टः पुरुष मृत्यवे ।तस्मै त्वानु ह्वयामसि मां पुरा जरसो मृथाः ॥७॥१५ते ऽवदन् प्रथमा ब्रह्मकिल्बिषे ऽकूपार: सलिलो मातरिश्वा। ऽकुपारः तु. शौ.सं. ५.१७वीडुहरास्तप उग्रं मयोभुव आपो देवी: प्रथमजा ऋतस्य ॥१ ॥भूवसोमो राजा प्रथमो ब्रह्मजायां पुनः प्रायच्छदहृणीयमानः ।अन्वर्तिता वरुणो मित्र आसीदग्निर्होता हस्तगृह्या निनाय ॥२॥हस्तेनेव ग्राह्य आधिरस्या ब्रह्मजायेति चेदवोचत् ।न दूताय प्रह्ये तस्थ एषा तथा राष्ट्रं गुपितं क्षत्रियस्य ॥३॥यामाहुस्तारका विकेशीं दुच्छुनां ग्राममवपद्यमानाम् ।सा ब्रह्मजाया प्र दुनोति राष्ट्रं यत्र प्रापादि शशः कल्कुषीमान् ॥४॥ब्रह्मचारी चरति वेविषद्विषः स देवानां भवत्येकमङ्गम् ।तेन जायामन्वविन्दद्बृहस्पतिः सोमेन नीतां जुह्वं न देवाः ॥५॥देवा एतस्यामवदन्त पूर्वे सप्तर्षयस्तपसे ये निषेदुः ।भीमा जाया ब्राह्मणस्यापनीता दुर्धां दधाति परमे व्योमन् ॥६॥ये गर्भा अवपद्यन्ते जगत् यच्चापलुप्यते ।वीरा ये हन्यन्ते मिथो ब्रह्मजाया हिनस्ति तान् ॥७॥सर्वे गर्भाः प्रव्यथन्ते कुमारा दशमास्याः ।यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजाया अचित्त्या ॥८॥पुनर्वै देवा अददु: पुनर्मनुष्या उत ।राजानः सत्यं कृण्वन्तो ब्रह्मजायां पुनर्ददुः ॥९॥यो पुनर्दाय ब्रह्मजायां कृत्वी देवैर्निकिल्बिषम् । किल्विषम्ऊर्जं पृथिव्या भत्क्वोरुगायमुपासते ॥१०॥ N/A References : N/A Last Updated : May 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP