संस्कृत सूची|संस्कृत स्तोत्र साहित्य|उपनिषद|योगशिक्षोपनिषद्| प्रथमोऽध्यायः योगशिक्षोपनिषद् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः योगशिक्षोपनिषद् - प्रथमोऽध्यायः उपनिषद् हिन्दू धर्माचे महत्त्वपूर्ण श्रुति धर्मग्रन्थ आहेत.Upanishad are highly philosophical and metaphysical part of Vedas. Tags : upanishadvedउपनिषद्वेद प्रथमोऽध्यायः Translation - भाषांतर योगज्ञाने यत्पदाप्तिसाधनत्वेन विश्रुते ।तत्रैपदं ब्रह्मतत्त्वं स्वमात्रमवशिष्यते ॥ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै ।तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ॐ शान्तिः शान्तिः शान्तिः ॥==सर्वे जीवाः सुखैर्दुःखैर्मायाजालेन वेष्टिताः ।तेषां मुक्तिः कथं देव कृपया वद शङ्कर ॥१॥सर्वसिद्धिकरं मार्गं मायाजालनिकृन्तनम् ।जन्ममृत्युजराव्याधिनाशनं सुखदं वद ॥२॥इति हिरण्यगर्भः पप्रच्च्ह स होवाच महेश्वरः ।नानामार्गैस्तु दुष्प्रापं कैवल्यं परमं पदम् ॥३॥सिद्धिमार्गेण लभते नान्यथा पद्मसंभव ।पतिताः शास्त्रजालेषु प्रज्ञया तेन मोहिताः ॥४॥स्वात्मप्रकाशरूपं तत्किं शास्त्रेण प्रकाश्यते ।निष्कलं निर्मलं शान्तं सर्वातीतं निरामयम् ॥५॥तदेव जीवरूपेण पुण्यपापफलैर्वृतम् ।परमात्मपदं नित्यं तत्कथं जीवतां गतम् ॥६॥तत्त्वातीतं महादेव प्रसादात्कथयेश्वर ।सर्वभावपदातीतं ज्ञानरूपं निरञ्जनम् ॥७॥वायुवत्स्फुरितं स्वस्मिंस्तत्राहंकृतिरुत्थिता ।पञ्चात्मकमभूत्पिण्डं धातुबद्धं गुणात्मकम् ॥८॥सुखदुःखैः समायुक्तं जीवभावनया कुरु ।तेन जीवामिधा प्रोक्ता विशुद्धे परमात्मनि ॥९॥कामक्रोधभयं चापि मोहलोभमथो रजः ।जन्म मृत्युश्च कार्पण्यं शोकस्तन्द्रा क्षुधा तृषा ॥१०॥तृष्णा लज्जा भयं दुःखं विषादो हर्ष एव च ।एभिर्दोषैर्विनिर्मुक्तः स जीवः शिव उच्यते ॥११॥तस्माद्दोषविनाशार्थमुपायं कथयामि ते ।ज्ञानं केचिद्वदन्त्यत्र केवलं तन्न सिद्धये ॥१२॥योगहीनं कथं ज्ञानं मोक्षदं भवतीह भोः ।योगोऽपि ज्ञानहीनस्तु न क्षमो मोक्षकर्मणि ॥१३॥तस्माज्ज्ञानं च योगं च मुमुक्षुर्दृढमभ्यसेत् ।ज्ञानस्वरूपमेवादौ ज्ञेयं ज्ञानैकसाधनम् ॥१४॥अज्ञानं कीदृशं चेति प्रविचार्यं मुमुक्षुणा ।ज्ञातं येन निजं रूपं कैवल्यं परमं पदम् ॥१५॥असौ दोषैर्विनिर्मुक्तः कामक्रोधभयादिभिः ।सर्वदोषैर्वृतो जीवः कथं ज्ञानेन मुच्यते ॥१६॥स्वात्मरूपं यथा ज्ञानं पूर्णं तद्व्यापकं तथा ।कामक्रोधादिदोषाणां स्वरूपान्नास्ति भिन्नता ॥१७॥पश्चात्तस्य विधिः किंनु निषेधोऽपि कथं भवेत् ।विवेकी सर्वदा मुक्तः संसारभ्रमवर्जितः ॥१८॥परिपूर्णं स्वरूपं तत्सत्यं कमलसंभव ।सकलं निष्कलं चैव पूर्णत्वाच्च तदेव हि ॥१९॥कलिना स्फूर्तिरूपेण संसारभ्रमतां गतम् ।निष्कलं निर्मलं साक्षात्सकलं गगनोपमम् ॥२०॥उत्पत्तिस्थितिसंहारस्फूर्तिज्ञानविवर्जितम् ।एतद्रूपं समायातः स कथं मोहसागरे ॥२१॥निमज्जति महाबाहो त्यक्त्वा विद्यां पुनः पुनः ।सुखदुःखादिमोहेषु यथा संसारिणां स्थितिः ॥२२॥तथा ज्ञानी यदा तिष्ठेद्वासनावासितस्तदा ।तयोर्नास्ति विशेषोऽत्र समा संसारभावना ॥२३॥ज्ञानं चेदीदृशं ज्ञातमज्ञानं कीदृशं पुनः ।ज्ञाननिष्ठो विरक्तोऽपि धर्मज्ञो विजितेन्द्रियः ॥२४॥विना देहेन योगेन न मोक्षं लभते विधे ।अपक्वाः परिपक्वाश्च देहिनो द्विविधाः स्मृताः ॥२५॥अपक्वा योगहीनास्तु पक्वा योगेन देहिनः ।सर्वो योगाग्निना देहो ह्यजडः शोकवर्जितः ॥२६॥जडस्तु पार्थिवो ज्ञेयो ह्यपक्वो दुःखदो भवेत् ।ध्यानस्थोऽसौ तथाप्येवमिन्द्रियैर्विवशो भवेत् ॥२७॥तानि गाढं नियम्यापि तथाप्यन्यैः प्रबाध्यते ।शीतोष्णसुखदुःखाद्यैर्व्याधिभिर्मानसैस्तथा ॥२८॥अन्यैर्नानाविधैर्जीवैः शस्त्राग्निजलमारुतैः ।शरीरं पीड्यते तैस्तैश्चित्तं संक्षुभ्यते ततः ॥२९॥तथा प्राणविपत्तौ तु क्षोभमायाति मारुतः ।ततो दुःखशतैर्व्यापतं चित्तं क्षुब्धं भवेन्नृणाम् ॥३०॥देहावसानसमये चित्ते यद्यद्विभावयेत् ।तत्तदेव भवेज्जीव इत्येवं जन्मकारणम् ॥३१॥देहान्ते किं भवेज्जन्म तन्न जानन्ति मानवाः ।तस्माज्ज्ञानं च वैराग्यं जीवस्य केवलं श्रमः ॥३२॥पिपीलिका यथा लग्ना देहे ध्यानाद्विमुच्यते ।असौ किं वृश्चिकैर्द्रष्टो देहान्ते वा कथं सुखी ॥३३॥तस्मान्मूढा न जानन्ति मिथ्यातर्केण वेष्टिताः ।अहंकृतिर्यदा यस्य नष्टा भवति तस्य वै ॥३४॥देहस्त्वपि भवेन्नष्टो व्याधयश्चास्य किं पुनः ।जलाग्निशस्त्रखातादिबाधा कस्य भविष्यति ॥३५॥यदा यदा परिक्षीणा पुष्टा चाहंकृतिर्भवेत् ।तमनेनास्य नश्यन्ति प्रवर्तन्ते रुगादयः ॥३६॥कारणेन विना कार्यं न कदाचन विद्यते ।अहंकारं विना तद्वद्देहे दुःखं कथं भवेत् ॥३७॥शरीरेण जिताः सर्वे शरीरं योगिभिर्जितम् ।तत्कथं कुरुते तेषां सुखदुःखादिकं फलम् ॥३८॥इन्द्रियाणि मनो बुद्धिः कामक्रोधादिकं जितम् ।तेनैव विजितं सर्वं नासौ केनापि बाध्यते ॥३९॥महाभूतानि तत्त्वानि संहृतानि क्रमेण च ।सप्तधातुमयो देहो दग्धा योगाग्निना शनैः ॥४०॥देवैरपि न लक्ष्येत योगिदेहो महाबलः ।भेदबन्धविनिर्मुक्तो नानाशक्तिधरः परः ॥४१॥यथाकाशस्तथा देह आकाशादपि निर्मलः ।सूक्ष्मात्सूक्ष्मतरो दृश्यः स्थूलात्स्थूलो जडाज्जडः ॥४२॥इच्च्हारूपो हि योगीन्द्रः स्वतन्त्रस्त्वजरामरः ।क्रीडते त्रिषु लोकेषु लीलया यत्रकुत्रचित् ॥४३॥अचिन्त्यशक्तिमान्योगी नानारूपाणि धारयेत् ।संहरेच्च पुनस्तानि स्वेच्च्हया विजितेन्द्रियः ॥४४॥नासौ मरणमाप्नोति पुनर्योगबलेन तु ।हठेन मृत एवासौ मृतस्य मरणं कुतः ॥४५॥मरणं यत्र सर्वेषां तत्रासौ परिजीवति ।यत्र जीवन्ति मूढास्तु तत्रासौ मृत एव वै ॥४६॥कर्तव्यं नैव तस्यास्ति कृतेनासौ न लिप्यते ।जीवन्मुक्तः सदा स्वच्च्हः सर्वदोषविवर्जितः ॥४७॥विरक्ता ज्ञानिनश्चान्ये देहेन विजिताः सदा ।ते कथं योगिभिस्तुल्या मांसपिण्डाः कुदेहिनः ॥४८॥देहान्ते ज्ञानिभिः पुण्यात्पापाच्च फलमाप्यते ।ईदृशं तु भवेत्तत्तद्भुक्त्वा ज्ञानी पुनर्भवेत् ॥४९॥पश्चात्पुण्येन लभते सिद्धेन सह सङ्गतिम् ।ततः सिद्धस्य कृपया योगी भवति नान्यथा ॥५०॥ततो नश्यति संसारो नान्यथा शिवभाषितम् ।योगेन रहितं ज्ञानं न मोक्षाय भवेद्विधे ॥५१॥ज्ञानेनैव विना योगो न सिद्ध्यति कदाचन ।जन्मान्तरैश्च बहुभिर्योगो ज्ञानेन लभ्यते ॥५२॥ज्ञानं तु जन्मनैकेन योगादेव प्रजायते ।तस्मायोगात्परतरो नास्ति मार्गस्तु मोक्षदः ॥५३॥प्रविचार्य चिरं ज्ञानं मुक्तोऽहमिति मन्यते ।किमसौ मननादेव मुक्तो भवति तत्क्षणात् ॥५४॥पश्चाज्जन्मशन्तान्तरैर्योगादेव विमुच्यते ।न तथा भवतो योगाज्जन्ममृत्यू पुनः पुनः ॥५५॥प्राणापानसमायोगाच्चन्द्रसूर्यैकता भवेत् ।सप्तधातुमयं देहमग्निना रञ्जयेद्ध्रुवम् ॥५६॥व्याधयस्तस्य नश्यन्ति च्च्हेदखातादिकास्तथा ,तदासौ परमाकाशरूपो देह्यवतिष्ठति ॥५७॥किं पुनर्बहुनोक्तेन मरणं नास्ति तस्य वै ।देहीव दृश्यते लोके दग्धकर्पूरवत्स्वयम् ॥५८॥चित्तं प्राणेन संबद्धं सर्वजीवेषु संस्थितम् ।रज्ज्वा यद्wअत्सुसंबद्धः पक्षी तद्वदिदं मनः ॥५९॥नानाविधैर्विचारैस्तु न बाध्यं जायते मनः ।तस्मात्तस्य जयोपायः प्राण एव हि नान्यथा ॥६०॥तर्कैर्जल्पैः शास्त्रजालैर्युक्तिभिर्मन्त्रभेषजैः ।न वशो जायते प्राणः सिद्धोपायं विना विधे ॥६१॥उपायं तमविज्ञाय योगमार्गे प्रवर्तते ।खण्डज्ञानेन सहसा जायते क्लेशवत्तरः ॥६२॥यो जित्वा पवनं मोहाद्योगमिच्च्हति योगिनाम् ।सोऽपक्वं कुम्भमारुह्य सागरं तर्तुमिच्च्हति ॥६३॥यस्य प्राणो विलीनोऽन्तः साधके जीविते सति ।पिण्डो न पतितस्तस्य चित्तं दोषैः प्रबाधते ॥६४॥शुद्धे चेतसि तस्यैव स्वात्मज्ञानं प्रकाशते ।तस्माज्ज्ञानं भवेद्योगाज्जन्मनैकेन पद्मज ॥६५॥तस्माद्योगं तमेवादौ साधको नित्यमभ्यसेत् ।मुमुक्षुभिः प्राणजयः कर्तव्यो मोक्षहेतवे ॥६६॥योगात्परतरं पुण्यं योगात्परतरं शिवम् ।योगात्परतरं सूक्ष्मं योगात्परतरं नहि ॥६७॥योऽपानप्राणयोरैक्यं स्वरजोरेतसोस्तथा ।सूर्याचन्द्रमसोर्योगो जीवात्मपरमात्मनोः ॥६८॥एवं तु द्वन्द्वजालस्य संयोगो योग उच्यते ।अथ योगशिखां वक्ष्ये सर्वज्ञानेषु चोत्तमाम् ॥६९॥यदानुध्यायते मन्त्रं गात्रकम्पोऽथ जायते ।आसनं पद्मकं बद्ध्वा यच्चान्यदपि रोचते ॥७०॥नासाग्रे दृष्टिमारोप्य हस्तपादौ च संयतौ ।मनः सर्वत्र संगृह्य ॐकारं तत्र चिन्तयेत् ॥७१॥ध्यायते सततं प्राज्ञो हृत्कृत्वा परमेश्वरम् ।एकस्तम्भे नवद्वारे त्रिस्थूणे पञ्चदैवते ॥७२॥ईदृशे तु शरीरे वा मतिमान्नोपलक्षयेत् ।आदित्यमण्डलाकारं रश्मिज्वालासमाकुलम् ॥७३॥तस्य मध्यगतं वह्निं प्रज्वलेद्दीपवर्तिवत् ।दीपशिखा तु या मात्रा सा मात्रा परमेश्वरे ॥७४॥भिन्दन्ति योगिनः सूर्यं योगाभ्यासेन वै पुनः ।द्वितीयं सुषुम्नाद्वारं परिशुभ्रं समर्पितम् ॥७५॥कपालसंपुटं पीत्वा ततः पश्यति तत्पदम् ।अथ न ध्यायते जन्तुरालस्याच्च प्रमादतः ॥७६॥यदि त्रिकालमागच्च्हेत्स गच्च्हेत्पुण्यसंपदम् ।पुण्यमेतत्समासाद्य संक्षिप्य कथितं मया ॥७७॥लब्धयोगोऽथ बुद्ध्येत प्रसन्नं परमेश्वरम् ।जन्मान्तरसहस्रेषु यदा क्षीणं तु किल्बिषम् ॥७८॥तदा पश्यति योगेन संसारोच्च्हेदनं महत् ।अधुना संप्रवक्ष्यामि योगाभ्यासस्य लक्षणम् ॥७९॥मरुज्जयो यस्य सिद्धः सेवयेत्तं गुरुं सदा ।गुरुवस्त्रप्रसादेन कुर्यात्प्राणजयं बुधः ॥८०॥वितस्तिप्रमितं दैर्घ्यं चतुरङ्गुलविस्तृतम् ।मृदुलं धवलं प्रोक्तं वेष्टनाम्बरलक्षणम् ॥८१॥निरुध्य मारुतं गाढं शक्तिचालनयुक्तितः ।अष्टधा कुण्डलीभूतामृज्वीं कुर्यात्तु कुण्डलीम् ॥८२॥पायोराकुञ्चनं कुर्यात्कुण्डलीं चालयेत्तदा ।मृत्युचक्रगतस्यापि तस्य मृत्युभयं कुतः ॥८३॥एतदेव परं गुह्यं कथितं तु मया तव ।वज्रासनगतो नित्यमूर्ध्वाकुञ्चनमभ्यसेत् ॥८४॥वायुना ज्वलितो वह्निः कुण्डलीमनिशं दहेत् ।सन्तप्ता साग्निना जीवशक्तिस्त्रैलोक्यमोहिनी ॥८५॥प्रविशेच्चन्द्रतुण्डे तु सुषुम्नावदनान्तरे ।वायुना वह्निना सार्धं ब्रह्मग्रन्थिं भिनत्ति सा ॥८६॥विष्णुग्रन्थिं ततो भित्त्वा रुद्रग्रन्थौ च तिष्ठति ।ततस्तु कुम्भकैर्गाढं पूरयित्वा पुनःपुनः ॥८७॥अथाभ्यसेत्सूर्यभेदमुज्जायीं चापि शीतलीम् ।भस्त्रां च सहितो नाम स्याच्चतुष्टयकुम्भकः ॥८८॥बन्धत्रयेण संयुक्तः केवलप्राप्तिकारकः ।अथास्य लक्षणं सम्यक्कथयामि समासतः ॥८९॥एकाकिना समुपगम्य विविक्तदेशंप्राणादिरूपममृतं परमार्थतत्त्वम् ।लघ्वाशिना धृतिमता परिभावितव्यंसंसाररोगहरमौषधमद्वितीयम् ॥९०॥सूर्यनाड्या समाकृष्य वायुमभ्यासयोगिना ।विधिवत्कुम्भकं कृत्वा रेचयेच्च्ह्रीतरश्मिना ॥९१॥उदरे बहुरोगघ्नं क्रिमिदोषं निहन्ति च ।मुहुर्मुहुरिदं कार्यं सूर्यभेदमुदाहृतम् ॥९२॥नाडीभ्यां वायुमाकृष्य कुण्डल्याः पार्श्वयोः क्षिपेत् ।धारयेदुदरे पश्चाद्रेचयेदिडया सुधीः ॥९३॥कण्ठे कफादि दोषघ्नं शरीराग्निविवर्धनम् ।नाडीजलापहं धातुगतदोषविनाशनम् ॥९४॥गच्च्हतस्तिष्ठतः कार्यमुज्जायाख्यं तु कुम्भकम् ।मुखेन वायुं संगृह्य घ्राणरन्ध्रेण रेचयेत् ॥९५॥शीतलीकरणं चेदं हन्ति पित्तं क्षुधां तृषम् ।स्तनयोरथ भस्त्रेव लोहकारस्य वेगतः ॥९६॥रेच्येत्पूरयेद्वायुमाश्रमं देहगं धिया ।यथा श्रमो भवेद्देहे तथा सूर्येण पूरयेत् ॥९७॥कण्ठसंकोचनं कृत्वा पुनश्चन्द्रेण रेचयेत् ।वातपित्तश्लेष्महरं शरीराग्निविवर्धनम् ॥९८॥कुण्डलीबोधकं वक्त्रदोषघ्नं शुभदं सुखम् ।ब्रह्मनाडीमुखान्तस्थकफाद्यर्गलनाशनम् ॥९९॥सम्यग्बन्धुसमुद्भूतं ग्रन्थित्रयविभेदकम् ।विशेषेणैव कर्तव्यं भस्त्राख्यं कुम्भकं त्विदम् ॥१००॥बन्धत्रयमथेदानीं प्रवक्ष्यामि यथाक्रमम् ।नित्यं कृतेन तेनासौ वायोर्जयमवाप्नुयात् ॥१०१॥चतुर्णामपि भेदानां कुम्भके समुपस्थिते ।बन्धत्रयमिदं कार्यं वक्ष्यमाणं मयहि तत् ॥१०२॥प्रथमो मूलबन्धस्तु द्वितीयोड्डीयनाभिधः ।जालन्धारस्तृतीयस्तु लक्षणं कथयाम्यहम् ॥१०३॥गुदं पार्ष्ण्या तु संपीड्य पायुमाकुञ्चलेद्बलात् ।वारंवारं यथा चोर्ध्वं समायाति समीरणः ॥१०४॥प्राणापानौ नादबिन्दू मूलबन्धेन चैकताम् ।गत्वा योगस्य संसिद्धिं यच्च्हतो नात्र संशयः ॥१०५॥कुम्भकान्ते रेचकादौ कर्तव्यस्तूड्डियानकः ।बन्धो येन सुषुम्नायां प्राणस्तूड्डीयते यतः ॥१०६॥तस्मादुड्डीयनाख्योऽयं योगिभिः समुदाहृतः ।उड्डियानं तु सहजं गुरुणा कथितं सदा ॥१०७॥अभ्यसेत्तदतन्द्रस्तु वृद्धोऽपि तरुणो भवेत् ।नाभेरूर्ध्वमधश्चापि त्राणं कुर्यात्प्रयत्नतः ॥१०८॥षाण्मासमभ्यसेन्मृत्युं जयत्येव न संशयः ।पूरकान्ते तु कर्तव्यो बन्धो जालन्धराभिधः ॥१०९॥कण्ठसंकोचरूपोऽसौ वायुर्मार्गनिरोधकः ।कण्ठमाकुञ्च्य हृदये स्थापयेद्दृढमिच्च्हया ॥११०॥बन्धो जालन्धराख्योऽयममृताप्यायकारकः ।अधस्तात्कुञ्चनेनाशु कण्ठसंकोचने कृते ॥१११॥मध्ये पश्चिमतानेन स्यात्प्राणो ब्रह्मनाडिगः ।वज्रासनस्थितो योगी चालयित्वा तु कुण्डलीम् ॥११२॥कुर्यादनन्तरं भस्त्रीं कुण्डलीमाशु बोधयेत् ।भिद्यन्ते ग्रन्थयो वंशे तप्तलोहशलाकया ॥११३॥तथैव पृष्ठवंशः स्याद्ग्रन्थिभेदस्तु वायुना ।पिपीलिकायां लग्नायां कण्डूस्तत्र प्रवर्तते ॥११४॥सुषुम्नायां तथाभ्यासात्सततं वायुना भवेत् ।रुद्रग्रन्थिं ततो भित्त्वा ततो याति शिवात्मकम् ॥११५॥चन्द्रसूर्यौ समौ कृत्वा तयोर्योगः प्रवर्तते ।गुणत्रयमतीतं स्याद्ग्रन्थित्रयविभेदनात् ॥११६॥शिवशक्तिसमायोगे जायते परमा स्थितिः ।यथा करी करेणैव पानीयं प्रपिबेत्सदा ॥११७॥सुषुम्नावज्रनालेन पवमानं ग्रसेत्तथा ।वज्रदण्डसमुद्भूता मणयश्चैकविंशतिः ॥११८॥सुषुम्नायां स्थितः सर्वे सूत्रे मणिगणा इव ।मोक्षमार्गे प्रतिष्ठानात्सुषुम्ना विश्वरूपिणी ॥११९॥यथैव निश्चितः कालश्चन्द्रसूर्यनिबन्धनात् ।आपूर्य कुम्भितो वायुर्बहिर्नो याति साधके ॥१२०॥पुनःपुनस्तद्वदेव पश्चिमद्वारलक्षणम् ।पूरितस्तु स तद्द्वारैरीषत्कुम्भकतां गतः ॥१२१॥प्रविशेत्सर्वगात्रेषु वायुः पश्चिममार्गतः ।रेचितः क्षीणतां याति पूरितः पोषयेत्ततः ॥१२२॥यत्रैव जातं सकलेवरं मनस्तत्रैव लीनं कुरुते स योगात् ।स एव मुक्तो निरहंकृतिः सुखीमूढा न जानन्ति हि पिण्डपातिनः ॥१२३॥चित्तं विनिष्टं यदि भासितं स्यात्तत्र प्रतीतो मरुतोऽपि नाशः ।न चेद्यदि स्यान्न तु तस्य शास्त्रंनात्मप्रतीतिर्न गुरुर्न मोक्षः ॥१२४॥जलूका रुधिरं यद्वद्बलादाकर्षति स्वयम् ।ब्रह्मनाडी तथा धातून्सन्तताभ्यासयोगतः ॥१२५॥अनेनाभ्यासयोगेन नित्यमासनबन्धतः ।चित्तं विलीनतामेति बिन्दुर्नो यात्यधस्तथा ॥१२६॥रेचकं पूरकं मुक्त्वा वायुना स्थीयते स्थिरम् ।नाना नादाः प्रवर्तन्ते संस्रवेच्चन्द्रमण्डलम् ॥१२७॥नश्यन्ति क्षुत्पिपासाद्याः सर्वदोषास्ततस्तदा ।स्वरूपे सच्चिदानन्दे स्थितिमाप्नोति केवलम् ॥१२८॥कथितं तु तव प्रीत्या ह्येतदभ्यासलक्षणम् ।मन्त्रो लयो हठो राजयोगोऽन्तर्भूमिकाः क्रमात् ॥१२९॥एक एव चतुर्धाऽयं महायोगोऽभिधीयते ।हकारेण बहिर्याति सकारेण विशेत्पुनः ॥१३०॥हंसहंसेति मन्त्रोऽयं सर्वैर्जीवश्च जप्यते ।गुरुवाक्यात्सुषुम्नायां विपरीतो भवेज्जपः ॥१३१॥सोऽहंसोऽहमिति प्रोक्तो मन्त्रयोगः स उच्यते ।प्रतीतिर्मन्त्रयोगाच्च जायते पश्चिमे पथि ॥१३२॥हकारेण तु सूर्यः स्यात्सकारेणेन्दुरुच्यते ।सूर्याचन्द्रमसोरैक्यं हठ इत्यभिधीयते ॥१३३॥हठेन ग्रस्यते जाड्यं सर्वदोषसमुद्भवम् ।क्षेत्रज्ञः परमात्मा च तयोरैक्यं यदा भवेत् ॥१३४॥तदैक्ये साधिते ब्रह्मंश्चित्तं याति विलीनताम् ।पवनः स्थैर्यमायाति लययोगोदये सति ॥१३५॥लयात्संप्राप्यते सौख्यं स्वात्मानदं परं पदम् ।योनिमध्ये महाक्षेत्रे जपाबन्धूकसंनिभम् ॥१३६॥रजो वसति जन्तूनां देवीतत्त्वं समावृतम् ।रजसो रेतसो योगाद्राजयोग इति स्मृतः ॥१३७॥अणिमादिपदं प्राप्य राजते राजयोगतः ।प्राणापानसमायोगो ज्ञेयं योगचतुष्टयम् ॥१३८॥संक्षेपात्कथितं ब्रह्मन्नान्यथा शिवभाषितम् ।क्रमेण प्राप्यते प्राप्यमभ्यासादेव नान्यथा ॥१३९॥एकेनैव शरीरेण योगाभ्यासाच्च्हनैःशनैः ।चिरात्संप्राप्यते मुक्तिर्मर्कटक्रम एव सः ॥१४०॥योगसिद्धिं विना देहः प्रमादाद्यदि नश्यति ।पूर्ववासनया युक्तः शरीरं चान्यदाप्नुयात् ॥१४१॥ततः पुण्यवशात्सिद्धो गुरुणा सह संगतः ।पश्चिमद्वारमार्गेण जायते त्वरितं फलम् ॥१४२॥पूर्वजन्मकृताभ्यासात्सत्त्वरं फलमश्नुते ।एतदेव हि विज्ञेयं तत्काकमतमुच्यते ॥१४३॥नास्ति काकमतादन्यदभ्यासाख्यमतः परम् ।तेनैव प्राप्यते मुक्तिर्नान्यथा शिवभाषितम् ॥१४४॥हठयोगक्रमात्काष्ठासहजीवलयादिकम् ।नाकृतं मोक्षमार्गं स्यात्प्रसिद्धां पश्चिमं विना ॥१४५॥आदौ रोगाः प्रणश्यन्ति पश्चाज्जाड्यं शरीरजम् ।ततः समरसो भूत्वा चन्द्रो वर्षत्यनारतम् ॥१४६॥धातूंश्च संग्रहेद्वह्निः पवनेन समन्ततः ।नाना नादाः प्रवर्तन्ते मार्दवं स्यात्कलेवरे ॥१४७॥जित्वा वृष्ट्यादिकं जाड्यं खेचरः स भवेन्नरः ।सर्वज्ञोसौ भवेत्कामरूपः पवनवेगवान् ॥१४८॥क्रीडते त्रिषु लिकेषु जायन्ते सिद्धयोऽखिलाः ।कर्पूरे लीयमाने किं काठिन्यं तत्र विद्यते ॥१४९॥अहंकारक्षये तद्वद्देहे कठिना कुतः ।सर्वकर्ता च योगीन्द्रः स्वतन्त्रोऽनन्तरूपवान् ॥१५०॥जीवन्मुक्तो महायोगी जायते नात्र संशयः ।द्विविधाः सिद्धयो लोके कल्पिताऽकल्पितास्तथा ॥१५१॥रसौषधिक्रियाजालमन्त्राभ्यासाधिसाधनात् ।सिद्ध्यन्ति सिद्धयो यास्तु कल्पितास्ताः प्रकीर्तिताः ॥१५२॥अनित्या अल्पवीर्यास्ताः सिद्धयः साधनोद्भवाः ।साधनेन विनाप्येवं जायन्ते स्वत एव हि ॥१५३॥स्वात्मयोगैकनिष्ठेषु स्वातन्त्र्याद्दीश्वरप्रियाः ।प्रभूताः सिद्धयो यास्ताः कल्पनारहिताः स्मृताः ॥१५४।सिद्धानित्या महावीर्या इच्च्हारूपाः स्वयोगजाः ।चिरकालात्प्रजायन्ते वासनारहितेषु च ॥१५५॥तास्तु गोप्या महायोगात्परमात्मपदेऽव्यये ।विना कार्यं सदा गुप्तं योगसिद्धस्य लक्षणम् ॥१५६॥यथाकाशं समुद्दिश्य गच्च्हद्भिः पथिकैः पथि ।नाना तीर्थानि दृश्यन्ते नानामार्गास्तु सिद्धयः ॥१५७॥स्वयमेव प्रजायन्ते लाभालाभविवर्जिते ।योगमार्गे तथैवेदं सिद्धिजालं प्रवर्तते ॥१५८॥परीक्षकैः स्वर्णकारैर्हेम संप्रोच्यते यथा ।सिधिभिर्लक्षयेत्सिद्धं जीवन्मुक्तं तथैव च ॥१५९॥अलौकिकगुणस्तस्य कदाचिद्दृश्यते ध्रुवम् ।सिद्धिभिः परिहीनं तु नरं बद्धं तु लक्षयेत् ॥१६०॥अजरामरपिण्डो यो जीवन्मुक्तः स एव हि ।पशुकुक्कुटकीटाद्या मृतिं संप्राप्नुवन्ति वै ॥१६१॥तेषां किं पिण्डपातेन मुक्तिर्भवति पद्मज ।न बहिः प्राण आयाति पिण्डस्य पतनं कुतः ॥१६२॥पिण्डपातेन या मुक्तिः सा मुक्तिर्न तु हन्यते ।देहे ब्रह्मत्वमायाते जलानां सैन्धवं यथा ॥१६३॥अनन्यतां यदा याति तदा मुक्तः स उच्यते ।विमतानि शरीराणि इन्द्रियाणि तथैव च ॥१६४॥ब्रह्म देहत्वमापन्नं वारि बुद्बुदतामिव ।दशद्वार पुरं देहं दशनाडीमहापथम् ॥१६५॥दशभिर्वायुभिर्व्याप्तं दशेन्द्रियपरिच्च्हदम् ।षडाधारापवरकं षडन्वयमहावनम् ॥१६६॥चतुःपीठसमाकीर्णं चतुराम्नायदीपकम् ।बिन्दुनादमहालिङ्गं शिवशक्तिनिकेतनम् ॥१६७॥देहं शिवालयं प्रोक्तं सिद्धिदं सर्वदेहिनाम् ।गुदमेढ्रान्तरालस्थं मूलाधारं त्रिकोणकम् ॥१६८॥शिवस्य जीवरूपस्य स्थानं तद्धि प्रचक्षते ।यत्र कुण्डलिनीनाम परा शक्तिः प्रतिष्ठिता ॥१६९॥यस्मादुत्पद्यते वायुर्यस्माद्वह्निः प्रवर्तते ।यस्मादुत्पद्यते बिन्दुर्यस्मान्नादः प्रवर्तते ॥१७०॥यस्मादुत्पद्यते हंसो यस्मादुत्पद्यते मनः ।तदेतत्कामरूपाख्यं पीठं कामफलप्रदम् ॥१७१॥स्वाधिष्ठानाह्वयं चक्रं लिङ्गमूले षडस्रके ।नाभिदेशे स्थितं चक्रं दशारं मणिपूरकम् ॥१७२॥द्वादशारं महाचक्रं हृदये चाप्यनाहतम् ।तदेतत्पूर्णगिर्याख्यं पीठं कमलसंभव ॥१७३॥कण्ठकूपे विशुद्ध्याख्यं यच्चक्रं षोडशास्रकम् ।पीठं जालन्धर नाम तिष्ठत्यत्र सुरेश्वर ॥१७४॥आज्ञा नाम भ्रुवोर्मध्ये द्विदलं चक्रमुत्तमम् ।उड्यानाख्यं महापीठमुपरिष्टात्प्रतिष्ठितम् ॥१७५॥चतुरस्रं धरण्यादौ ब्रह्मा तत्राधिदेवता ।अर्धचन्द्राकृति चलं विष्णुस्तस्याधिदेवता ॥१७६॥त्रिकोणमण्डलं वह्नी रुद्रस्तस्याधिदेवता ।वायोर्बिम्बं तु षट्कोणमीश्वरोऽस्याधिदेवता ॥१७७॥आकाशमण्डलं वृत्तं देवतास्य सदाशिवः ।नादरूपं भ्रुवोर्मध्ये मनसो मण्डलं विदुः ॥१७८॥इति प्रथमोऽध्यायः ॥१॥ N/A References : N/A Last Updated : March 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP