पञ्चमकाण्डः - २६ ते ३०
पैप्पलादसंहिता
२६
अरात्या द्यावापृथिवी छिन्तं मूलमथो शिरः ।
विच्छिद्य मध्यत: पृष्टीस्तां कृण्वाथामधस्पदम् ॥१॥
इदं शृणु जातवेदो यदमुष्या वचो मम।
अरात्याः सर्वमिच्छिरः प्रश्नं वृहतमश्विना ॥२॥
या स्वप्नया चरति गौर्भूत्वा जनाङ् अनु।
अरातिमिन्द्र त्वं जहि तामग्निरिव सा दहात् ॥३॥
श्रेष्ठो मे राजा वरुणो हवं सत्येन गच्छतु॥
अरातिं हत्वा सन्तोकामुग्रो देवो ऽभि दासतु ॥४॥
देष्ट्री च या सिनीवाली सप्त च स्रोत्या या: ।
अरार्ति विश्वा भूतानि घ्नन्तु दासीमिवागसी ॥५॥
सोमो राजौषधीभिः सूर्याचन्द्रमसा उभा।
अरातिं सर्वे गन्धर्वा घ्नन्त्वप्सरसश्च याः ॥६॥
भवो राजा भवाशर्वाविन्द्रो वायुर्बृहस्पतिः ।
त्वष्टा मे अध्यक्ष: पूषा ते ऽरातिं घ्नन्तु सर्वदा ॥७॥
ये च देवा भूमिचरा ये चामी दिव्यासते।
ये अन्तरिक्षस्येशते ते ऽरातिं घ्नन्तु सव्रता ॥८॥
या चेषिता असुरैर्देवेभिरिषिता च या ।
अथो या मन्योर्जायते ऽरातिं हन्मि ब्रह्मणा ॥९॥
२७
तदिन्नु मे अचच्छदन् महद् यक्ष्मं बृहद् वपुः ।
विश्वं यद् देवी निर्ऋतिस्तना युजा मं मृत्योरिह जायते ॥१॥
अमम्रिश्चित् साप्रथोवददहिमहिराजन्तमोजसा।
आयं चित्रकुत्समतितिग्ममर्दयविनिकिल्बिन्दमोजसा ॥२॥
यावती द्यावापृथिवी वरिम्णा यावद् वा सप्त सिन्धवो महित्वा।
तावती निर्ऋतिर्विश्वारा विश्वस्य या जायमानस्य देव ॥३॥
विश्वस्य हि जायमानस्य देवि पुष्टस्य वा पुष्टिपतिर्बभूविथ।
नमस्तु ते निर्ऋते मा त्वमस्मान् परा भुजो नापरं हातयासि ॥४॥
देवीमहं निर्ऋतिं मन्यमानः पितेव पुत्रं न सचे वचोभिः ।
विश्वस्य या जायमानस्य देव शिरः शिरः प्रति सूरो नु तस्थे ॥५॥
असुन्वन्तमयजमानमिच्छ स्तेनस्येत्यां तस्करस्यानु शिक्ष।
स्वपन्तमिच्छ सा त इत्या नमस्तु ते निर्ऋते ऽहं कृणोमि ॥६॥
असुन्वका निर्ऋतिः संजिघत्सुर्नास्या: पिता विद्यते नोत माता ।
मथ्यात् सस्रामनु जिघान सर्वं न देवानामसूर्यं समाप ॥७॥
यदस्य पारे तमसः शुक्रं ज्योतिरजायत।
तन्नः पर्षदति द्विषोऽग्ने वैश्वानर द्युमत् ॥८॥
२८
प्रमुच्यमानो भुवनस्य गोप पशुं नो अत्र प्रति भागमेतु ।
अग्निर्यज्ञं त्रिवृतं सप्ततन्तुं देवो देवेभ्यो हव्यं वहतु प्रजानन् ॥१॥
यौ ते दंष्ट्रौ सुदिहौ रोपयिष्णू निरुह्ययेते दक्षिणाः सं च पश्यत: ।
अनाष्ट्रं नः पितरस्तत् कृणोतु यूपे बद्धं प्रमुमुच्यमायदन्नम् ॥२॥
अग्निस्तस्त्वमविदुष्टः परेहीन्द्रस्य गोष्ठमपि धाव विद्वान्।
धीरासस्त्वा कवयः सं मृजन्त्विषमूर्जं यजमानायमस्त्वत् ॥३॥
ऋषिभ्यस्त्वा सप्तभिरत्रिणाहं प्रति गृह्णामि हव मे स्योनम् ।
जमदग्नि: कश्यपः स्वाद्वेतद् भरद्वाजो मध्वन्नं कृणोतु ।
प्रतिग्रहीत्रे गोतमो वसिष्ठो विश्वामित्रो ददुषे शर्म यच्छात् ॥४॥
यन्नो अग्रं हविष आजगामान्नस्य पुत्रमुत सर्पिषो वा ।
यद्वा धनं वहतोराजगामाग्निष्टद्धोता सुहुतं कृणोतु ॥५॥
यदाज्यं प्रतिजग्रभ यांश्च व्रीहीनजं चन्द्रेण सह सज्जघास ।
बृहस्पतिर्हविषो नो विधर्ता मा नो हिंसीच्छागो अश्वो वशा च ॥६॥
अग्निर्न एतत् प्रति गृह्णातु विद्वान् बृहस्पति: प्रत्येतु प्रजानन्॥
इन्द्रो मरुत्वान् सुहुतं कृणोत्वयक्ष्ममनमीवं ते अस्तु ॥७॥
यन्नो ददुर्वराहमक्षितं वसु यद्वा तल्पमुपथानेन न: सह ।
यद्वाभियूथं सह वृष्ण्या नो अग्निष्टद्धोता सुहुतं कृणोतु ॥८॥
यन्न: शालां विश्वभोगामिमां ददुर्गृहं वा युक्तं सह कृत्योत ।
यद्वाहर उपनाहेन देवा अग्निष्टद्धोता सुहुतं कृणोतु ॥९॥
२९
सूर्ये वर्च इति यच्छुश्रवाहं येन प्रजा ज्योतिरग्राश्चरन्ति ।
सोमे वर्चो यद् गोषु वर्चो मयि देवा राष्ट्रभृतस्तदक्रन् ॥१॥
यज्ञे वर्चो मरुतो यददृहन् वायुः पशून् सृजत् सं भगेन ।
गन्धर्वाणामप्सरसां यदप्सु मयि देवा राष्ट्रभृतस्तदक्रन् ॥२॥
यज्ञे वर्चो यजमाने च वर्च उदाभिषिक्ते राजनि यच्च वर्चः ।
दक्षिणायां वर्चो अधि यन् मयि देवा राष्ट्रभृतस्तदक्रन् ॥३॥
रथे वर्चो रथवाहने च वर्च इषुधौ वर्चः कवचे च वर्चः ।
अश्वेषु वर्चो अधि यन् मयि देवा राष्ट्रभृतस्तदक्रन् ॥४॥
सभायां वर्चः समित्यां च वर्चो वध्वां वर्च उत वर्चो वरेषु ।
सुरायां वर्चो अधि यन् मयि देवा राष्ट्रभृतस्तदक्रन् ॥५॥
सिंहे वर्च उत वर्चो व्याघ्रे वृके वर्चो मधुहारे च वर्चः ।
श्येने वर्चः पत्वनां यद्बभूव मयि देवा राष्ट्रभृतस्तदक्रन् ॥६॥
हिरण्यवर्चसमुत हस्तिवर्चसं संग्रामं यज्जज्ञिषां वर्च आहु: !
कृष्यां क्षेत्रर्षयो जन्यानजुर्मयि देवा राष्टभृतस्तदक्रन् ॥७॥
मयि वर्चो मयि श्रवो मयि द्युम्नं मयि त्विषिः।
अधस्पदं पृतन्यवोऽहं भूयासमुत्तम: ॥८॥
३०
पयस्वतीरोषधयः पयस्वन् मामकं वचः।
अथो पयस्वतां पय आ हरामि सहस्रशः ॥१॥
अहं वेद यथा पयश्चकार धान्यं बहु ।
संभृत्या नाम यो देवस्तं वयं यजामहे सर्वस्यायज्वनो गृहे ॥२॥
यथा द्यौश्च पृथिवी च तस्थतुर्धरुणाय कम्।
एवा स्फातिं नि तनोमि मयारेषु खलेषु च ॥३॥
यथा कूपः शतधार: सहस्रधारो अक्षितः ।
यथेह स्फातिरायति कृतस्य कार्यस्य च ॥५॥
इमा याः पञ्च प्रदिशो मानवीः पञ्च कृष्टय: !
सर्वाः शंभूर्मयोभुवो वृष्टे शापं नदीरिवेह स्फातिं समावहान् ॥६॥
इह स्फातिरोषधीनां देवानामुत संगमः ।
इहैवाश्विनोरस्तु द्वापराश्वो रुहत् ॥७॥
तिस्रो मात्रा गन्धर्वाणां चतस्रो गृहपत्नयः ।
तासां या स्फातिमत्तमा तया त्वाभि मृशामसि ॥८॥
ज्येष्ठस्य त्वाङ्गिरसस्य हस्ताभ्यामा रभामहे ।
यथासद् बहुधान्यमयक्ष्मं बहुपूरुषम् ॥९॥
(इति अष्टर्चोनाम पञ्चमकाण्डे षष्ठोऽनुवाकः)
N/A
References : N/A
Last Updated : May 11, 2021
TOP