पञ्चमकाण्डः - १६ ते २०
पैप्पलादसंहिता
१६
द्यौश्चेमं यज्ञं पृथिवी च सं दुहातां मातरिश्वा पवमानः पुरस्तात्।
त्वष्टा वायुः सह सोमेन वात इमं सं दुह्रामनपस्फुरन्तः ॥१॥
घर्मं तपाम्यमृतस्य धारया देवेभ्यो हव्यं परिधे सवित्रे । धर्मं
शुक्रं देवाः शृतमदन्तु हव्यमासंजुह्वानाममृतस्य योनौ ॥२॥
उद्वासयाग्ने शृतमकर्म हव्यमा रोह पृष्ठममृतस्य धाम।
वनस्पतय उप बर्हि स्तृणीत मध्वा समन्तं घृतवत् कराथ ॥३॥
यो ऽप्सु यक्ष्मः शमयामि तं व ऊर्जा गव्यूतिं समनज्म्येताम्।
स्तन्यं क्षीरमविषं वः कृणोम्यशुन्धयन्तो ऽपि यूथमेत ॥४॥
इडानां पुत्रा उत मित्रियाणां पयो धयन्त्यहृणीयमानाः ।
ऋतुभिः सस्यमुत कलृप्तमस्त्विर्यो गोपा रक्षतु वायुरेनाः ॥५॥
पिबत घृतं यतिधा व एतद् गुहा हितं निहितं मानवेषु ।
विश्वे देवा वैश्वदेवश्चाग्नौ यथाभागं हविषो मादयध्वम् ॥६॥
यो देवानामसि श्रेष्ठो रुद्रस्तन्तिचरो वृषा।
अरिष्टा अस्माकं वीरा एतदस्तु हुतं तव ॥७॥
पूर्णमहं करीषिणं शतवन्तं सहस्रिणम् ।
विश्वेभिरग्ने देवैरिमं गोष्ठं सहारुहम् ॥८॥
१७
देवैनसादुन्मदितं क्षेत्रियाच्छपथादुत।
मुञ्चन्तु तस्मात् त्वा देवा उन्मत्तं रक्षसस्परि ॥१॥
मुनिं भवन्तं परि यानि वावृतू रक्षांस्यग्न उलुला करिक्रतु।
अतस्त्वं नो अधि पाहि वाजिन्निन्द्रेण मेदी बृहते रणाय ॥२॥
यथाग्रे देवा ऋभवो मनीषिणो मुनिमुन्मत्तमसृजन्निरेनसः।
एवा ते शक्रो अभयं कृणोतु मुच्यस्वैनसोऽभि नयामि रक्षः ॥३॥
यथा गावश्च भूम्यां पुरुषश्च न्योकस: ।
एवोन्मत्तस्य ते मुने गृह्णातु पृथिवी मन: ॥४॥
मुनिं दाधार पृथिवी मुनिं द्यौरभि रक्षति।
मुनिं हि विश्वा भूतानि मुनिमिन्द्रो अदीधरत् परा रक्षः सुवामि ते ॥५॥
इमं मे अग्ने पुरुषं मुमुग्धि य आवित्तो ग्राह्या लालपीति।
अतोदि ते कृणवद् भागधेयमुमुन्मदितो अगदो यथासत् ॥६॥
अग्निष्टे नि शमयतु यत्त एतन् मन उह्यते।
जुहोमि विद्वांस्ते हविर्यथानुन्मदितो भुवः ॥७॥
पुनस्त्वा दुरप्सरसः पुनर्वात: पुनर्दिश: ।
पुनर्यम: पुनर्यमस्य दूतास्ते त्वा मुञ्चन्त्वंहसः ।
जीवातवे न मर्तवे ऽथो अरिष्टतातये ॥८॥
१८
उत देवा अवहितं देवा उद्धरथा पुन:।
उतो मरिष्यन्तं देवा दैवा कृष्णुथ जीवसे ॥१॥
आ त्वागमं शान्तातिभिरथो अरिष्टतातिभिः ।
दक्षं ते भद्रमाहार्षं परा सुवाम्यामयत् ॥२॥
द्वाविमौ वातौ वात आ सिन्धोरा परावत: ।
दक्षं ते अन्य आ वातु परान्यो वातु यद्रप: ॥३॥
आ वात वाहि भेषजं वि वात वाहि यद्रपः।
त्वं हि विश्वभेषजो देवानां दूत ईयसे ॥४॥
त्रायन्तामिमं देवास्त्रायन्तां मरुतो गणैः ।
त्रायन्तां विश्वा भूतानि यथायमगदो ऽसति ॥५॥
घृतेन द्यावापृथिवी घृतेनापः समुक्षत।
घृतेन मुच्यस्वैनसो यदात्मकृतमारिथ ॥६॥
अयं मे हस्तो भगवानयं मे भगवत्तर: ।
अयं मे विश्वभेषजोऽयं शिवाभिमर्शन: ॥७॥
हस्ताभ्यां दशशाखाभ्यां जिह्वा वाच: पुरोगवी।
अनामयित्नुभ्यां शंभुभ्यां ताभ्यां त्वाभि मृशामसि ॥८॥
आप इद्वा उ भेषजीरापो अमिवचातनीः ।
अपो विश्वस्य भेषजीस्तास्ते कृण्वन्तु भेषजम् ॥९॥
१९
सहृदयं सामनस्यमविद्वेषं कृणोमि वः ।
अन्यो अन्यमविहृण्यत वत्सं जातमिवाघ्न्या ॥१॥
अनुव्रतः पितुः पुत्रो मात्रा भवतु सर्वतः ।
जाया पत्ये मधुमतीं वाचं वदतु शान्तिवाम् ॥२॥
मा भ्राता भ्रातरं द्विक्षन् मा स्वसारमुत स्वसा ।
सम्यञ्चः सव्रता भूत्वा वाचं वदतु भद्रया ॥३॥
येन देवा न वियन्ति नो च विद्विषते मिथः ।
तत् कृण्मो ब्रह्म वो गृहे संज्ञानं पुरुषेभ्यः ॥४॥
ज्यायस्वन्तश्चित्तिनो मा वि यौष्टं संराधयन्तः सधुराश्चरन्त: ।
अन्यो अन्यस्मै वल्गु वदन्त एत समग्रा स्थ सध्रीचीनाः ॥५॥
समानी प्रपा सहवो ऽन्नभाग: समाने योक्त्रे सह वो जुनज्मि ।
सम्यञ्चो ऽग्निं सपर्यतारा नाभिमिवाभितः ॥६॥
येन देवा हविषा यजत्राप मा त्वा न प्मानमघ्नत ।
क्रोधं मन्युममृतं भामं दुरुक्तमभिशोचनमारे यक्ष्मं नि दध्मसि ॥७॥
सध्रीचीनान् वः संनमसः कृणोम्येकश्नुष्टीन् संवननेन संहृदः ।
देवा इवेदमृतं रक्षमाणा: सायंप्रात: सुसमितिर्वो अस्तु ॥८॥
२०
परो ऽपेहि परश्चर परस्तर्द परस्तरम्।
अग्नेर्वातस्य ध्राज्या अप बाधे अहं त्वाम् ॥१॥
उदकस्येदमयनं वातस्येदं निभञ्जनम्।
अग्नेर्धूमस्यायं पन्था नेह तर्दायनं तव ॥२॥
परि त्वा कृष्णवर्तनिरग्निर्धूमेनार्चिषा।
स त्वं तर्द परश्चरान्यतर्द्धि तृणं यवात् ॥३॥
ये तर्दा असुरेषिता देवेभिरिषिताश्च ये।
सर्वांस्तान् ब्रह्मणा वयं शलभाञ्जम्भयामसि ॥४॥
शलभस्य शलभ्यास्तर्दस्योत्पतत्त्रिणः ।
अग्नेर्वातस्य ध्राज्यापि नह्याम आस्यम् ॥५॥
इदं यद् गवि भेषजं विश्वाद् रूपात् समाभृतम्।
आखोर्घुणस्य तर्दस्य तेषां स्नाव्नापि नह्यत ॥६॥
दृष्टा त्वमसि गन्धेनौषधिर्घुणजम्भनी।
आखोर्घुणस्य जातानि तानि जम्भय तेजसा ॥७॥
तूलं तर्दस्तृणस्यात्तु मूलमाखुर्धियेषितः ।
अथो वृक्षस्य फल्गु यद् घुणा अदन्तु मा यवम् ॥८॥
(ङ्गति अष्टर्चोनामपञ्चमकाण्डे चतुर्थो अनुवाकः)
N/A
References : N/A
Last Updated : May 11, 2021
TOP