संस्कृत सूची|संस्कृत साहित्य|उपनिषद|योगशिक्षोपनिषद्| चतुर्थोऽध्यायः योगशिक्षोपनिषद् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः योगशिक्षोपनिषद् - चतुर्थोऽध्यायः उपनिषद् हिन्दू धर्माचे महत्त्वपूर्ण श्रुति धर्मग्रन्थ आहेत.Upanishad are highly philosophical and metaphysical part of Vedas. Tags : upanishadvedउपनिषद्वेद चतुर्थोऽध्यायः Translation - भाषांतर चैतनस्यैकरूपत्वद्भेदो युक्तो न कर्हिचित् ।जीवत्वं च तथा ज्ञेयं रज्ज्वां सर्पग्रहो यथा ॥१॥रज्ज्वज्ञानात्क्षणेनैव यद्वद्रज्जुर्हि सर्पिणी ।भाति तद्वच्चितिः साक्षाद्विश्वाकारेण केवला ॥२॥उपादानं प्रपञ्चस्य ब्रह्मणोऽन्यन्न विद्यते ।तस्मात्सर्वप्रपञ्चोऽयं ब्रह्मैवास्ति न चेतरत् ॥३॥व्याप्यव्याप्यकता मिथ्या सर्वमात्मेति शासनात् ।इति ज्ञाते परे तत्त्वे भेदस्यावसरः कुतः ॥४॥ब्रह्मणः सर्वभूतानि जायन्ते परमात्मनः ।तस्मादेतानि ब्रह्मैव भवन्तीति विचिन्तय ॥५॥ब्रह्मैव सर्वनामानि रूपाणि विविधानि च ।कर्माण्यपि समग्राणि बिभर्तीति विभावय ॥६॥सुवर्णाज्जायमानस्य सुवर्णत्वं च शाश्वतम् ।ब्रह्मणो जायमानस्य ब्रह्मत्वं च तथा भवेत् ॥७॥स्वल्पमप्यन्तरं कृत्वा जीवात्मपरमात्मनोः ।यस्तिष्ठति विमूढात्मा भयं तस्यापि भाषितम् ॥८॥यदज्ञानद्भवेद्द्वैतमितरत्तत्प्रपश्यति ।आत्मत्वेन तदा सर्वं नेतरत्तत्र चाण्वपि ॥९॥अनुभूतोऽप्ययं लोको व्यवहारक्षमोऽपि सन् ।असद्रूपो यथा स्वप्न उत्तरक्षणबाधितः ॥१०॥स्वप्ने जागरितं नास्ति जागरे स्वप्नता नहि ।द्वयमेव लये नास्ति लयोऽपि ह्यनयोर्न च ॥११॥त्रयमेव भवेन्मिथ्या गुणत्रयविनिर्मितम् ।अस्य द्रष्टा गुणातीतो नित्यो ह्येष चिदात्मकः ॥१२॥यद्वन्मृदि घटभ्रान्तिः शुक्तौ हि रजतस्थितिः ।तद्वद्ब्रह्मणि जीवत्वं वीक्षमाणे विनश्यति ॥१३॥यथा मृदि घटो नाम कनके कुण्डलाभिधा ।शुक्तौ हि रजतख्यातिर्जीवशब्दस्तथा परे ॥१४॥यथैव व्योम्नि नीलत्वं यथा नीरं मरुस्थले ।पुरुषत्वं यथा स्थाणौ तद्वद्विश्वं चिदात्मनि ॥१५॥यथैव शून्यो वेतालो गन्धर्वाणं पुरं यथा ।यथाकाशे द्विचन्द्रत्वं तद्वत्सत्ये जगत्स्थितिः ॥१६॥यथा तरङ्गकल्लोलैर्जलमेव स्फुरत्यलम् ।घटनाम्ना यथा पृथ्वी पटनाम्ना हि तन्तवः ॥१७॥जगन्नाम्ना चिदाभाति सर्वं ब्रह्मैव केवलम् ।यथा वन्ध्यासुतो नास्ति यथा नस्ति मरौ जलम् ॥१८॥यथा नास्ति नभोवृक्षस्तथा नास्ति जगत्स्थितिः ।गृह्यमाने घटे यद्वन्मृत्तिका भाति वै बलात् ॥१९॥वीक्ष्यमाणे प्रपञ्चे तु ब्रह्मैवाभाति भासुरम् ।सदैवात्मा विशुद्धोऽस्मि ह्यशुद्धो भाति वै सदा ॥२०॥यथैव द्विविधा रज्जुर्ज्ञानिनोऽज्ञानिनोऽनिशम् ।यथैव मृन्मयः कुंभस्तद्वद्देहोऽपि चिन्मयः ॥२१॥आत्मानात्मविवेकोऽयं मुधैव क्रियते बुधैः ॥सर्पत्वेन यथा रज्जू रजतत्वेन शुक्तिका ॥२२॥विनिर्णीता विमूढेन देहत्वेन तथात्मता ।घटत्वेन यथा पृथ्वी जलत्वेन मरीचिका ॥२३॥गृहत्वेन हि काष्ठानि खड्गत्वेन हि लोहता ।तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥२४॥ इति॥इति चतुर्थोऽध्यायः ॥४॥ N/A References : N/A Last Updated : March 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP