संस्कृत सूची|संस्कृत साहित्य|उपनिषद|वराहोपनिषत्| पञ्चमोऽध्यायः वराहोपनिषत् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोध्यायः चतुर्थोऽद्यायः पञ्चमोऽध्यायः वराहोपनिषत् - पञ्चमोऽध्यायः उपनिषद् हिन्दू धर्माचे महत्त्वपूर्ण श्रुति धर्मग्रन्थ आहेत.Upanishad are highly philosophical and metaphysical part of Vedas. Tags : upanishadvedउपनिषद्वेद पञ्चमोऽध्यायः Translation - भाषांतर अथ हैनं ऋभुं भगवन्तं निदाघः पप्रच्छयोगाभ्यासविधिमनुब्रूहीति । तथेति स होवाच ।पञ्चभूतात्मको देहः पञ्चमण्डलपूरितः ।काठिन्यं पृथिवीमेका पानीयं तद्द्रवाकृति ॥१॥दीपनं च भवेत्तेजः प्रचारो वायुलक्षणम् ।आकाशः सत्त्वतः सर्वं ज्ञातव्यं योगमिच्छता ॥२॥षट्शतान्यधिकान्यत्र सहस्राण्येकविंशतिः ।अहोरात्रवहिः श्वासैर्वायुमण्डलघाततः ॥३॥तत्पृथ्वीमण्डले क्षीणे वलिरायाति देहिनाम् ।तद्वदापो गणापाये केशाः स्युः पाण्डुराः क्रमात् ॥४॥तेजःक्षये क्षुधा कान्तिर्नश्यते मारुतक्षये ।वेपथुः संभवेन्नित्यं नाम्भसेनैव जीवति ॥५॥इत्थंभूतं क्षयान्नित्यं जीवितं भूतधारणम् ।उड्ड्याणं कुरुते यस्मादविश्रान्तं महाखगः ॥६॥उड्डियाणं तदेव स्यात्तत्र बन्धोऽभिधीयते ।उड्डियाणो ह्यसौ बन्धो मृत्युमातङ्गकेशरी ॥७॥तस्य मुक्तिस्तनोः कायात्तस्य बन्धो हि दुष्करः ।अग्नौ तु चालिते कुक्षौ वेदना जायते भृशम् ॥८॥न कार्या क्षुधि तेनापि नापि विण्मूत्रवेगिना ।हितं मितं च भोक्तव्यं स्तोकं स्तोकमनेकधा ॥९॥मृदुमध्यममन्त्रेषु क्रमान्मन्त्रं लयं हठम् ।लयमन्त्रहठा योगा योगो ह्यष्टाङ्गसंयुतः ॥१०॥यमश्च नियमश्चैव तथा चासनमेव च ।प्राणायमस्तथा पश्चात्प्रत्याहारस्तथा परम् ॥११॥धारणा च तथा ध्यानं समधिश्चाष्टमो भवेत् ।अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयार्जवम् ॥१२॥क्षमा धृतिर्मिताहारः शौचं चेति यमा दश ।तपः सन्तोषमास्तिक्यं दानमीश्वरपूजनम् ॥१३॥सिद्धान्तश्रवणं चैव ह्रीर्मतिश्च जपो व्रतम् ।एते हि नियमाः प्रोक्ता दशधैव महामते ॥१४॥एकादशासनानि स्युश्चक्रादि मुनिसत्तम ।चक्रं पद्मासनं कूर्मं मयूरं कुक्कुटं तथा ॥१५॥वीरासनं स्वस्तिकं च भद्रं सिंहासनं तथा ।मुक्तासनं गोमुखं च कीर्तितं योगवित्तमैः ॥१६॥सव्योरु दक्षिणे गुल्फे दक्षिणं दक्षिणेतरे ।निदध्यादृजुकायस्तु चक्रासनमिदं मतम् ॥१७॥पूरकः कुम्भकस्तद्वद्रेचकः पूरकः पुनः ।प्राणायामः स्वनाडीभिस्तस्मान्नाडीः प्रचक्षते ॥१८॥शरीरं सर्वजन्तूनां षण्णवत्यङ्गुलात्मकम् ।तन्मध्ये पायुदेशात्तु द्व्यङ्गुलात्परतः परम् ॥१९॥मेढ्रदेशादधस्तात्तु द्व्यङ्गुलान्मध्यमुच्यते ।मेढ्रान्नताङ्गुलादूर्ध्वं नाडीनां कन्दमुच्यते ॥२०॥चतुरङ्गुलमुत्सेधं चतुरङ्गुलमायतम् ।अण्डाकारं परिवृतं मेदोमज्जास्थिशोणितैः ॥२१॥तत्रैव नाडीचक्रं तु द्वादशारं प्रतिष्ठितम् ।शरीरं ध्रियते येन वर्तते तत्र कुण्डली ॥२२॥ब्रह्मरन्ध्रं सुषुम्णा या वदनेन पिधाय सा ।अलम्बुसा सुषुम्णायाः कुहूर्नाडी वसत्यसौ ॥२३॥अनन्तरारयुग्मे तु वारुणा च यशस्विनी ।दक्षिणारे सुषुम्णायाः पिङ्गला वर्तते क्रमात् ॥२४॥तदन्तरारयोः पूषा वर्तते च पयस्विनी ।सुषुम्ना पश्चिमे चारे स्थिता नाडी सरस्वती ॥२५॥शङ्खिनी चैव गान्धारी तदनन्तरयोः स्थिते ।उत्तरे तु सुषुम्नाया इडाख्या निवसत्यसौ ॥२६॥अनन्तरं हस्तिजिह्वा ततो विश्वोदरी स्थिता ।प्रदक्षिणक्रमेणैव चक्रस्यारेषु नाडयः ॥२७॥वर्तन्ते द्वादश ह्येता द्वादशानिलवाहकाः ।पटवत्संस्थिता नाड्यो नानावर्णाः समीरिताः ॥२८॥पटमध्यं तु यत्स्थानं नाभिचक्रं तदुच्यते ।नादाधारा समाख्याता ज्वलन्ती नादरूपिणी ॥२९॥पररन्ध्रा सुषुम्ना च चत्वारो रत्नपूरिताः ।कुण्डल्या पिहितं शश्वद्ब्रह्मरन्ध्रस्य मध्यमम् ॥३०॥एवमेतासु नाडीषु धरन्ति दशवायवः ।एवं नाडीगतिं वायुगतिं ज्ञात्वा विचक्षणः ॥३१॥समग्रीवशिरः कायः संवृतास्यः सुनिश्चलः ।नासाग्रे चैव हृन्मध्ये बिन्दुमध्ये तुरीयकम् ॥३२॥स्रवन्तममृतं पश्येन्नेत्राभ्यां सुसमाहितः ।अपानं मुकुलीकृत्य पायुमाकृष्य चोन्मुखम् ॥३३॥प्रणवेन समुत्थाप्य श्रीबीजेन निवर्तयेत् ।स्वात्मानं च श्रियं ध्यायेदमृतप्लावनं तथा ॥३४॥कालवञ्चनमेतद्धि सर्वमुख्यं प्रचक्षते ।मनसा चिन्तिता कार्यं मनसा येन सिध्यति ॥३५॥जलेऽग्निज्वलनाच्छाखापल्लवानि भवन्ति हि ।नाधन्यं जागतं वाक्यं विपरीता भवेत्क्रिया ॥३६॥मार्गे बिन्दुं समाबध्य वह्निं प्रज्वाल्य जीवने ।शोषयित्वा तु सलिलं तेन कायं दृढं भवेत् ॥३७॥गुदयोनिसमायुक्त आकुञ्चत्येककालतः ।अपानमूर्ध्वगं कृत्वा समानोन्ने नियोजयेत् ॥३८॥स्वात्मानं च श्रियं ध्यायेदमृतप्लावनं ततः ।बलं समारभेद्योगं मध्यमद्वारभागतः ॥३९॥भावयेदूर्ध्वगत्यर्थं प्राणापानसुयोगतः ।एष योगो वरो देहे सिद्धिमार्गप्रकाशकः ॥४०॥यथैवापाङ्गतः सेतुः प्रवाहस्य निरोधकः ।तथा शरीरगा च्छाया ज्ञातव्या योगिभिः सदा ॥४१॥सर्वासामेव नाडीनामेष बन्धः प्रकीर्तितः ।बन्धस्यास्य प्रसादेन स्फुटीभवति देवता ॥४२॥एवं चतुष्पथो बन्धो मार्गत्रयनिरोधकः ।एकं विकासयन्मार्गं येन सिद्धाः सुसङ्गताः ॥४३॥उदानमूर्ध्वगं कृत्वा प्राणेन सह वेगतः ।बन्धोऽयं सर्वनाडीनामूर्ध्वं याति निरोधकः ॥४४॥अयं च संपुटो योगो मूलबन्धोऽप्ययं मतः ।बन्धत्रयमनेनैव सिद्ध्यत्यभ्यासयोगतः ॥४५॥दिवारात्रमविच्छिन्नं यामेयामे यदा यदा ।अनेनाभ्यासयोगेन वायुरभ्यसितो भवेत् ॥४६॥वायावभ्यसिते वह्निः प्रत्यहं वर्धते तनौ ।वह्नौ विवर्धमाने तु सुखमन्नादि जीर्यते ॥४७॥अन्नस्य परिपाकेन रसवृद्धिः प्रजायते ।रसे वृद्धिं गते नित्यं वर्धन्ते धातवस्तथा ॥४८॥धातूनां वर्धनेनैव प्रबोधो वर्तते तनौ ।दह्यन्ते सर्वपापानि जन्मकोट्यर्जितानि च ॥४९॥गुदमेढ्रान्तरालस्थं मूलाधारं त्रिकोणकम् ।शिवस्य बिन्दुरूपस्य स्थानं तद्धि प्रकाशकम् ॥५०॥यत्र कुण्डलिनी नाम परा शक्तिः प्रतिष्ठिता ।यस्मादुत्पद्यते वायुर्यस्माद्वह्निः प्रवर्धते ॥५१॥यस्मादुत्पद्यते बिन्दुर्यस्मान्नादः प्रवर्धते ।यस्मादुत्पद्यते हंसो यस्मादुत्पद्यते मनः ॥५२॥मूलाधारादिषट्चक्रं शक्तिस्थानमुदीरितम् ।कण्ठादुपरि मूर्धान्तं शांभवं स्थानमुच्यते ॥५३॥नाडीनामाश्रयः पिण्डो नाड्यः प्राणस्य चाश्रयः ।जीवस्य निलयः प्राणो जीवो हंसस्य चाश्रयः ॥५४॥हंसः शक्तेरधिष्ठानं चराचरमिदं जगत् ।निर्विकल्पः प्रसन्नात्मा प्राणायां समभ्यसेत् ॥५५॥सम्यग्बन्धत्रयस्थोऽपि लक्ष्यलक्षणकारणम् ।वेद्यं समुद्धरेन्नित्यं सत्यसंधानमानसः ॥५६॥रेचकं पूरकं चैव कुम्भमध्ये निरोधयेत् ।दृश्यमाने परे लक्ष्ये ब्रह्मणि स्वयमाश्रितः ॥५७॥बाह्यस्थविषयं सर्वं रेचकः समुदाहृतः ।पूरकं शास्त्रविज्ञानं कुम्भकं स्वगतं स्मृतम् ॥५८॥एवमभ्यासचित्तश्चेत्समुक्तो नात्र संशयः ।कुम्भकेन समारोप्य कुम्भकेन पूरयेत् ॥५९॥कुम्भेन कुम्भयेत्कुम्भं तदन्तस्थः परं शिवम् ।पुनरास्फालयेदद्य सुस्थिरं कण्ठमुद्रया ॥५.६०॥वायूनां गतिमावृत्य धृत्वा पूरककुम्भकौ ।समहस्तयुगं भूमौ समं पादयुगं तथा ॥६१॥वेधकक्रमयोगेन चतुष्पीठं तु वायुना ।आस्फालयेन्महामेरुं वायुवक्त्रे प्रकोटिभिः ॥६२॥पुटद्वयं समाकृष्य वायुः स्फुरति सत्वरम् ।सोमसूर्याग्निसंबधाज्जानीयादमृताय वै ॥६३॥मेरुमध्यगता देवाश्चलन्ते मेरुचालनात् ।आदौ संजायते क्षिप्रं वेधोऽस्य ब्रह्मग्रन्थितः ॥६४॥ब्रह्मग्रन्थिं ततो भित्त्वा विष्णुग्रन्थिं भिनत्त्यसौ ।विष्णुग्रन्थिं ततो भित्त्वा रुद्रग्रन्थिं भिनत्त्यसौ ॥६५॥रुद्रग्रन्थिं ततो भित्त्वा छित्वा मोहमलं तथा ।अनेकजन्मसंस्कारगुरुदेवप्रसादतः ॥६६॥योगाभ्यासात्ततो वेधो जायते तस्य योगिनः ।इडापिङ्गलयोर्मध्ये सुषुम्नानाडिमण्डले ॥६७॥मुद्राबन्धविशेषेण वायुमूर्ध्वं च कारयेत् ।ऱ्हस्वो दहति पापानि दीर्घो मोक्षप्रदायकः ॥६८॥आप्यायनः प्लुतो वापि त्रिविधोच्चारणेन तु ।तैलधारामिवच्छिन्नं दीर्घघण्टानिनादवत् ॥६९॥अवाच्यं प्रणवस्याग्रं यस्तं वेद स वेदवित् ।हस्वं बिन्दुगतं दैर्घ्यं ब्रह्मरन्ध्रगतं प्लुतम् ।द्वादशान्तगतं मन्त्रं प्रसादं मन्त्रसिद्धये ॥७०॥सर्वविघ्नहरश्चायं प्रणवः सर्वदोषहा ।आरंभश्च घटश्चैव पुनः परिचयस्तथा ॥७१॥निष्पत्तिश्चेति कथिताश्चतस्रस्तस्य भूमिकाः ।कारणत्रयसंभूतं बाह्यं कर्म परित्यजन् ॥७२॥आन्तरं कर्म कुरुते यत्रारंभः स उच्यते ।वायुः पश्चिमतो वेधं कुर्वन्नापूर्य सुस्थिरम् ॥७३॥यत्र तिष्ठति सा प्रोक्ता घटाख्या भूमिका बुधैः ।न सजीवो न निर्जीवः काये तिष्ठति निश्चलम् ।यत्र वायुः स्थिरः खे स्यात्सेयं प्रथमभूमिका ॥७४॥यत्रात्मना सृष्टिलयौ जीवन्मुक्तिदशागतः ।सहजः कुरुते योगं सेयं निष्पत्तिभूमिका ॥७५॥ इति॥एतदुपनिषदं योऽधीते सोऽग्निपूतो भवति ।स वायुपूतो भवति । सुरापानात्पूतो भवति ।स्वर्णस्तेयात्पूतो भवति । स जीवन्मुक्तो भवति ।तदेतदृचाभ्युक्तम् । तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।दिवीव चक्षुराततम् । तद्विप्रासो विपन्यवो जागृवांसः समिन्धते ।विष्णोर्यत्परमं पदमित्युपनिषत् ॥इति पञ्चमोऽध्यायः ॥५॥ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै ॥तेजस्विनावधी तमस्तु मा विद्विषावहै ॥ॐ शान्तिः शान्तिः शान्तिः ॥हरिः ॐ तत्सत् ॥इति वराहोपनिषत्समाप्ता ॥ N/A References : N/A Last Updated : March 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP