संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|अष्टर्चोनाम पञ्चमकाण्डः| ३६ ते ४० अष्टर्चोनाम पञ्चमकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० पञ्चमकाण्डः - ३६ ते ४० पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ३६ ते ४० Translation - भाषांतर ३६ये वारुणा उत नैर्ऋता वनस्पतीनां वीरुधां च पाशा:।ये भौमा भूम्या अधि संबभूवुस्ते त्वा न हिंसाञ्छिवतातिरस्तु ते ॥१॥ये अन्तरिक्षे दिवि ये च पाशा अन्ने विचृता बहुधा सिनन्ति ।ये पशुभ्यो अधि संबभूवुस्ते त्वा न हिंसाञ्छिवतातिरस्तु ते ॥२॥यन्मानुषं मनुष्या: शपन्ते यां वां होत्रां पित्र्यामारभन्ते ।समाम्यो वरुणो यं जघान स त्वा न हिंसाञ्छिवतातिरस्तु ते ॥३॥अपः प्रगाद्यदि वा समामिषे अग्निमारेमिषे यदि वा समिद्धम् ।विद्वानविद्वाननृतं यदुवक्थ तत् त्वा न हिंसाञ्छिवतातिरस्तु ते ॥४॥यत् प्रतीच्यां दृषदपिष्टाङ् आमपेषाङ् आमपात्रे पपाथ।हीन: सत्येनानृतं यदुवक्थ तत् त्वा न हिंसाञ्छिवतातिरस्तु ते ॥५॥यं बाणवन्तं सुदिहं संभरन्ति यं वा हस्तं ब्राह्मणस्यारभन्ते ।समाम्यो वरुणो य आजगाम तस्यश्मशानादधि लोष्ट्र आभृतः स त्वा न हिंसाञ्छिवतातिरस्तु ते ॥६॥आमृतःयं ग्रावाणमारभन्ते येनासूनभिषुण्वन्ति सोमम् ।यद्वा धनं धनकामो निरेमिषे क्षेत्रं गामश्वं पुरुषं वो जिगायतत् त्वा न हिंसाञ्छिवतातिरस्तु ते ॥७॥अपः प्रगाद्यदि वा व्यामिषे अग्निमारेमिषे यदि वा समिद्धम् ।जाम्या हस्तं कृतमारेमिषे धनुर्वोत्ततमिति चक्रमिथ ।मन्युर्वो राज्ञो वरुणस्यासिसक्त स त्वा न हिंसाञ्छिवतातिरस्तु ते ॥८॥३७या ते प्रजापिहिता पुराभूद् योनिर्वा मुग्धा निहिता पिशाचै:।आस्नानं वा यदभितिष्ठाथ घोरं सर्व तत्ते ब्रह्मणा सूदयामि ॥१॥यद्यस्याः प्रजा वरुणेन गुष्पिता दुर्णामानो वार्त्वियमस्याहरन्ति ।द्वेषात् सपत्न्याद् यदि चकुरस्या अयं ता नाष्ट्रा अप हन्त्वग्निः ॥२॥अस्याः स्त्रिया यदि लक्ष्मीरपुत्र्या गर्भो वास्या यातुधानैः पराभृतः ।दुष्वप्न्यं वा यत् स्वपती ददर्शेन्द्राग्नी तत् कृणुतां भद्रया पुनः ॥३॥देवैनसाद् यदि पुत्रं न विन्दसे मनुष्याणां वा त्वा शपथोरराध ।पितृभिर्वा ते यदि सूतः परिष्ठित इदं तं निष्कृण्मो जनयासि पुत्रम् ॥४॥वैश्वानरो जन्मना जातवेदा: प्रजापतिः सिञ्चन्तु रेतो अस्याम् ।बाधतां द्वेषो निर्ऋतिं पराचैः पुत्रिणीमिमां प्रस्वं कृणोतु ॥५॥इह प्रजामग्निरस्यै दधात्वादित्येभिर्वसुभिः संविदानः ।विश्वे देवा हवमा यन्तु म इमं पुत्रो अस्यां जायतां वीर्यावान् ॥६॥येन देव्यदितिर्गर्भमादधे येन प्रजा असृजत प्रजापतिः ।तेनाहमस्यै हविषा जुहोमि यथा पुमांसं जनयाति पुत्रम् ॥७॥वन्वे ते पुत्रं परि देवताभ्यो अनु मन्यन्तां मरुतः पृश्निमातर: ।गर्भस्त्वा दशमास्यः प्र विशतु कुमारं जातं पिपृतामुपस्थे ॥८॥३८केश्यग्निं केशी विषं केशी बिभर्ति रोदसी ।केशी विश्वं स्वर्दृशे केशीदं ज्योतिरुच्यते ॥१॥मुनयो वातरशनाः पिशङ्गा वसते मलाः ।वातस्यानु ध्राजिं यन्ति यद् देवासो अयुक्षत ॥२॥उन्मदिता मौनेयेन वातां आ तस्थिमा वयम् । उनमदिताशरीरेदस्माकं यूयं मर्तासो अभि पश्यथ ॥३॥अन्तरिक्षेण पतति स्वर्भूतावचाकशत् ।मुनिर्देवस्यदेवस्य सौकृत्याय सखा हितः ॥४॥इन्द्रस्याश्वो वायोः सखाथो देवेषितो मुनिः ।उभा समुद्रावा क्षयति सद्यः पूर्वमुतापरम् ॥५॥गन्धर्वाणामप्सरसां देवानां चरणे चरन् ।मुनिः केतस्य संविद्वान् सखा स्वादुर्मदिन्तमः ॥६॥वायुरस्मा उपामन्थत् पिनष्टि स्मा कुनंनमा ।मुनिर्विषस्य पात्रेण यद्रुद्रेणापिबत् सह ॥७॥संयुक्ते द्यावापृथिवी तिष्ठन्ती अविचर्त्ये ।केशेनैकस्य देवस्य व्यष्टभ्नाच्छचीपतिः ॥८॥३९न तमंहो न दुरितं देवासो अष्ट मर्त्यम् ।सजोषसो यमर्यमा मित्रो नयन्ति वरुणो अति द्विषः ॥१॥तद्धि वयं वृणीमहे वरुण मित्रार्यमन्।यन्नो निरंहसो यूयं पाथ नेथा च मर्त्यमति द्विषः ॥२॥यत्रोते नूनं नो यूयमूतये वरुण मित्रार्यमन्।नयिष्ठा नो नेषिण स्थ पर्षिष्ठा: पर्षिणो अति द्विषः ॥३॥शुनमस्मभ्यमूतये वरुण मित्रार्यमन् ।शर्म यच्छाथ सप्रथ आदित्यासो यदीमहे अति द्विषः ॥४॥आदित्यासो अति सृधो वरुणो मित्रो अर्यमा ।रुद्रं मरुद्भिरुग्रं हुवेमेन्द्रमग्निं स्वस्तये अति द्विषः ॥५॥नेतार ऊ षु णस्तिरो वरुणो मित्रो अर्यमा ।अतिविश्वानि दुरिता राजानश्चर्षणीनामति द्विष: ॥६॥यूयं विश्वं परि पाथ वरुण मित्रार्यमन् ।युष्माकं शर्मणि प्रिया स्याम सुप्रणीतयोऽति द्विषः ॥७॥यथा ह त्यद्वसवो गौर्यं चित्यद्विषताममुञ्चता यजत्राः ।एवोष्वस्मन् मुञ्चता व्यंह: प्र तार्थग्ने प्रतरं न आयुः ॥८॥४०देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यांपूष्णो हस्ताभ्यां प्रसूतो ब्राह्मणेभ्यो निर्वपामि ।स मे मा क्षेष्ट सदमस्यमानः पितॄणां लोके ॥१॥अनुमतं पृथिव्येमं पचाम्यनु मे द्यौर्मन्वतामन्वन्तरिक्षम् ।अनुमन्यतामदितिर्देवपुत्रा इमे स्वर्गे लोके अस्तु ।!२॥ब्रह्मणोखामधि दधाम्यग्नौ भूम्यां त्वा भूमिमधि धारयामि ।अग्निः पचन् रक्षत्वोदनमिमंरक्षः पिशाचान् नुदतां जातवेदाः ॥३॥अच्युतमक्षितं विश्वदानीमुत्समिव सदमक्षीयमाणम् ।पिता पितामह उत यस्तृतीयस्त एनं भागमुप जीवन्त्वत्र ॥४॥प्रपीनमक्षितं विश्वदानीं सोममिव पुनराप्यायमानम् ।पुत्रः पौत्र उत यः प्रपौत्रस्तेषामस्तु निहितो भाग एष: ॥५॥मा ते जारीन् निहितो भाग एष मानुषन्मानुषद् गुप्तो अस्तु ।वैवस्वते नि दधे शेवधिमेतं तस्मोत् सृजतु मह्यमेव ॥६॥पुन: पूर्यतां यदहंत्वस्यौदनोऽयं तिष्ठत्वक्षितः सदा ।वैवस्वतेन गुप्तो अस्तु राज्ञा ममैतोरुप जीवन्त मे स्वाः ॥७॥शतधारं सहस्रधारमुत्समक्षितं व्यचमानं सलिलस्य पृष्ठे ।ऊर्जं दुहानमनपस्फुरन्तमुपासीय सुकृतां यत्र लोकः ॥८॥(इति अष्टर्चोनाम पञ्चमकाण्डे अष्टमो अनुवाकः)(इत्यथर्ववेद पैप्पलाद संहितायां अष्टर्चोनामपञ्चमकाण्ड:समाप्तः N/A References : N/A Last Updated : May 11, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP