सप्त सूर्या दिवमनुप्रविष्टास्तान् पथा वान्वेतु दक्षिणावान् ।
ते ऽस्मै सर्वे घृतमा तपन्त्यूर्जं दुहाना अनपस्फुरन्त: ॥१॥  
आतपन् क्षयति नीच्यादा सव्या अधि निष्टपन् ।
अधा यत् पत्त्रः सूर्य उदेति बृहतीरनु ॥२॥
आतप्ता पितॄन् विद्म दस्यू निष्टप्ता वयम् ।
गुहा ये ऽन्ये सूर्या: स्वधामनु चरन्ति ते ॥३॥
द्यौ: सचते ऽपराञ्जनास: पञ्चान्ये परो दिव आ क्षियन्ति ।
तां ब्रह्म वेदं बृहदा विवेश यस्तान् प्रवेद प्रथरमतर्यतः ॥४॥
यो ददाति यो ददते यो वा निधीञ् श्रद्दधानो निधत्ते ।
यमो वैवस्वतान् राजा सर्वान् रक्षत शेवधीन् ॥५॥
मा विदन् पर्यायिणो ये दक्षिणाः परिमुष्णन्ति दत्तम् ।
सुगेन तान् पथा सर्वान् यमो राजाति नेषत ॥६॥
येन पथा वैवस्वतो यमो राजेतो ययुः ।
अग्निर्नस्तेन नयतु प्रजानन् वैश्वानरः पथिकृत् विश्वगृष्टिः ॥७॥
महि ज्योतिर्निहितं मर्त्येषु येन देवासो अतरन्नराती।
तेनेमं सेतुमति गेष्म सर्वे वैश्वानरं ज्योतिरसीव देवा: ॥८॥
उद् वयं तमसस्परि ज्योतिष्पश्यन्त उत्तरम् ।
देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥९॥
आरोको भ्राजः पटरः पतङ्ग: स्वर्णरो ज्योतिषीमान् विभासः ।
तेऽस्मै सर्वे घृतमातपन्त्यूर्ज दुहाना अनपस्फुरन्त: ॥१०॥


समुत्पतन्तु प्रदिशो नभस्वतीः समभ्राणि वातजूतानि यन्तु ।  
महर्षभस्य नदतो नभस्वतो वाश्रा अपः पृथिवीं तर्पयन्तु ॥१॥
समीक्षयति विश्वग्वातो नभांस्यपां वेगास: पृथगुत् पतन्तु।
वर्षस्य सर्गामभि यन्तु भूमिं पृथग् जायन्तामोषधयो विश्वरूपाः ॥२॥
अभि क्रन्द स्तनयार्दयोदधिं भूमिंपर्जन्य पयसा समङ्धि । पर्यन्य
त्वया वर्षं बहुलमेतु सृष्टमाशारैषी कृशगुरेत्वस्तम् ॥३॥
उदीरयत मरुतः समुद्रतस्त्वेषार्का नभ उत् पातयन्तु ।
प्र वर्षन्ति तमिषाः सुदानवोऽपां रसैरोषधयः सचन्ताम् ॥४॥
गणास्त्वोप गायन्तु मारुताः पर्यन्य घोषिणः पृथक् ।
सर्गा वर्षस्य वर्षतः सृजन्तु पृथिवीमभि ॥५॥
समवन्तु सुदानव उत्सा अजगरा उत ।
वाता वर्षस्य वर्षतः प्र वान्तु पृथिवीमनु ॥६॥
वातो विद्युदभ्रं वर्षं समवन्तु सुदानवः।
प्र प्यायस्व प्र पिन्वस्व सं भूमिं पयसा सृज ॥७॥
अपामग्निस्तनूभिः संविदानो य ओषधीनामधिपा बभूव ।
स नो वर्ष वनुतां जातवेदाः प्राणं प्रजाभ्यो अमृतं दिवस्परि ॥८॥
आशामाशां वि द्योततां वाता वान्तु दिशो दिशः ।
मरुद्भिः प्रच्युता मेघा वर्षन्तु पृथिवीमभि ॥९॥
प्रजापति: सलिलादा समुद्रादाप ईरयन्नुदधिमर्दयाति।
प्र प्यायतां विष्णो अश्वस्य रेतो ऽर्वाङ् एतेन स्तनयित्नुनेह्यपो निषिञ्चन्नसुरः पिता न: ॥१०॥
स्वसन्तु गर्गरा अपामव नीचीरपः सृज ।
वदन्तु पृश्निबाहवो मण्डूका इरिणानु॥११॥
संवत्सरं शशयाना ब्राह्मणा व्रतचारिणः ।
वातं पर्यन्य जिन्वतां प्र मण्डूका अवादिषुः ॥१२॥
उपप्रवद मण्डूकि वर्षमा वद तादुरि ।
मध्ये हृदस्य प्लवस्व विगृह्य चतुरः पद: ॥१३॥
महान्तं कोशमुतचाभि षिञ्च सविद्युतं भवतु वातु वात: ।
तन्वतां यज्ञं बहुधा विसृष्टमानन्दिनीरोषधयो भवन्तु ॥१४॥


यावती द्यावापृथिवी वरिम्णा यावद्वा सप्त सिन्धवो वितष्टुः।  
वाचं विषस्य दूषणीं तामितो निरवादिषम् ॥१॥
सुपर्णस्त्वा गरुत्मान् विष प्रथममावयत् ।
नारोपयो नमादय उतास्मा अभवत् पितुः ॥२॥
यां त्वास्थत् पञ्चाङ्गुलिर्वक्रा चिदधि धन्वनः ।
अपस्कम्भस्य बाह्वोर्निरवोचमहं विषम् ॥३॥
शल्याद्विषं निरवोचमञ्जनात् पर्णधेरुत ।
अपाष्ठाच्छृङ्गात् कुर्मलान्निरवोचमहं विषम् ॥४॥
अरसस्त इषो शल्यो ऽथो ते ऽरसं विषम् ।
उतारसस्य वृक्षस्य धनुष्टे अरसारसम् ॥५॥
ये ऽपिशं ये ऽदिहं य आस्यं ये अवासृजन ।
सर्वे ते वध्रयः सन्तु वध्रिर्विषगिरिष्कृतः ॥६॥
वध्रयस्ते खनितारो वध्रिस्त्वमस्योषधे ।
वध्रिः स पर्वतो गिरिर्यतो जातमिदं विषम् ॥७॥
वारिदं वारयातै वरुणावत आभृतम्।
तत्रामृतस्यासिक्तं तच्चकारारसं विषम् ॥८॥


खादिरेण शललेनाथो कङ्कतदन्त्या ।
अथो विषस्य यद्विषं तेन पापीरनीनशम् ॥१॥
कित्या शतपर्वणा सहस्राक्षेण चर्मणा ।
तीक्ष्णाभिरभ्रिभिर्वयं निरजाम: सदान्वा: ॥२॥
सह: सह: सत्यसीत: कण्वा: परो ऽनुदत् ।
इमा या अधुना गता याश्चेह ग्रहणी: पुरा ॥३॥
नता इत्था नता इहावमासतोखेव शृङ्गवच्छिरः ।
सदान्वा ब्रह्मणस्पते तीक्ष्णशृङ्गोदृषन्निहि ॥४॥
वितेरुपन्था श्वश्रे बिभिदे ते ऽगदोहनी ।
दधौ ते अद्य गौः कण्वे परेह्यवरं मृणे ॥५॥
यास्तेङ्के तिष्ठन्ति या वलीके याः प्रेङ्खे प्रेङ्खयत उत या नु घोराः ।
या गर्भान् प्रमृशन्ति सर्वाः पापीरनीनशम् ॥६॥
याश्चेलं वसत उत या नु दूरशं नीलं पिशङ्गमुत लोहितं याः।
या गर्भान् प्रमृशन्ति सर्वाः पापीरनीनशम् ॥७॥
आखिदन्तीर्विखिदन्ती: प्राणमस्यापि नह्यत ।
दुर्णाम्नीः सर्वाः संगत्य ममुष्योच्छिषदकिंचन ॥८॥

१०
इयं या मुशलाहता दृषत्पिष्टा विषासुता ।
तपुरग्निस्तपुर्द्यौस्तपुत्वं सुरे भव ॥१॥
विषं ते तोक्म रोहयन्तो ऽब्रुवन् विषं कुम्भे ऽव स्रव ।
विषं त आमनसुरे विषं त्वं हस्त आहिता
विषं प्रतिहिता भव ॥२॥
सिंहस्ते अस्तु तण्डुलो व्याघ्र: पर्योदनम् ।
पृदाकूरस्तु नग्नहुर्वृकस्य हृदि सं स्रव ॥३॥
इयं या पात्र आसुता शस्य: स्रक्वा विघस्वती ।
वराहमन्युरजन्युत्तानपादमर्दय ॥४॥
उदर्दनी प्रच्यवनी पांसुपिङ्गा विघस्वरी ।
उत्खातमन्युरजनि यत् पश्चात्तत् पुरस्कृधि ॥५॥
विषं ते पवने सुरे रुधिरं स्थाने अस्तु ते ।
मथ्नं त्वन्यो अन्यस्मा इषुधींस्तद् धनुस्त्वत् ॥६॥
विषपावानो रुधिराश्चरन्ति पातारो मर्तास्तवसे सुर इमे।
हतासो अन्ये योधयन्त्यन्यास्तमिच्छंस महिमानं सुरायाः ॥७॥
तान् वीरुधो विस्रवो बलेनोत् पातय मादय योधनायै ।
भिन्नारत्निर्भिन्नशीर्ष्णा समृच्छतामार्तचेलो विस्रवं ते सुरापः ॥८॥
विषासुतां पिबत जर्हषाणा अस्ना संसृष्टां रुधिरेण मिश्राम् ।
छिन्नहस्तश्चरति ग्रामे अन्तर्वैरहत्यानि बहुधा पणायन् ॥९॥
असिमतीमिषुमतीमुन्नयामि सतादधि ।
मादयाभि मादया हि रवैनां प्र रोपयान्योऽन्यस्य मोच्छिषम् ॥१०॥
(इति अष्टर्चोनामपञ्चमकाण्डे द्वितीयोऽनुवाकः)

N/A

References : N/A
Last Updated : May 11, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP