नवमकाण्डः - १ ते ५
पैप्पलादसंहिता
१
ऊर्ध्वा अस्य समिधो भवन्त्यूर्ध्वा शुक्रा शोचींष्योग्नेः । तु. शौ.सं. ५.२७
द्युमत्तमा सुप्रतीकस्य सूनस्तनूनपादसुरो विश्ववेदाः ॥१॥
देवो देवेषु देवः पथो अनक्ति मध्वा घृतेन ।
मध्वा यज्ञं नक्षति प्रीणानो नराशंसः सुकृद्देवः सविता विश्ववारः ॥२॥
अच्छायमेति शवसा घृतेनेडे वह्निं नमसाग्निम् ।
स्रुचो अध्वरेषु प्रयत्सु ॥३॥
स अक्षदस्य महिमानमग्नेः स इन्मन्द्रासु प्रयत्सु ।
वसोश्चेतिष्ठो वसुधातमश्च ॥४॥
द्वारो देवीरन्नस्य विश्वे व्रता ददन्ते अग्नेः ।
उरुव्यचसो धाम्ना पत्यमानाः ॥५॥
ते अस्य वृषणो दिव्या नु योना ।
उषासानक्तेमं यज्ञमवतामध्वरं नः ॥६॥
दैवा होतार इममध्वरं नो अग्नेर्जिह्वेमभि गृणीत ।
कृणुता नः स्विष्टिम् ॥७॥
तिस्रो देवीर्बर्हिरेदं सदन्त्विड़ा सरस्वती मही ।
भारती गृणाना ॥८॥
तन्नस्तुरीपमद्भुतं पुरुक्षु ।
त्वष्टा सुवीर्यं रायस्योषं वि स्यतं नाभिमस्मे॥९ ॥स्यर्त
वनस्पते अव सृजा रराण: त्मना देवेभ्यः ।
अग्निर्हव्यं शमिता सूदयाति ॥१०॥
अग्ने स्वाहा कृणु जातवेद इन्द्राय भागम् ।
विश्वे देवा हविरिदं जुषन्ताम् ॥११॥
२
यजूंषि यज्ञे समिध: स्वाहाग्निः प्रविद्वानिह वो युनक्तु । तु. शौ.सं. ५.२६
युनक्तु देव: सविता प्रजानन्नस्मिन् यज्ञे सुयुजः स्वाहा ॥१॥
इन्द्र उक्थामदानि यज्ञे अस्मिन् प्रविद्वान् युनक्तु सुयुज: स्वाहा ।
छन्दांसि यज्ञं मरुत: स्वाहा मातेव पुत्रं पिपृतेह युक्ता: ॥२॥
प्रैषा निविद आप्रियो यजूंषि शिष्टाः पत्नीभिर्वहतेह युक्ताः ।
एयमगन् बर्हिषां प्रोक्षणीभिर्यज्ञं तन्वाना अदितिः स्वाहा ॥३॥
विष्णुर्युनक्तु बहुधा तपांस्यस्मिन् यज्ञे सुयुज: स्वाहा ॥४॥
त्वष्टा युनक्तु बहुधा नु रूपाण्यस्मिन् यज्ञे सुयुज: स्वाहा ॥५॥
इन्द्रो युनक्तु बहुधा वीर्याण्यस्मिन् यज्ञे सुयुज: स्वाहा ॥६॥
सोमो युनक्तु बहुधा पयांस्यस्मिन् यज्ञे सुयुज: स्वाहा ॥७॥
भगो युनक्त्वाशिषो न्यस्मां अस्मिन् यज्ञे सुयुज: स्वाहा ॥८॥
अश्विना ब्रह्मणेतमर्वाग् वषट्कारेण यज्ञं वर्धयन्तौ स्वाहा ॥९॥
बृहस्पते ब्रह्मणेह्यर्वाङ् यज्ञोयं स्वरितं यजमानाय धेहि स्वाहा ॥१०॥
३
आपः पुनन्तु वरुणः पुनात्वयं च यः पवते विश्वदानीम् । तु. शौ.सं. १.२३
यज्ञो भगो अधिवक्ता विधर्ताग्निश्च नः पावयेतां सूर्यश्च ॥१॥
दशशीर्षो दशजिह्व आ रभे वीरको भिषक् ।
मा ते रिषं खनिता यस्मै च त्वा खनामसि ॥२॥
दशरात्रे किलासस्य वीरुधा वेद भेषजम् ।
इतस्तदभ्रियाखनं किलासं नाशयामि ते ॥३॥
अप्स्वन्या वि होहति धन्वन्यन्याधि तिष्ठति ।
किलासमन्या नीनशद् वर्चसान्या समुक्षतु ॥४॥
आज्येन घृतेन जुहोमि किलासभेषजम् ।
वीरुधामग्ने: सङ्काशे किलासं नानु विद्यते ॥५॥
पिशङ्गरूपो भवति कल्माषमुत संदृशि ।
किलास नश्येत: पर: प्र त्वा धक्ष्यामि वीरुधा ॥६॥
यानि पृथगुत्पतन्ति नक्षत्राणीव संदृशि ।
किलासं सर्वं नाशयन्नोघ इवाभ्येमि वीरुधा ॥७॥
यदि वा पुरुषेषितात् किलास पर्याजगन् ।
नमो नमस्यामो देवान् प्रत्यक्कर्तारमृच्छतु ॥८॥
शीर्ष्णस्ते स्कन्धेभ्यो ललाटात् परि कर्णयोः ।
ओषध्या वर्षजूतया किलासं नाशयामि ते ।
स्वस्त्वा वर्ण आयत्यनराति: सहौषधिः ॥९॥
ग्रीवाभ्यस्त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात् ।
ओषध्या वर्षजूतया किलासं नाशयामि ते ।
स्वस्त्वा वर्ण आयत्यनरातिः सहौषधिः ॥१०॥
ओषध्या वर्षजूतया किलासं नाशयामि ते ।
स्वस्त्वा वर्ण आयत्यनरातिः सहौषधिः ॥११॥
पृष्टिभ्यस्ते पार्श्वभ्यां श्रोणिभ्यां परि भंसस: ।
ओषध्या वर्षजूतया किलासं नाशयामि ते ।
स्वस्त्वा वर्ण आयत्यनरातिः सहौषधिः ॥१२॥
ऊरूभ्यां ते ऽष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम् ।
ओषध्या वर्षजूतया किलासं नाशयामि ते ।
स्वस्त्वा वर्ण आायत्यनरातिः सहौषधिः ॥१३॥
४
सहैव वो हृदयानि सह विज्ञानमस्तु व: । तु. शौ.सं. ६.६४
सहेन्द्रो वृत्रहा करत् सह देवो बृहस्पति: ॥१॥
समानमस्तु वो हृदयं समानमुतो वो मनः ।
समानो अग्निर्वो देवः सह राष्ट्रमुपाध्वम् ॥२॥
सं जानीध्वं सहृदया: सर्वे संमनस स्थ ।
नष्टो वो मन्युजीर्णेर्ष्या सह जीवाथ भद्रया ॥३॥
यथा पुत्र: प्रवावदः पितृभ्यां वदति प्रियम् ।
एवा यूयमन्योऽन्यस्मै जिह्वया वदत प्रियम् ॥४॥
सहैव वो धान्यानि समानाः पशवश्च वः ।
सह पृथिव्यां वीरुधः सह वः सन्त्वोषधीः ॥५॥
सह दीक्षा सह यज्ञो विवाहो वो सहासति ।
सह प्रफर्वा नृत्यन्तु सह व स्त्रिय आसताम् ॥६॥
सहैव वो वीर्याणि सहान्यान् रन्धयाध्वै ।
सह पतत्रिणीमिषुमन्यस्मै हेतिमस्यत ॥७॥
सं वस्यामि समितिं मधुना वाचमाञ्जिषम् ।
युस्माकमन्ये शृण्वन्तूदितं सङ्गते जने ॥८॥
युष्मान् मित्रा वृणतां युष्मान् प्रतिजना उत ।
युष्मात् ज्ञातित्वं प्रेप्सन्त्यमृतं मर्त्या इव ॥९॥
सं समिद्यः समाकरं सह यूथा गवामिव॥
समानमस्तु वो मनो ज्येष्ठं विज्ञानमन्वित ॥१०॥
इदं यदेषां हदयं तदेषां हृदये भवत् ।
अथो यदेषां हृदयं तद्वेषां हृदि श्रितम् ।
समानमस्तु वो मनः श्रेष्ठं विज्ञानमन्वित ॥११॥
इदं यदेषां मन एषां यानि मनांसि च ।
सध्र्यगिन्द्र तत् कृणु रथे पादाविवाहितौ ॥१२॥
५
सहस्रबाहुः पुरुषः सहस्राक्षः सहस्रपात्। तु. शौ.सं. १६
स भूमिं विश्वतो वृत्वात्यतिष्ठद् दशाङ्गुलम् ॥१॥
त्रिभिः पद्भिद्यामरोहत् पादस्येहाभवत् पुनः॥
तथा व्यक्रामद्विष्वङ् अशनानशने अनु ॥२॥
तावन्तो अस्य महिमानस्ततो ज्यायांश्च पूरुषः । पुरुषः
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥३॥पादस्य
पुरुष एवेदं सर्वं यद् भूतं यच्च भाव्यम् ।
उतामृतत्वस्येश्वरो यदन्नेनाभवत् सह ॥४॥
यत् पुरुषं व्यदधुः कतिधा व्यकल्पयन् ।
मुखं किमस्य किं बाहू किमूरू पादा उच्येते ॥५॥
ब्राह्मणो ऽस्य मुखमासीद् बाहू राजन्योभवत् ।
मध्यं तदस्य यद् वैश्यः पद्भ्यां शूद्रो अजायत ॥६॥
विराड़ग्रे सममभवत् विराजो अधि पूरुष: ।
स जातो अत्यरिच्यत पश्चाद् भूमिमथो पुरः ॥७॥
यत् पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धवि: ॥८॥
तं यज्ञं प्रावृषा प्रौक्षन् पुरुषं जातमग्रशः ।
तेन देवा अजायन्त साध्या वसवश्च ये ॥९॥
तस्मादश्वा अजायन्त ये च के चोभयादतः ।
गावो ह जज्ञिरे तस्मात् तस्माज्जाता अजावयः ॥१०॥गाव
तस्माद् यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे ।
छन्दो ह जज्ञिरे तस्माद् यजुस्तस्मादजायत ॥११॥
तस्माद् यज्ञात् सर्वहुतः संभृतं पृषदाज्यम् ।
पशून् तांश्चक्रे वायव्यानारण्यान् ग्राम्याश्च ये ॥१२॥
सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृता: ।
देवा यद् यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ॥१३॥अवध्नन्
मूर्ध्नो देवस्य बृहतों ऽशव: सप्त सप्तती: । बृहतो
राज्ञः सोमस्याजायन्त जातस्य पुरुषादधि ॥१४॥
चन्द्रमा मनसो जातश्चक्षुः सूर्योऽजायत ।
श्रोत्राद् वायुश्च प्राणश्च मुखादग्निरजायत ॥१५॥
नाभ्यां आसीदन्तरिक्षं शीर्ष्णो द्यौः समवर्तत ।
पद्भ्यां भूमिर्दिशः श्रोत्राङ् तथा लोकाङ् अकल्पयन् ॥१६॥
(इति द्वादशार्चोनामनवमकाण्डे प्रथमो ऽनुवाकः)
N/A
References : N/A
Last Updated : May 12, 2021
TOP