संस्कृत सूची|संस्कृत साहित्य|उपनिषद|योगशिक्षोपनिषद्| पञ्चमोऽध्यायः योगशिक्षोपनिषद् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः योगशिक्षोपनिषद् - पञ्चमोऽध्यायः उपनिषद् हिन्दू धर्माचे महत्त्वपूर्ण श्रुति धर्मग्रन्थ आहेत.Upanishad are highly philosophical and metaphysical part of Vedas. Tags : upanishadvedउपनिषद्वेद पञ्चमोऽध्यायः Translation - भाषांतर पुनर्योगं प्रवक्ष्यामि गुह्यं ब्रह्मस्वरूपकम् ।समाहितमनाअ भूत्वा शृणु ब्रह्मन्यथाक्रमम् ॥१॥दशद्वारपुरं देहं दशनाडीमहापथम् ।दशभिर्वायुभिर्व्याप्तं दशेन्द्रियपरिच्च्हदम् ॥२॥षडाधारापवरकं षडन्वयमहावनम् ।चतुःपीठसमाकीर्णं चतुराम्नायदीपकम् ॥३॥बिन्दुनादमहालिङ्गविष्णुलक्ष्मीनिकेतनम् ।देहं विष्ण्वालयं प्रोक्तं सिद्धिदं सर्वदेहिनाम् ॥४॥गुदमेढ्रान्तरालस्थं मूलाधारं त्रिकोणकम् ।शिवस्य जीवरूपस्य स्थानं तद्धि प्रचक्षते ॥५॥यत्र कुण्डलिनी नाम परा शक्तिः प्रतिष्ठिता ।यस्मादुत्पद्यते वायुर्यस्माद्वह्निः प्रवर्तते ॥६॥यस्मादुत्पद्यते बिन्दुर्यस्मान्नादः प्रवर्तते ।यस्मादुत्पद्यते हंसो यस्मादुत्पद्यते मनः ॥७॥तदेतत्कामरूपाख्यं पीठं कामफलप्रदम् ।स्वाधिष्ठानह्वयं चक्रं लिङ्गमूले षडस्रकम् ॥८॥नाभिदेशे स्थितं चक्रं दशास्रं मणिपूरकम् ।द्वादशारं महाचक्रं हृदये चाप्यनाहतम् ॥९॥तदेतत्पूर्णगिर्याख्यं पीठं कमलसंभव ।कण्ठकूपे विशुद्धाख्यं यच्चक्रं षोडशास्रकम् ॥१०॥पीठं जालन्धरं नाम तिष्ठत्यत्र चतुर्मुख ।आज्ञा नाम भ्रुवोर्मध्ये द्विदलं चक्रमुत्तमम् ॥११॥उड्यानाख्यं महापीठमुपरिष्टात्प्रतिष्ठितम् ।स्थानान्येतानि देहेऽस्मिञ्च्हक्तिरूपं प्रकाशते ॥१२॥चतुरस्रधरण्यादौ ब्रह्मा तत्राधिदेवता ।अर्धचन्द्राकृति जलं विष्णुस्तस्याधिदेवता ॥१३॥त्रिकोणमण्डलं वह्नी रुद्रस्तस्याधिदेवता ।वायोर्बिंबं तु षट्कोणं संकर्षोऽत्राधिदेवता ॥१४॥आकाशमण्डलं वृत्तं श्रीमन्नारायणोऽत्राधिदेवता ।नादरूपं भ्रुवोर्मध्ये मनसो मण्डलं विदुः ॥१५॥शांभवस्थानमेतत्ते वर्णितं पद्मसंभव ।अतः परं प्रवक्ष्यामि नाडीचक्रस्य निर्णयम् ॥१६॥मूलाधारत्रिकोणस्था सुषुम्ना द्वादशाङ्गुला ।मूलार्धच्च्हिन्नवंशाभा ब्रह्मनाडीति सा स्मृता ॥१७॥इडा च पिङ्गला चैव तस्याः पार्श्वद्वये गते ।विलंबिन्यामनुस्यूते नासिकान्तमुपागते ॥१८॥इडायां हेमरूपेण वायुर्वामेन गच्च्हति ।पिङ्गलायां तु सूर्यात्मा याति दक्षिणपार्श्वतः ॥१९॥विलंबिनीति या नाडी व्यक्ता नाभौ प्रतिष्ठिता ।तत्र नाड्यः समुत्पन्नस्तिर्यगूर्ध्वमधोमुखाः ॥२०॥तन्नाभिचक्रमित्युक्तं कुक्कुटाण्डमिव स्थितम् ।गान्धारी हस्तिजिह्वा च तस्मान्नेत्रद्वयं गते ॥२१॥पूषा चालम्बुसा चैव श्रोत्रद्वयमुपागते ।शूरा नाम महानाडी तस्माद्भ्रूमध्यमाश्रिता ॥२२॥विश्वोदरी तु या नाडी सा भुङ्क्तेऽन्नं चतुर्विधम् ।सरस्वती तु या नाडी सा जिह्वान्तं प्रसर्पति ॥२३॥राकाह्वया तु या नाडी पीत्वा च सलिलं क्षणात् ।क्षुतमुत्पादयेद् घ्राणे श्लेष्माणं संचिनोति च ॥२४॥कण्ठकूपोद्भवा नाडी शङ्खिनाख्या त्वधोमुखी ।अन्नसारं समादाय मूर्ध्नि संचिनुते सदा ॥२५॥नाभेरधोगतास्तिस्रो जाडयः स्युरधोमुखः ।मलं त्यजेत्कुहूर्नाडी मूत्रं मुञ्चति वारुणी ॥२६॥चित्राख्या सीविनि नाडी शुक्लमोचनकारणी ।नाडीचक्रमिति प्रोक्तं बिन्दुरूपमतः शृणु ॥२७॥स्थूलं सूक्ष्मं परं चेति त्रिविधं ब्रह्मणो वपुः ।स्थूलं शुक्लात्मकं बिन्दुः सूक्ष्मं पञ्चाग्निरूपकम् ॥२८॥सोमात्मकः परः प्रोक्तः सदा साक्षी सदाच्युतः ।पातालानामधोभागे कालाग्निर्यः प्रतिष्ठितः ॥२९॥समूलाग्निः शरीरेऽग्निर्यस्मान्नादः प्रजायते ।वडवाग्निः शरीरस्थो ह्यस्थिमध्ये प्रवर्तते ॥३०॥काष्ठपाषाणयोर्वह्निर्ह्यस्थिमध्ये प्रवर्तते ।काष्ठपाषणजो वह्निः पार्थिवो ग्रहणीगतः॥ ३१॥अन्तरिक्षगतो वह्निर्वैद्युतः स्वान्तरात्मकः ।नभस्थः सूर्यरूपोऽग्निर्नाभिमण्डलमाश्रितः ॥३२॥विषं वर्षति सूर्योऽसौ स्रवत्यमृतमुन्मुखः ।तालुमूले स्थितश्चन्द्रः सुधां वर्षत्यधोमुखः ॥३३॥भ्रूमध्यनिलयो बिन्दुः शुद्धस्फटिकसंनिभः ।महाविष्णोश्च देवस्य तत्सूक्ष्मं रूपमुच्यते ॥३४॥एतत्पञ्चाग्निरूपं यो भावयेद्बुद्धिमान्धिया ।तेन भुक्तं च पीतं च हुतमेव न संशयः ॥३५॥सुखसंसेवितं स्वप्नं सुजीर्णमितभोजनम।ज् ।शरीरशुद्धिं कृत्वादौ सुखमासनमास्थितः ॥३६॥प्राणस्य शोधयेन्मार्गं रेचपूरककुम्भकैः ।गुदमाकुञ्च्य यत्नेन मूलशक्तिं प्रपूजयेत् ॥३७॥नाभौ लिङ्गस्य मध्ये तु उड्यानाख्यं च बन्धयेत् ।उड्डीय याति तेनैव शक्तितोड्यानपीठकम् ॥३८॥कण्ठं सङ्कोचयेत्किंचिद्बन्धो जालन्धरि ह्ययम् ।बन्धयेत्खेचरि मुद्रां दृढचित्तः समाहितः ॥३९॥कपालविवरे जिह्वा प्रविष्टा विपरीतगा ।भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी ॥४०॥खेचर्या मुद्रितं येन विवरं लम्बिकोर्ध्वतः ।न पीयूषं पतत्यग्नौ न च वायुः प्रधावति ॥४१॥न क्षुधा न तृषा निद्रा नैवालस्यं प्रजायते ।न च मृत्युर्भवेत्तस्य यो मुद्रां वेत्ति खेचरीम् ॥४२॥ततः पूर्वापरे व्योम्नि द्वादशान्तेऽच्युतात्मके ।उड्ड्यानपीठे निर्द्वन्द्वे निरालम्बे निरञ्जने ॥४३॥ततः पङ्कजमध्यस्थं चन्द्रमण्डलमध्यगम् ।नारायणमनुध्यायेत्स्रवतममृतं सदा ॥४४॥भिद्यते हृदयग्रन्थिश्च्हिद्यन्ते सर्वसंशयाः ।क्षीयन्ते चास्य कर्माणि तस्मिद्नृष्टे परावरे ॥४५॥अथ सिद्धिं प्रवक्ष्यामि सुखोपायं सुरेश्वर ।जितेन्द्रियाणां शान्तानां जितश्वासविचेतसाम् ॥४६॥नादे मनोलयं ब्रह्मन्दूरश्रवणकारणम् ।बिन्दौ मनोलयं कृत्वा दूरदर्शनमाप्नुयात् ॥४७॥कालात्मनि मनो लीनं त्रिकालज्ञानकारणम् ।परकायमनोयोगः परकायप्रवेशकृत् ॥४८॥अमृतं चिन्तयेन्मूर्ध्नि क्षुत्तृषाविषशान्तये ।पृथिव्यां धारयेच्चित्तं पातालगमनं भवेत् ॥४९॥सलिले धारयेच्चित्तं नाम्भसा परिभूयते ।अग्नौ सन्धारयेच्चित्तमग्निना दह्यते न सः ॥५०॥वायौ मनोलयं कुर्यादाकाशगमनं भवेत् ।आकाशे धारयेच्चित्तमणिमादिकमाप्नुयात् ॥५१॥विराड्रूपे मनो युञ्जन्महिमानमवाप्नुयात् ।चतुर्मुखे मनो युञ्जञ्जगत्सृष्टिकरो भवेत् ॥५२॥इन्द्ररूपिणमात्मानं भावयन्मर्त्यभोगवान् ।विष्णुरूपे महायोगी पालयेदखिलं जगत् ॥५३॥रुद्ररूपे महायोगी संहरत्येव तेजसा ।नारायणे मनो युञ्जन्सर्वसिद्धिमवाप्नुयात् ॥५४॥यथा संकल्पयेद्योगी योगयुक्तो जितेन्द्रियः ।तथा तत्तदवाप्नोति भाव एवात्र कारणम् ॥५५॥गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवः सदाच्युतः ।न गुरोरधिकः कश्चित्त्रिषु लोकेषु विद्यते ॥५६॥दिव्यज्ञानोपदेष्टारं देशिकं परमेश्वरम् ।पूजयेत्परया भक्त्या तस्य ज्ञानफलं भवेत् ॥५७॥यथा गुरुस्तथैवेशो यथैवेशोस्तथा गुरुः ।पूजनीयो महाभक्त्या न भेदो विद्यतेऽनयोः ॥५८॥नाद्वैतवादं कुर्वीत गुरुणा सह कुत्रचित् ।अद्वैतं भावयेद्भक्त्या गुरोर्देवस्य चात्मनः ॥५९॥योगशिखां महागुह्यं यो जानाति महामतिः ।न तस्य किंचिदज्ञातं त्रिषु लोकेषु विद्यते ॥६०॥न पुण्यपापे नास्वस्थो न दुःखं न पराजयः ।न चास्ति पुनरावृत्तिरस्मिन्संसारमण्डले ॥६१॥सिद्धौ चित्तं न कुर्वीत चञ्चलत्वेन चेतसः ।तथा विज्ञाततत्त्वोऽसौ मुक्त एव न संशयः ॥६२॥इत्युपनिषत् इति पञ्चमोऽध्यायः ॥५॥ N/A References : N/A Last Updated : March 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP